संकुलान्तःपुरम्

सुन्दरकाण्डः / संकुलान्तःपुरम्

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे संकुलान्तःपुरम् नाम नवमः सर्गः ॥५-९॥
तस्यालयवरिष्ठस्य मध्ये विमलमायतम् । ददर्श भवनश्रेष्ठं हनुमान् मारुतात्मजः ॥५-९-१॥
अर्धयोजनविस्तीर्णमायतं योजनं महत् । भवनं राक्षसेन्द्रस्य बहुप्रासादसंकुलम् ॥५-९-२॥
मार्गमाणस्तु वैदेहीं सीतामायतलोचनाम् । सर्वतः परिचक्राम हनूमानरिसूदनः ॥५-९-३॥
उत्तमं राक्षसावासं हनुमानवलोकयन् । आससादाथ लक्ष्मीवान् राक्षसेन्द्रनिवेशनम् ॥५-९-४॥
चतुर्विषाणैर्द्विरदैस्त्रिविषाणैस्तथैव च । परिक्षिप्तमसम्बाधं रक्ष्यमाणमुदायुधैः ॥५-९-५॥
राक्षसीभिश्च पत्नीभी रावणस्य निवेशनम् । आहृताभिश्च विक्रम्य राजकन्याभिरावृतम् ॥५-९-६॥
तन्नक्रमकराकीर्णं तिमिंगिलझषाकुलम् । वायुवेगसमाधूतं पन्नगैरिव सागरम् ॥५-९-७॥
या हि वैश्रवणे लक्ष्मीर्या चन्द्रे हरिवाहने । सा रावणगृहे रम्या नित्यमेवानपायिनी ॥५-९-८॥
या च राज्ञः कुबेरस्य यमस्य वरुणस्य च । तादृशी तद्विशिष्टा वा ऋद्धी रक्षोगृहेष्विह ॥५-९-९॥
तस्य हर्म्यस्य मध्यस्थवेश्म चान्यत् सुनिर्मितम् । बहुनिर्यूहसंयुक्तं ददर्श पवनात्मजः ॥५-९-१०॥
ब्रह्मणोऽर्थे कृतं दिव्यं दिवि यद् विश्वकर्मणा । विमानं पुष्पकं नाम सर्वरत्नविभूषितम् ॥५-९-११॥
परेण तपसा लेभे यत् कुबेरः पितामहात् । कुबेरमोजसा जित्वा लेभे तद् राक्षसेश्वरः ॥५-९-१२॥
ईहामृगसमायुक्तैः कार्तस्वरहिरण्मयैः । सुकृतैराचितं स्तम्भैः प्रदीप्तमिव च श्रिया ॥५-९-१३॥
मेरुमन्दरसंकाशैरुल्लिखद्भिरिवाम्बरम् । कूटागारैः शुभागारैः सर्वतः समलंकृतम् ॥५-९-१४॥
ज्वलनार्कप्रतीकाशैः सुकृतं विश्वकर्मणा । हेमसोपानयुक्तं च चारुप्रवरवेदिकम् ॥५-९-१५॥
जालवातायनैर्युक्तं काञ्चनैः स्फाटिकैरपि । इन्द्रनीलमहानीलमणिप्रवरवेदिकम् ॥५-९-१६॥
विद्रुमेण विचित्रेण मणिभिश्च महाधनैः । निस्तुलाभिश्च मुक्ताभिस्तलेनाभिविराजितम् ॥५-९-१७॥
चन्दनेन च रक्तेन तपनीयनिभेन च । सुपुण्यगन्धिना युक्तमादित्यतरुणोपमम् ॥५-९-१८॥
कूटागारैर्वराकारैर्विविधैः समलंकृतम् । विमानं पुष्पकं दिव्यमारुरोह महाकपिः । तत्रस्थः सर्वतो गन्धं पानभक्ष्यान्नसम्भवम् ॥५-९-१९॥
दिव्यं सम्मूर्च्छितं जिघ्रन् रूपवन्तमिवानिलम् । स गन्धस्तं महासत्त्वं बन्धुर्बन्धुमिवोत्तमम् ॥५-९-२०॥
इत एहीत्युवाचेव तत्र यत्र स रावणः । ततस्तां प्रस्थितः शालां ददर्श महतीं शिवाम् ॥५-९-२१॥
रावणस्य महाकान्तां कान्तामिव वरस्त्रियम् । मणिसोपानविकृतां हेमजालविराजिताम् ॥५-९-२२॥
स्फाटिकैरावृततलां दन्तान्तरितरूपिकाम् । मुक्तावज्रप्रवालैश्च रूप्यचामीकरैरपि ॥५-९-२३॥
