दशग्रीवविघूर्णनम्
युद्धकाण्डः / दशग्रीवविघूर्णनम्
Script
Translation
Previous
रावणशूलभङ्गः
Next
सारथिविज्ञेयम्
अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे दशग्रीवविघूर्णनम् नाम पञ्चाधिकशततमः सर्गः ॥६-१०५॥
स तु तेन तदा क्रोधात् काकुत्स्थेनार्दितो भृशम् ।
रावणः समरश्लाघी महाक्रोधमुपागमत् ॥६-१०५-१॥
स दीप्तनयनोऽमर्षाच्चापमुद्यम्य वीर्यवान् ।
अभ्यर्दयत् सुसंक्रुद्धो राघवं परमाहवे ॥६-१०५-२॥
बाणधारासहस्रैस्तैः स तोयद इवाम्बरात् ।
राघवं रावणो बाणैस्तटाकमिव पूरयन् ॥६-१०५-३॥
पूरितः शरजालेन धनुर्मुक्तेन संयुगे ।
महागिरिरिवाकम्प्यः काकुत्स्थो न प्रकम्पते ॥६-१०५-४॥
स शरैः शरजालानि वारयन् समरे स्थितः ।
गभस्तीनिव सूर्यस्य प्रतिजग्राह वीर्यवान् ॥६-१०५-५॥
ततः शरसहस्राणि क्षिप्रहस्तो निशाचरः ।
निजघानोरसि क्रुद्धो राघवस्य महात्मनः ॥६-१०५-६॥
स शोणितसमादिग्धः समरे लक्ष्मणाग्रजः ।
दृष्टः फुल्ल इवारण्ये सुमहान् किंशुकद्रुमः ॥६-१०५-७॥
शराभिघातसंरब्धः सोऽभिजग्राह सायकान् ।
काकुत्स्थः सुमहातेजा युगान्तादित्यवर्चसः ॥६-१०५-८॥
ततोऽन्योन्यं सुसंरब्धौ तावुभौ रामरावणौ ।
शरान्धकारे समरे नोपलक्षयतां तदा ॥६-१०५-९॥
ततः क्रोधसमाविष्टो रामो दशरथात्मजः ।
उवाच रावणं वीरः प्रहस्य परुषं वचः ॥६-१०५-१०॥
मम भार्या जनस्थानादज्ञानाद् राक्षसाधम ।
हृता ते विवशा यस्मात् तस्मात् त्वं नासि वीर्यवान् ॥६-१०५-११॥
मया विरहितां दीनां वर्तमानां महावने ।
वैदेहीं प्रसभं हृत्वा शूरोऽहमिति मन्यसे ॥६-१०५-१२॥
स्त्रीषु शूर विनाथासु परदाराभिमर्शनम् ।
कृत्वा कापुरुषं कर्म शूरोऽहमिति मन्यसे ॥६-१०५-१३॥
भिन्नमर्याद निर्लज्ज चारित्रेष्वनवस्थित ।
दर्पान्मृत्युमुपादाय शूरोऽहमिति मन्यसे ॥६-१०५-१४॥
शूरेण धनदभ्रात्रा बलैः समुदितेन च ।
श्लाघनीयं महत्कर्म यशस्यं च कृतं त्वया ॥६-१०५-१५॥
उत्सेकेनाभिपन्नस्य गर्हितस्याहितस्य च ।
कर्मणः प्राप्नुहीदानीं तस्याद्य सुमहत् फलम् ॥६-१०५-१६॥
शूरोऽहमिति चात्मानमवगच्छसि दुर्मते ।
नैव लज्जास्ति ते सीतां चौरवद् व्यपकर्षतः ॥६-१०५-१७॥
यदि मत्संनिधौ सीता धर्षिता स्यात् त्वया बलात् ।
भ्रातरं तु खरं पश्येस्तदा मत्सायकैर्हतः ॥६-१०५-१८॥
दिष्ट्यासि मम मन्दात्मंश्चक्षुर्विषयमागतः ।
अद्य त्वां सायकैस्तीक्ष्णैर्नयामि यमसादनम् ॥६-१०५-१९॥
अद्य ते मच्छरैश्छिन्नं शिरो ज्वलितकुण्डलम् ।
क्रव्यादा व्यपकर्षन्तु विकीर्णं रणपांसुषु ॥६-१०५-२०॥
निपत्योरसि गृध्रास्ते क्षितौ क्षिप्तस्य रावण ।
पिबन्तु रुधिरं तर्षाद् बाणशल्यान्तरोत्थितम् ॥६-१०५-२१॥
अद्य मद्बाणभिन्नस्य गतासोः पतितस्य ते ।
कर्षन् त्वन्त्राणि पतगा गरुत्मन्त इवोरगान् ॥६-१०५-२२॥
इत्येवं स वदन् वीरो रामः शत्रुनिबर्हणः ।
राक्षसेन्द्रं समीपस्थं शरवर्षैरवाकिरत् ॥६-१०५-२३॥
बभूव द्विगुणं वीर्यं बलं हर्षश्च संयुगे ।
रामस्यास्त्रबलं चैव शत्रोर्निधनकांक्षिणः ॥६-१०५-२४॥
प्रादुर्बभूवुरस्त्राणि सर्वाणि विदितात्मनः ।
प्रहर्षाच्च महातेजाः शीघ्रहस्ततरोऽभवत् ॥६-१०५-२५॥
शुभान्येतानि चिह्नानि विज्ञायात्मगतानि सः ।
भूय एवार्दयद् रामो रावणं राक्षसान्तकृत् ॥६-१०५-२६॥
हरीणां चाश्मनिकरैः शरवर्षैश्च राघवात् ।
हन्यमानो दशग्रीवो विघूर्णहृदयोऽभवत् ॥६-१०५-२७॥
यदा च शस्त्रं नारेभे न चकर्ष शरासनम् ।
नास्य प्रत्यकरोद् वीर्यं विक्लवेनान्तरात्मना ॥६-१०५-२८॥
क्षिप्ताश्चाशु शरास्तेन शस्त्राणि विविधानि च ।
मरणार्थाय वर्तन्ते मृत्युकालोऽभ्यवर्तत ॥६-१०५-२९॥
सूतस्तु रथनेतास्य तदवस्थं निरीक्ष्य तम् ।
शनैर्युद्धादसम्भ्रान्तो रथं तस्यापवाहयत् ॥६-१०५-३०॥
रथं च तस्याथ जवेन सारथिर्निवार्य भीमं जलदस्वनं तदा ।
जगाम भीत्या समरान्महीपतिं निरस्तवीर्यं पतितं समीक्ष्य ॥६-१०५-३१॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे दशग्रीवविघूर्णनम् नाम पञ्चाधिकशततमः सर्गः ॥६-१०५॥
Previous
रावणशूलभङ्गः
Next
सारथिविज्ञेयम्