लक्ष्मणसंजीवनम्

युद्धकाण्डः / लक्ष्मणसंजीवनम्

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे लक्ष्मणसंजीवनम् नाम द्व्यधिकशततमः सर्गः ॥६-१०२॥
शक्त्या निपातितं दृष्ट्वा रावणेन बलीयसा । लक्ष्मणं समरे शूरं शोणितौघपरिप्लुतम् ॥६-१०२-१॥
स दत्त्वा तुमुलं युद्धं रावणस्य दुरात्मनः । विसृजन्नेव बाणौघान् सुषेणमिदमब्रवीत् ॥६-१०२-२॥
एष रावणवीर्येण लक्ष्मणः पतितो भुवि । सर्पवच्चेष्टते वीरो मम शोकमुदीरयन् ॥६-१०२-३॥
शोणितार्द्रमिमं वीरं प्राणैः प्रियतरं मम । पश्यतो मम का शक्तिर्योद्धुं पर्याकुलात्मनः ॥६-१०२-४॥
अयं स समरश्लाघी भ्राता मे शुभलक्षणः । यदि पञ्चत्वमापन्नः प्राणैर्मे किं सुखेन वा ॥६-१०२-५॥
लज्जतीव हि मे वीर्यं भ्रश्यतीव कराद् धनुः । सायका व्यवसीदन्ति दृष्टिर्बाष्पवशं गता ॥६-१०२-६॥
अवसीदन्ति गात्राणि स्वप्नयाने नृणामिव । चिन्ता मे वर्धते तीव्रा मुमूर्षापि च जायते ॥६-१०२-७॥
भ्रातरं निहतं दृष्ट्वा रावणेन दुरात्मना । विष्टनन्तं तु दुःखार्तं मर्मण्यभिहतं भृशम् ॥६-१०२-८॥
राघवो भ्रातरं दृष्ट्वा प्रियं प्राणं बहिश्चरम् । दुःखेन महताविष्टो ध्यानशोकपरायणः ॥६-१०२-९॥
परं विषादमापन्नो विललापाकुलेन्द्रियः । भ्रातरं निहतं दृष्ट्वा लक्ष्मणं रणपांसुषु ॥६-१०२-१०॥
विजयोऽपि हि मे शूर न प्रियायोपकल्पते । अचक्षुर्विषयश्चन्द्रः कां प्रीतिं जनयिष्यति ॥६-१०२-११॥
किं मे युद्धेन किं प्राणैर्युद्धकार्यं न विद्यते । यत्रायं निहतः शेते रणमूर्धनि लक्ष्मणः ॥६-१०२-१२॥
यथैव मां वनं यान्तमनुयाति महाद्युतिः । अहमप्यनुयास्यामि तथैवैनं यमक्षयम् ॥६-१०२-१३॥
इष्टबन्धुजनो नित्यं मां स नित्यमनुव्रतः । इमामवस्थां गमितो राक्षसैः कूटयोधिभिः ॥६-१०२-१४॥
देशे देशे कलत्राणि देशे देशे च बान्धवाः । तं तु देशं न पश्यामि यत्र भ्राता सहोदरः ॥६-१०२-१५॥
किं नु राज्येन दुर्धर्षलक्ष्मणेन विना मम । कथं वक्ष्याम्यहं त्वम्बां सुमित्रां पुत्रवत्सलाम् ॥६-१०२-१६॥
उपालम्भं न शक्ष्यामि सोढुं दत्तं सुमित्रया । किं नु वक्ष्यामि कौसल्यां मातरं किं नु कैकयीम् ॥६-१०२-१७॥
भरतं किं नु वक्ष्यामि शत्रुघ्नं च महाबलम् । सह तेन वनं यातो विना तेनागतः कथम् ॥६-१०२-१८॥
