लक्ष्मणशक्तिक्षेपः

युद्धकाण्डः / लक्ष्मणशक्तिक्षेपः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे लक्ष्मणशक्तिक्षेपः नाम एकाधिकशततमः सर्गः ॥६-१०१॥
तस्मिन् प्रतिहतेऽस्त्रे तु रावणो राक्षसाधिपः । क्रोधं च द्विगुणं चक्रे क्रोधाच्चास्त्रमनन्तरम् ॥६-१०१-१॥
मयेन विहितं रौद्रमन्यदस्त्रं महाद्युतिः । उत्स्रष्टुं रावणो भीमं राघवाय प्रचक्रमे ॥६-१०१-२॥
ततः शूलानि निश्चेरुर्गदाश्च मुसलानि च । कार्मुकाद् दीप्यमानानि वज्रसाराणि सर्वशः ॥६-१०१-३॥
मुद्गराः कूटपाशाश्च दीप्ताश्चाशनयस्तथा । निष्पेतुर्विविधास्तीक्ष्णा वाता इव युगक्षये ॥६-१०१-४॥
तदस्त्रं राघवः श्रीमानुत्तमास्त्रविदां वरः । जघान परमास्त्रेण गान्धर्वेण महाद्युतिः ॥६-१०१-५॥
तस्मिन् प्रतिहतेऽस्त्रे तु राघवेण महात्मना । रावणः क्रोधताम्राक्षः सौरमस्त्रमुदीरयत् ॥६-१०१-६॥
ततश्चक्राणि निष्पेतुर्भास्वराणि महान्ति च । कार्मुकाद् भीमवेगस्य दशग्रीवस्य धीमतः ॥६-१०१-७॥
तैरासीद् गगनं दीप्तं सम्पतद्भिः समन्ततः । पतद्भिश्च दिशो दीप्ताश्चन्द्रसूर्यग्रहैरिव ॥६-१०१-८॥
तानि चिच्छेद बाणौघैश्चक्राणि तु स राघवः । आयुधानि च चित्राणि रावणस्य चमूमुखे ॥६-१०१-९॥
तदस्त्रं तु हतं दृष्ट्वा रावणो राक्षसाधिपः । विव्याध दशभिर्बाणै रामं सर्वेषु मर्मसु ॥६-१०१-१०॥
स विद्धो दशभिर्बाणैर्महाकार्मुकनिःसृतैः । रावणेन महातेजा न प्राकम्पत राघवः ॥६-१०१-११॥
ततो विव्याध गात्रेषु सर्वेषु समितिंजयः । राघवस्तु सुसंक्रुद्धो रावणं बहुभिः शरैः ॥६-१०१-१२॥
एतस्मिन्नन्तरे क्रुद्धो राघवस्यानुजो बली । लक्ष्मणः सायकान् सप्त जग्राह परवीरहा ॥६-१०१-१३॥
तैः सायकैर्महावेगै रावणस्य महाद्युतिः । ध्वजं मनुष्यशीर्षं तु तस्य चिच्छेद नैकधा ॥६-१०१-१४॥
सारथेश्चापि बाणेन शिरो ज्वलितकुण्डलम् । जहार लक्ष्मणः श्रीमान् नैर्ऋतस्य महाबलः ॥६-१०१-१५॥
तस्य बाणैश्च चिच्छेद धनुर्गजकरोपमम् । लक्ष्मणो राक्षसेन्द्रस्य पञ्चभिर्निशितैस्तदा ॥६-१०१-१६॥
नीलमेघनिभांश्चास्य सदश्वान् पर्वतोपमान् । जघानाप्लुत्य गदया रावणस्य विभीषणः ॥६-१०१-१७॥
हताश्वात् तु तदा वेगादवप्लुत्य महारथात् । कोपमाहारयत् तीव्रं भ्रातरं प्रति रावणः ॥६-१०१-१८॥
ततः शक्तिं महाशक्तिः प्रदीप्तामशनीमिव । विभीषणाय चिक्षेप राक्षसेन्द्रः प्रतापवान् ॥६-१०१-१९॥
अप्राप्तामेव तां बाणैस्त्रिभिश्चिच्छेद लक्ष्मणः । अथोदतिष्ठत् संनादो वानराणां महारणे ॥६-१०१-२०॥
