ऐन्द्ररथकेतुपातनम्

युद्धकाण्डः / ऐन्द्ररथकेतुपातनम्

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे ऐन्द्ररथकेतुपातनम् नाम त्र्यधिकशततमः सर्गः ॥६-१०३॥
लक्ष्मणेन तु तद् वाक्यमुक्तं श्रुत्वा स राघवः । संदधे परवीरघ्नो धनुरादाय वीर्यवान् ॥६-१०३-१॥
रावणाय शरान् घोरान् विससर्ज चमूमुखे । अथान्यं रथमास्थाय रावणो राक्षसाधिपः ॥६-१०३-२॥
अभ्यधावत काकुत्स्थं स्वर्भानुरिव भास्करम् । दशग्रीवो रथस्थस्तु रामं वज्रोपमैः शरैः । आजघान महाशैलं धाराभिरिव तोयदः ॥६-१०३-३॥
दीप्तपावकसंकाशैः शरैः काञ्चनभूषणैः । अभ्यवर्षद् रणे रामो दशग्रीवं समाहितः ॥६-१०३-४॥
भूमौ स्थितस्य रामस्य रथस्थस्य स रक्षसः । न समं युद्धमित्याहुर्देवगन्धर्वकिंनराः ॥६-१०३-५॥
ततो देववरः श्रीमान् श्रुत्वा तेषां वचोऽमृतम् । आहूय मातलिं शक्रो वचनं चेदमब्रवीत् ॥६-१०३-६॥
रथेन मम भूमिष्ठं शीघ्रं याहि रघूत्तमम् । आहूय भूतलं यात कुरु देवहितं महत् ॥६-१०३-७॥
इत्युक्तो देवराजेन मातलिर्देवसारथिः । प्रणम्य शिरसा देवं ततो वचनमब्रवीत् ॥६-१०३-८॥
शीघ्रं यास्यामि देवेन्द्र सारथ्यं च करोम्यहम् । ततो हयैश्च संयोज्य हरितैः स्यन्दनोत्तमम् ॥६-१०३-९॥
ततः काञ्चनचित्राङ्गः किङ्किणीशतभूषितः । तरुणादित्यसंकाशो वैदूर्यमयकूबरः । सदश्वैः काञ्चनापीडैर्युक्तः श्वेतप्रकीर्णकैः ॥६-१०३-१०॥
हरिभिः सूर्यसंकाशैर्हेमजालविभूषितैः । रुक्मवेणुध्वजः श्रीमान् देवराजरथो वरः ॥६-१०३-११॥
देवराजेन संदिष्टो रथमारुह्य मातलिः । अभ्यवर्तत काकुत्स्थमवतीर्य त्रिविष्टपात् ॥६-१०३-१२॥
अब्रवीच्च तदा रामं सप्रतोदो रथे स्थितः । प्राञ्जलिर्मातलिर्वाक्यं सहस्राक्षस्य सारथिः ॥६-१०३-१३॥
सहस्राक्षेण काकुत्स्थ रथोऽयं विजयाय ते । दत्तस्तव महासत्त्व श्रीमन् शत्रुनिबर्हण ॥६-१०३-१४॥
इदमैन्द्रं महच्चापं कवचं चाग्निसंनिभम् । शराश्चादित्यसंकाशाः शक्तिश्च विमला शिवा ॥६-१०३-१५॥
आरुह्येमं रथं वीर राक्षसं जहि रावणम् । मया सारथिना देव महेन्द्र इव दानवान् ॥६-१०३-१६॥
इत्युक्तः सम्परिक्रम्य रथं तमभिवाद्य च । आरुरोह तदा रामो लोकाँल्लक्ष्म्या विराजयन् ॥६-१०३-१७॥
तद् बभौ चाद्भुतं युद्धं द्वैरथं रोमहर्षणम् । रामस्य च महाबाहो रावणस्य च रक्षसः ॥६-१०३-१८॥
स गान्धर्वेण गान्धर्वं दैवं दैवेन राघवः । अस्त्रं राक्षसराजस्य जघान परमास्त्रवित् ॥६-१०३-१९॥