इहैव मरणं श्रेयो न तु बन्धुविगर्हणम् । किं मया दुष्कृतं कर्म कृतमन्यत्र जन्मनि ॥६-१०२-१९॥
येन मे धार्मिको भ्राता निहतश्चाग्रतः स्थितः । हा भ्रातर्मनुजश्रेष्ठ शूराणां प्रवर प्रभो ॥६-१०२-२०॥
एकाकी किं नु मां त्यक्त्वा परलोकाय गच्छसि । विलपन्तं च मां भ्रातः किमर्थं नावभाषसे ॥६-१०२-२१॥
उत्तिष्ठ पश्य किं शेषे दीनं मां पश्य चक्षुषा । शोकार्तस्य प्रमत्तस्य पर्वतेषु वनेषु च ॥६-१०२-२२॥
विषण्णस्य महाबाहो समाश्वासयिता मम । राममेवं ब्रुवाणं तु शोकव्याकुलितेन्द्रियम् ॥६-१०२-२३॥
आश्वासयन्नुवाचेदं सुषेणः परमं वचः । त्यजेमां नरशार्दूल बुद्धिं वैक्लव्यकारिणीम् ॥६-१०२-२४॥
शोकसंजननीं चिन्तां तुल्यां बाणैश्चमूमुखे । नैव पञ्चत्वमापन्नो लक्ष्मणो लक्ष्मिवर्धनः ॥६-१०२-२५॥
नह्यस्य विकृतं वक्त्रं न च श्यामत्वमागतम् । सुप्रभं च प्रसन्नं च मुखमस्य निरीक्ष्यताम् ॥६-१०२-२६॥
पद्मपत्रतलौ हस्तौ सुप्रसन्ने च लोचने । नेदृशं दृश्यते रूपं गतासूनां विशां पते ॥६-१०२-२७॥
विषादं मा कृथा वीर सप्राणोऽयमरिंदम । आख्याति तु प्रसुप्तस्य स्रस्तगात्रस्य भूतले ॥६-१०२-२८॥
सोच्छ्वासं हृदयं वीर कम्पमानं मुहुर्मुहुः । एवमुक्त्वा महाप्राज्ञः सुषेणो राघवं वचः ॥६-१०२-२९॥
समीपस्थमुवाचेदं हनूमन्तं महाकपिम् । सौम्य शीघ्रमितो गत्वा पर्वतं हि महोदयम् ॥६-१०२-३०॥
पूर्वं तु कथितो योऽसौ वीर जाम्बवता तव । दक्षिणे शिखरे जातां महौषधिमिहानय ॥६-१०२-३१॥
विशल्यकरणीं नाम्ना सावर्ण्यकरणीं तथा । संजीवकरणीं वीर संधानीं च महौषधीम् ॥६-१०२-३२॥
संजीवनार्थं वीरस्य लक्ष्मणस्य त्वमानय । इत्येवमुक्तो हनुमान् गत्वा चौषधिपर्वतम् । चिन्तामभ्यगमच्छ्रीमानजानंस्ता महौषधीः ॥६-१०२-३३॥
तस्य बुद्धिः समुत्पन्ना मारुतेरमितौजसः । इदमेव गमिष्यामि गृहीत्वा शिखरं गिरेः ॥६-१०२-३४॥
अस्मिंस्तु शिखरे जातामोषधीं तां सुखावहाम् । प्रतर्केणावगच्छामि सुषेणो ह्येवमब्रवीत् ॥६-१०२-३५॥
अगृह्य यदि गच्छामि विशल्यकरणीमहम् । कालात्ययेन दोषः स्याद् वैक्लव्यं च महद्भवेत् ॥६-१०२-३६॥
इति संचिन्त्य हनुमान् गत्वा क्षिप्रं महाबलः । आसाद्य पर्वतश्रेष्ठं त्रिः प्रकम्प्य गिरेः शिरः ॥६-१०२-३७॥
फुल्लनानातरुगणं समुत्पाट्य महाबलः । गृहीत्वा हरिशार्दूलो हस्ताभ्यां समतोलयत् ॥६-१०२-३८॥