सम्पपात त्रिधा छिन्ना शक्तिः काञ्चनमालिनी । सविस्फुलिङ्गा ज्वलिता महोल्केव दिवश्च्युता ॥६-१०१-२१॥
ततः सम्भाविततरां कालेनापि दुरासदाम् । जग्राह विपुलां शक्तिं दीप्यमानां स्वतेजसा ॥६-१०१-२२॥
सा वेगिता बलवता रावणेन दुरात्मना । जज्वाल सुमहातेजा दीप्ताशनिसमप्रभा ॥६-१०१-२३॥
एतस्मिन्नन्तरे वीरो लक्ष्मणस्तं विभीषणम् । प्राणसंशयमापन्नं तूर्णमभ्यवपद्यत ॥६-१०१-२४॥
तं विमोक्षयितुं वीरश्चापमायम्य लक्ष्मणः । रावणं शक्तिहस्तं वै शरवर्षैरवाकिरत् ॥६-१०१-२५॥
कीर्यमाणः शरौघेण विसृष्टेन महात्मना । न प्रहर्तुं मनश्चक्रे विमुखीकृतविक्रमः ॥६-१०१-२६॥
मोक्षितं भ्रातरं दृष्ट्वा लक्ष्मणेन स रावणः । लक्ष्मणाभिमुखस्तिष्ठन्निदं वचनमब्रवीत् ॥६-१०१-२७॥
मोक्षितस्ते बलश्लाघिन् यस्मादेवं विभीषणः । विमुच्य राक्षसं शक्तिस्त्वयीयं विनिपात्यते ॥६-१०१-२८॥
एषा ते हृदयं भित्त्वा शक्तिर्लोहितलक्षणा । मद्बाहुपरिघोत्सृष्टा प्राणानादाय यास्यति ॥६-१०१-२९॥
इत्येवमुक्त्वा तां शक्तिमष्टघण्टां महास्वनाम् । मयेन मायाविहिताममोघां शत्रुघातिनीम् ॥६-१०१-३०॥
लक्ष्मणाय समुद्दिश्य ज्वलन्तीमिव तेजसा । रावणः परमक्रुद्धश्चिक्षेप च ननाद च ॥६-१०१-३१॥
सा क्षिप्ता भीमवेगेन वज्राशनिसमस्वना । शक्तिरभ्यपतद् वेगाल्लक्ष्मणं रणमूर्धनि ॥६-१०१-३२॥
तामनुव्याहरच्छक्तिमापतन्तीं स राघवः । स्वस्त्यस्तु लक्ष्मणायेति मोघा भव हतोद्यमा ॥६-१०१-३३॥
रावणेन रणे शक्तिः क्रुद्धेनाशीविषोपमा । मुक्ताऽऽशूरस्य भीतस्य लक्ष्मणस्य ममज्ज सा ॥६-१०१-३४॥
न्यपतत् सा महावेगा लक्ष्मणस्य महोरसि । जिह्वेवोरगराजस्य दीप्यमाना महाद्युतिः ॥६-१०१-३५॥
ततो रावणवेगेन सुदूरमवगाढया । शक्त्या विभिन्नहृदयः पपात भुवि लक्ष्मणः ॥६-१०१-३६॥
तदवस्थं समीपस्थो लक्ष्मणं प्रेक्ष्य राघवः । भ्रातृस्नेहान्महातेजा विषण्णहृदयोऽभवत् ॥६-१०१-३७॥
स मुहूर्तमिव ध्यात्वा बाष्पपर्याकुलेक्षणः । बभूव संरब्धतरो युगान्त इव पावकः ॥६-१०१-३८॥
न विषादस्य कालोऽयमिति संचिन्त्य राघवः । चक्रे सुतुमलं युद्धं रावणस्य वधे धृतः । सर्वयत्नेन महता लक्ष्मणं परिवीक्ष्य च ॥६-१०१-३९॥
स ददर्श ततो रामः शक्त्या भिन्नं महाहवे । लक्ष्मणं रुधिरादिग्धं सपन्नगमिवाचलम् ॥६-१०१-४०॥
तामपि प्रहितां शक्तिं रावणेन बलीयसा । यत्नतस्ते हरिश्रेष्ठा न शेकुरवमर्दितुम् ॥६-१०१-४१॥
अर्दिताश्चैव बाणौघैस्ते प्रवेकेण रक्षसाम् । सौमित्रेः सा विनिर्भिद्य प्रविष्टा धरणीतलम् ॥६-१०१-४२॥
