रावणशूलभङ्गः

युद्धकाण्डः / रावणशूलभङ्गः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे रावणशूलभङ्गः नाम चतुरधिकशततमः सर्गः ॥६-१०४॥
जगाम सुमहाक्रोधं निर्दहन्निव राक्षसान् । तस्य क्रुद्धस्य वदनं दृष्ट्वा रामस्य धीमतः । सर्वभूतानि वित्रेसुः प्राकम्पत च मेदिनी ॥६-१०४-१॥
सिंहशार्दूलवाञ्छैलः संचचाल चलद् द्रुमः । बभूव चापि क्षुभितः समुद्रः सरितां पतिः ॥६-१०४-२॥
खराश्च खरनिर्घोषा गगने परुषा घनाः । औत्पातिकाश्च नर्दन्तः समन्तात् परिचक्रमुः ॥६-१०४-३॥
रामं दृष्ट्वा सुसंक्रुद्धमुत्पातांश्चैव दारुणान् । वित्रेसुः सर्वभूतानि रावणस्याभवद् भयम् ॥६-१०४-४॥
विमानस्थास्तदा देवा गन्धर्वाश्च महोरगाः । ऋषिदानवदैत्याश्च गरुत्मन्तश्च खेचराः ॥६-१०४-५॥
ददृशुस्ते तदा युद्धं लोकसंवर्तसंस्थितम् । नानाप्रहरणैर्भीमैः शूरयोः सम्प्रयुध्यतोः ॥६-१०४-६॥
ऊचुः सुरासुराः सर्वे तदा विग्रहमागताः । प्रेक्षमाणा महायुद्धं वाक्यं भक्त्या प्रहृष्टवत् ॥६-१०४-७॥
दशग्रीवं जयेत्याहुरसुराः समवस्थिताः । देवा राममथोचुस्ते त्वं जयेति पुनः पुनः ॥६-१०४-८॥
एतस्मिन्नन्तरे क्रोधाद् राघवस्य च रावणः । प्रहर्तुकामो दुष्टात्मा स्पृशन् प्रहरणं महत् ॥६-१०४-९॥
वज्रसारं महानादं सर्वशत्रुनिबर्हणम् । शैलशृङ्गनिभैः कूटैश्चित्तदृष्टिभयावहम् ॥६-१०४-१०॥
सधूममिव तीक्ष्णाग्रं युगान्ताग्निचयोपमम् । अतिरौद्रमनासाद्यं कालेनापि दुरासदम् ॥६-१०४-११॥
त्रासनं सर्वभूतानां दारणं भेदनं तथा । प्रदीप्त इव रोषेण शूलं जग्राह रावणः ॥६-१०४-१२॥
तच्छूलं परमक्रुद्धो जग्राह युधि वीर्यवान् । अनीकैः समरे शूरै राक्षसैः परिवारितः ॥६-१०४-१३॥
समुद्यम्य महाकायो ननाद युधि भैरवम् । संरक्तनयनो रोषात् स्वसैन्यमभिहर्षयन् ॥६-१०४-१४॥
पृथिवीं चान्तरिक्षं च दिशश्च प्रदिशस्तथा । प्राकम्पयत् तदा शब्दो राक्षसेन्द्रस्य दारुणः ॥६-१०४-१५॥
अतिकायस्य नादेन तेन तस्य दुरात्मनः । सर्वभूतानि वित्रेसुः सागरश्च प्रचुक्षुभे ॥६-१०४-१६॥
स गृहीत्वा महावीर्यः शूलं तद् रावणो महत् । विनद्य सुमहानादं रामं परुषमब्रवीत् ॥६-१०४-१७॥
शूलोऽयं वज्रसारस्ते राम रोषान्मयोद्यतः । तव भ्रातृसहायस्य सद्यः प्राणान् हरिष्यति ॥६-१०४-१८॥
रक्षसामद्य शूराणां निहतानां चमूमुखे । त्वां निहत्य रणश्लाघिन् करोमि तरसा समम् ॥६-१०४-१९॥
तिष्ठेदानीं निहन्मि त्वामेष शूलेन राघव । एवमुक्त्वा स चिक्षेप तच्छूलं राक्षसाधिपः ॥६-१०४-२०॥
तद् रावणकरान्मुक्तं विद्युन्मालासमावृतम् । अष्टघण्टं महानादं वियद्गतमशोभत ॥६-१०४-२१॥
तच्छूलं राघवो दृष्ट्वा ज्वलन्तं घोरदर्शनम् । ससर्ज विशिखान् रामश्चापमायम्य वीर्यवान् ॥६-१०४-२२॥
आपतन्तं शरौघेण वारयामास राघवः । उत्पतन्तं युगान्ताग्निं जलौघैरिव वासवः ॥६-१०४-२३॥
निर्ददाह स तान् बाणान् रामकार्मुकनिःसृतान् । रावणस्य महान् शूलः पतङ्गानिव पावकः ॥६-१०४-२४॥
तान् दृष्ट्वा भस्मसाद्भूतान् शूलसंस्पर्शचूर्णितान् । सायकानन्तरिक्षस्थान् राघवः क्रोधमाहरत् ॥६-१०४-२५॥
स तां मातलिना नीतां शक्तिं वासवसम्मताम् । जग्राह परमक्रुद्धो राघवो रघुनन्दनः ॥६-१०४-२६॥
सा तोलिता बलवता शक्तिर्घण्टाकृतस्वना । नभः प्रज्वालयामास युगान्तोल्केव सप्रभा ॥६-१०४-२७॥
सा क्षिप्ता राक्षसेन्द्रस्य तस्मिञ्छूले पपात ह । भिन्नः शक्त्या महान् शूलो निपपात गतद्युतिः ॥६-१०४-२८॥
निर्बिभेद ततो बाणैर्हयानस्य महाजवान् । रामस्तीक्ष्णैर्महावेगैर्वज्रकल्पैरजिह्मगैः ॥६-१०४-२९॥
निर्बिभेदोरसि तदा रावणं निशितैः शरैः । राघवः परमायत्तो ललाटे पत्त्रिभिस्त्रिभिः ॥६-१०४-३०॥
स शरैर्भिन्नसर्वाङ्गो गात्रप्रस्रुतशोणितः । राक्षसेन्द्रः समूहस्थः फुल्लाशोक इवाबभौ ॥६-१०४-३१॥
स रामबाणैरतिविद्धगात्रो निशाचरेन्द्रः क्षतजार्द्रगात्रः । जगाम खेदं च समाजमध्ये क्रोधं च चक्रे सुभृशं तदानीम् ॥६-१०४-३२॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे रावणशूलभङ्गः नाम चतुरधिकशततमः सर्गः ॥६-१०४॥