स नीलमिव जीमूतं तोयपूर्णं नभस्तलात् । उत्पपात गृहीत्वा तु हनूमान् शिखरं गिरेः ॥६-१०२-३९॥
समागम्य महावेगः संन्यस्य शिखरं गिरेः । विश्रम्य किंचिद्धनुमान् सुषेणमिदमब्रवीत् ॥६-१०२-४०॥
औषधीर्नावगच्छामि ता अहं हरिपुङ्गव । तदिदं शिखरं कृत्स्नं गिरेस्तस्याहृतं मया ॥६-१०२-४१॥
एवं कथयमानं तु प्रशस्य पवनात्मजम् । सुषेणो वानरश्रेष्ठो जग्राहोत्पाट्य चौषधीः ॥६-१०२-४२॥
विस्मितास्तु बभूवुस्ते सर्वे वानरपुङ्गवाः । दृष्ट्वा तु हनुमत्कर्म सुरैरपि सुदुष्करम् ॥६-१०२-४३॥
ततः संक्षोदयित्वा तामोषधीं वानरोत्तमः । लक्ष्मणस्य ददौ नस्तः सुषेणः सुमहाद्युतिः ॥६-१०२-४४॥
सशल्यः स समाघ्राय लक्ष्मणः परवीरहा । विशल्यो विरुजः शीघ्रमुदतिष्ठन्महीतलात् ॥६-१०२-४५॥
तमुत्थितं तु हरयो भूतलात् प्रेक्ष्य लक्ष्मणम् । साधुसाध्विति सुप्रीता लक्ष्मणं प्रत्यपूजयन् ॥६-१०२-४६॥
एह्येहीत्यब्रवीद् रामो लक्ष्मणं परवीरहा । सस्वजे गाढमालिङ्गय बाष्पपर्याकुलेक्षणः ॥६-१०२-४७॥
अब्रवीच्च परिष्वज्य सौमित्रिं राघवस्तदा । दिष्ट्या त्वां वीर पश्यामि मरणात् पुनरागतम् ॥६-१०२-४८॥
नहि मे जीवितेनार्थः सीतया च जयेन वा । को हि मे जीवितेनार्थस्त्वयि पञ्चत्वमागते ॥६-१०२-४९॥
इत्येवं ब्रुवतस्तस्य राघवस्य महात्मनः । खिन्नः शिथिलया वाचा लक्ष्मणो वाक्यमब्रवीत् ॥६-१०२-५०॥
तां प्रतिज्ञां प्रतिज्ञाय पुरा सत्यपराक्रम । लघुः कश्चिदिवासत्त्वो नैवं त्वं वक्तुमर्हसि ॥६-१०२-५१॥
नहि प्रतिज्ञां कुर्वन्ति वितथां सत्यवादिनः । लक्षणं हि महत्त्वस्य प्रतिज्ञापरिपालनम् ॥६-१०२-५२॥
नैराश्यमुपगन्तुं च नालं ते मत्कृतेऽनघ । वधेन रावणस्याद्य प्रतिज्ञामनुपालय ॥६-१०२-५३॥
न जीवन् यास्यते शत्रुस्तव बाणपथं गतः । नर्दतस्तीक्ष्णदंष्ट्रस्य सिंहस्येव महागजः ॥६-१०२-५४॥
अहं तु वधमच्छामि शीघ्रमस्य दुरात्मनः । यावदस्तं न यात्येष कृतकर्मा दिवाकरः ॥६-१०२-५५॥
यदि वधमिच्छसि रावणस्य संख्ये यदि च कृतां हि तवेच्छसि प्रतिज्ञाम् । यदि तव राजसुताभिलाष आर्य कुरु च वचो मम शीघ्रमद्य वीर ॥६-१०२-५६॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे लक्ष्मणसंजीवनम् नाम द्व्यधिकशततमः सर्गः ॥६-१०२॥