अस्त्रं तु परमं घोरं राक्षसं राक्षसाधिपः । ससर्ज परमक्रुद्धः पुनरेव निशाचरः ॥६-१०३-२०॥
ते रावणधनुर्मुक्ताः शराः काञ्चनभूषणाः । अभ्यवर्तन्त काकुत्स्थं सर्पा भूत्वा महाविषाः ॥६-१०३-२१॥
ते दीप्तवदना दीप्तं वमन्तो ज्वलनं मुखैः । राममेवाभ्यवर्तन्त व्यादितास्या भयानकाः ॥६-१०३-२२॥
तैर्वासुकिसमस्पर्शैर्दीप्तभोगैर्महाविषैः । दिशश्च संतताः सर्वा विदिशश्च समावृताः ॥६-१०३-२३॥
तान् दृष्ट्वा पन्नगान् रामः समापतत आहवे । अस्त्रं गारुत्मतं घोरं प्रादुश्चक्रे भयावहम् ॥६-१०३-२४॥
ते राघवधनुर्मुक्ता रुक्मपुङ्खाः शिखिप्रभाः । सुपर्णाः काञ्चना भूत्वा विचेरुः सर्पशत्रवः ॥६-१०३-२५॥
ते तान् सर्वान् शराञ्जघ्नुः सर्परूपान् महाजवान् । सुपर्णरूपा रामस्य विशिखाः कामरूपिणः ॥६-१०३-२६॥
अस्त्रे प्रतिहते क्रुद्धो रावणो राक्षसाधिपः । अभ्यवर्षत् तदा रामं घोराभिः शरवृष्टिभिः ॥६-१०३-२७॥
ततः शरसहस्रेण राममक्लिष्टकारिणम् । अर्दयित्वा शरौघेण मातलिं प्रत्यविध्यत ॥६-१०३-२८॥
चिच्छेद केतुमुद्दिश्य शरेणैकेन रावणः । पातयित्वा रथोपस्थे रथात् केतुं च काञ्चनम् ॥६-१०३-२९॥
ऐन्द्रानपि जघानाश्वान् शरजालेन रावणः । विषेदुर्देवगन्धर्वचारणा दानवैः सह ॥६-१०३-३०॥
राममार्तं तदा दृष्ट्वा सिद्धाश्च परमर्षयः । व्यथिता वानरेन्द्राश्च बभूवुः सविभीषणाः ॥६-१०३-३१॥
रामचन्द्रमसं दृष्ट्वा ग्रस्तं रावणराहुणा । प्राजापत्यं च नक्षत्रं रोहिणीं शशिनः प्रियाम् ॥६-१०३-३२॥
समाक्रम्य बुधस्तस्थौ प्रजानामहितावहः । सधूमपरिवृर्त्तोमिः प्रज्वलन्निव सागरः ॥६-१०३-३३॥
उत्पपात तदा क्रुद्धः स्पृशन्निव दिवाकरम् । शस्त्रवर्णः सुपरुषो मन्दरश्मिर्दिवाकरः ॥६-१०३-३४॥
अदृश्यत कबन्धाङ्कः संसक्तो धूमकेतुना । कोसलानां च नक्षत्रं व्यक्तमिन्द्राग्निदैवतम् ॥६-१०३-३५॥
आहत्याङ्गारकस्तस्थौ विशाखमपि चाम्बरे । दशास्यो विंशतिभुजः प्रगृहीतशरासनः ॥६-१०३-३६॥
अदृश्यत दशग्रीवो मैनाक इव पर्वतः । निरस्यमानो रामस्तु दशग्रीवेण रक्षसा ॥६-१०३-३७॥
नाशक्नोदभिसंधातुं सायकान् रणमूर्धनि । स कृत्वा भ्रुकुटिं क्रुद्धः किंचित् संरक्तलोचनः ॥६-१०३-३८॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे ऐन्द्ररथकेतुपातनम् नाम त्र्यधिकशततमः सर्गः ॥६-१०३॥