तां कराभ्यां परामृश्य रामः शक्तिं भयावहाम् । बभञ्ज समरे क्रुद्धो बलवान् विचकर्ष च ॥६-१०१-४३॥
तस्य निष्कर्षतः शक्तिं रावणेन बलीयसा । शराः सर्वेषु गात्रेषु पातिता मर्मभेदिनः ॥६-१०१-४४॥
अचिन्तयित्वा तान् बाणान् समाश्लिष्य च लक्ष्मणम् । अब्रवीच्च हनूमन्तं सुग्रीवं च महाकपिम् ॥६-१०१-४५॥
लक्ष्मणं परिवार्यैवं तिष्ठध्वं वानरोत्तमाः । पराक्रमस्य कालोऽयं सम्प्राप्तो मे चिरेप्सितः ॥६-१०१-४६॥
पापात्मायं दशग्रीवो वध्यतां पापनिश्चयः । कांक्षितं चातकस्येव घर्मान्ते मेघदर्शनम् ॥६-१०१-४७॥
अस्मिन् मुहूर्ते नचिरात् सत्यं प्रतिशृणोमि वः । अरावणमरामं वा जगद् द्रक्ष्यथ वानराः ॥६-१०१-४८॥
राज्यनाशं वने वासं दण्डके परिधावनम् । वैदेह्याश्च परामर्शो रक्षोभिश्च समागमम् ॥६-१०१-४९॥
प्राप्तं दुःखं महाघोरं क्लेशश्च निरयोपमः । अद्य सर्वमहं त्यक्ष्ये निहत्वा रावणं रणे ॥६-१०१-५०॥
यदर्थं वानरं सैन्यं समानीतमिदं मया । सुग्रीवश्च कृतो राज्ये निहत्वा वालिनं रणे । यदर्थं सागरः क्रान्तः सेतुर्बद्धश्च सागरे ॥६-१०१-५१॥
सोऽयमद्य रणे पापश्चक्षुर्विषयमागतः । चक्षुर्विषयमागत्य नायं जीवितुमर्हति ॥६-१०१-५२॥
दृष्टिं दृष्टिविषस्येव सर्पस्य मम रावणः । यथा वा वैनतेयस्य दृष्टिं प्राप्तो भुजंगमः ॥६-१०१-५३॥
सुखं पश्यत दुर्धर्षा युद्धं वानरपुङ्गवाः । आसीनाः पर्वताग्रेषु ममेदं रावणस्य च ॥६-१०१-५४॥
अद्य पश्यन्तु रामस्य रामत्वं मम संयुगे । त्रयो लोकाः सगन्धर्वाः सदेवाः सर्षिचारणाः ॥६-१०१-५५॥
अद्य कर्म करिष्यामि यल्लोकाः सचराचराः । सदेवाः कथयिष्यन्ति यावद् भूमिर्धरिष्यति । समागम्य सदा लोके यथा युद्धं प्रवर्तितम् ॥६-१०१-५६॥
एवमुक्त्वा शितैर्बाणैस्तप्तकाञ्चनभूषणैः । आजघान रणे रामो दशग्रीवं समाहितः ॥६-१०१-५७॥
तथा प्रदीप्तैर्नाराचैर्मुसलैश्चापि रावणः । अभ्यवर्षत् तदा रामं धाराभिरिव तोयदः ॥६-१०१-५८॥
रामरावणमुक्तानामन्योन्यमभिनिघ्नताम् । वराणां च शराणां च बभूव तुमुलः स्वनः ॥६-१०१-५९॥
विच्छिन्नाश्च विकीर्णाश्च रामरावणयोः शराः । अन्तरिक्षात् प्रदीप्ताग्रा निपेतुर्धरणीतले ॥६-१०१-६०॥
तयोर्ज्यातलनिर्घोषो रामरावणयोर्महान् । त्रासनः सर्वभूतानां सम्बभूवाद्भुतोपमः ॥६-१०१-६१॥
स कीर्यमाणः शरजालवृष्टिभिर्महात्मना दीप्तधनुष्मतार्दितः । भयात् प्रदुद्राव समेत्य रावणो यथानिलेनाभिहतो बलाहकः ॥६-१०१-६२॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे लक्ष्मणशक्तिक्षेपः नाम एकाधिकशततमः सर्गः ॥६-१०१॥