सारथिविज्ञेयम्

युद्धकाण्डः / सारथिविज्ञेयम्

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे सारथिविज्ञेयम् नाम षडधिकशततमः सर्गः ॥६-१०६॥
स तु मोहात् सुसंक्रुद्धः कृतान्तबलचोदितः । क्रोधसंरक्तनयनो रावणः सूतमब्रवीत् ॥६-१०६-१॥
हीनवीर्यमिवाशक्तं पौरुषेण विवर्जितम् । भीरुं लघुमिवासत्त्वं विहीनमिव तेजसा ॥६-१०६-२॥
विमुक्तमिव मायाभिरस्त्रैरिव बहिष्कृतम् । मामवज्ञाय दुर्बुद्धे स्वया बुद्ध्या विचेष्टसे ॥६-१०६-३॥
किमर्थं मामवज्ञाय मच्छन्दमनवेक्ष्य च । त्वया शत्रुसमक्षं मे रथोऽयमपवाहितः ॥६-१०६-४॥
त्वयाद्य हि ममानार्य चिरकालमुपार्जितम् । यशो वीर्यं च तेजश्च प्रत्ययश्च विनाशितः ॥६-१०६-५॥
शत्रोः प्रख्यातवीर्यस्य रञ्जनीयस्य विक्रमैः । पश्यतो युद्धलुब्धोऽहं कृतः कापुरुषस्त्वया ॥६-१०६-६॥
यत् त्वं कथमिदं मोहान्न चेद् वहसि दुर्मते । सत्योऽयं प्रतितर्को मे परेण त्वमुपस्कृतः ॥६-१०६-७॥
नहि तद् विद्यते कर्म सुहृदो हितकांक्षिणः । रिपूणां सदृशं त्वेतद् यत् त्वयैतदनुष्ठितम् ॥६-१०६-८॥
निवर्तय रथं शीघ्रं यावन्नापैति मे रिपुः । यदि वाध्युषितोऽसि त्वं स्मर्यते यदि मे गुणः ॥६-१०६-९॥
एवं परुषमुक्तस्तु हितबुद्धिरबुद्धिना । अब्रवीद् रावणं सूतो हितं सानुनयं वचः ॥६-१०६-१०॥
न भीतोऽस्मि न मूढोऽस्मि नोपजप्तोऽस्मि शत्रुभिः । न प्रमत्तो न निःस्नेहो विस्मृता न च सत्क्रिया ॥६-१०६-११॥
मया तु हितकामेन यशश्च परिरक्षता । स्नेहप्रस्कन्नमनसा हितमित्यप्रियं कृतम् ॥६-१०६-१२॥
नास्मिन्नर्थे महाराज त्वं मां प्रियहिते रतम् । कश्चिल्लघुरिवानार्यो दोषतो गन्तुमर्हसि ॥६-१०६-१३॥
श्रूयतां प्रति दास्यामि यन्निमित्तं मया रथः । नदीवेग इवाम्भोभिः संयुगे विनिवर्तितः ॥६-१०६-१४॥
श्रमं तवावगच्छामि महता रणकर्मणा । नहि ते वीर्यसौमुख्यं प्रकर्षं नोपधारये ॥६-१०६-१५॥
रथोद्वहनखिन्नाश्च भग्ना मे रथवाजिनः । दीना घर्मपरिश्रान्ता गावो वर्षहता इव ॥६-१०६-१६॥
निमित्तानि च भूयिष्ठं यानि प्रादुर्भवन्ति नः । तेषु तेष्वभिपन्नेषु लक्षयाम्यप्रदक्षिणम् ॥६-१०६-१७॥
देशकालौ च विज्ञेयौ लक्षणानीङ्गितानि च । दैन्यं हर्षश्च खेदश्च रथिनश्च बलाबलम् ॥६-१०६-१८॥
स्थलनिम्नानि भूमेश्च समानि विषमाणि च । युद्धकालश्च विज्ञेयः परस्यान्तरदर्शनम् ॥६-१०६-१९॥
उपयानापयाने च स्थानं प्रत्यपसर्पणम् । सर्वमेतद् रथस्थेन ज्ञेयं रथकुटुम्बिना ॥६-१०६-२०॥
तव विश्रामहेतोस्तु तथैषां रथवाजिनाम् । रौद्रं वर्जयता खेदं क्षमं कृतमिदं मया ॥६-१०६-२१॥
स्वेच्छया न मया वीर रथोऽयमपवाहितः । भर्तुः स्नेहपरीतेन मयेदं यत् कृतं प्रभो ॥६-१०६-२२॥
आज्ञापय यथातत्त्वं वक्ष्यस्यरिनिषूदन । तत् करिष्याम्यहं वीर गतानृण्येन चेतसा ॥६-१०६-२३॥
संतुष्टस्तेन वाक्येन रावणस्तस्य सारथेः । प्रशस्यैनं बहुविधं युद्धलुब्धोऽब्रवीदिदम् ॥६-१०६-२४॥
रथं शीघ्रमिमं सूत राघवाभिमुखं नय । नाहत्वा समरे शत्रून् निवर्तिष्यति रावणः ॥६-१०६-२५॥
एवमुक्त्वा रथस्थस्य रावणो राक्षसेश्वरः । ददौ तस्य शुभं ह्येकं हस्ताभरणमुत्तमम् । श्रुत्वा रावणवाक्यानि सारथिः संन्यवर्तत ॥६-१०६-२६॥
ततो द्रुतं रावणवाक्यचोदितः प्रचोदयामास हयान् स सारथिः । स राक्षसेन्द्रस्य ततो महारथः क्षणेन रामस्य रणाग्रतोऽभवत् ॥६-१०६-२७॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सारथिविज्ञेयम् नाम षडधिकशततमः सर्गः ॥६-१०६॥