विभूषितां मणिस्तम्भैः सुबहुस्तम्भभूषिताम् । समैर्ऋजुभिरत्युच्चैः समन्तात् सुविभूषितैः ॥५-९-२४॥
स्तम्भैः पक्षैरिवात्युच्चैर्दिवं सम्प्रस्थितामिव । महत्या कुथयाऽऽस्तीर्णां पृथिवीलक्षणाङ्कया ॥५-९-२५॥
पृथिवीमिव विस्तीर्णां सराष्ट्रगृहशालिनीम् । नादितां मत्तविहगैर्दिव्यगन्धाधिवासिताम् ॥५-९-२६॥
परर्घ्यास्तरणोपेतां रक्षोऽधिपनिषेविताम् । धूम्रामगुरुधूपेन विमलां हंसपाण्डुराम् ॥५-९-२७॥
पत्रपुष्पोपहारेण कल्माषीमिव सुप्रभाम् । मनसो मोदजननीं वर्णस्यापि प्रसाधिनीम् ॥५-९-२८॥
तां शोकनाशिनीं दिव्यां श्रियः संजननीमिव । इन्द्रियाणीन्द्रियार्थैस्तु पञ्च पञ्चभिरुत्तमैः ॥५-९-२९॥
तर्पयामास मातेव तदा रावणपालिता । स्वर्गोऽयं देवलोकोऽयमिन्द्रस्यापि पुरी भवेत् । सिद्धिर्वेयं परा हि स्यादित्यमन्यत मारुतिः ॥५-९-३०॥
प्रध्यायत इवापश्यत् प्रदीपांस्तत्र काञ्चनान् । धूर्तानिव महाधूर्तैर्देवनेन पराजितान् ॥५-९-३१॥
दीपानां च प्रकाशेन तेजसा रावणस्य च । अर्चिर्भिर्भूषणानां च प्रदीप्तेत्यभ्यमन्यत ॥५-९-३२॥
ततोऽपश्यत् कुथासीनं नानावर्णाम्बरस्रजम् । सहस्रं वरनारीणां नानावेषबिभूषितम् ॥५-९-३३॥
परिवृत्तेऽर्धरात्रे तु पाननिद्रावशंगतम् । क्रीडित्वोपरतं रात्रौ प्रसुप्तं बलवत् तदा ॥५-९-३४॥
तत् प्रसुप्तं विरुरुचे निःशब्दान्तरभूषितम् । निःशब्दहंसभ्रमरं यथा पद्मवनं महत् ॥५-९-३५॥
तासां संवृतदान्तानि मीलिताक्षीणि मारुतिः । अपश्यत् पद्मगन्धीनि वदनानि सुयोषिताम् ॥५-९-३६॥
प्रबुद्धानीव पद्मानि तासां भूत्वा क्षपाक्षये । पुनः संवृतपत्राणि रात्राविव बभुस्तदा ॥५-९-३७॥
इमानि मुखपद्मानि नियतं मत्तषट्पदाः । अम्बुजानीव फुल्लानि प्रार्थयन्ति पुनः पुनः ॥५-९-३८॥
इति वामन्यत श्रीमानुपपत्त्या महाकपिः । मेने हि गुणतस्तानि समानि सलिलोद्भवैः ॥५-९-३९॥
सा तस्य शुशुभे शाला ताभिः स्त्रीभिर्विराजिता । शरदीव प्रसन्ना द्यौस्ताराभिरभिशोभिता ॥५-९-४०॥
स च ताभिः परिवृतः शुशुभे राक्षसाधिपः । यथा ह्युडुपतिः श्रीमांस्ताराभिरिव संवृतः ॥५-९-४१॥
याश्च्यवन्तेऽम्बरात् ताराः पुण्यशेषसमावृताः । इमास्ताः संगताः कृत्स्ना इति मेने हरिस्तदा ॥५-९-४२॥
ताराणामिव सुव्यक्तं महतीनां शुभार्चिषाम् । प्रभावर्णप्रसादाश्च विरेजुस्तत्र योषिताम् ॥५-९-४३॥
व्यावृत्तकचपीनस्रक्प्रकीर्णवरभूषणाः । पानव्यायामकालेषु निद्रोपहतचेतसः ॥५-९-४४॥
व्यावृत्ततिलकाः काश्चित् काश्चिदुदभ्रान्तनूपुराः । पार्श्वे गलितहाराश्च काश्चित् परमयोषितः ॥५-९-४५॥
मुक्ताहारवृताश्चान्याः काश्चित् प्रस्रस्तवाससः । व्याविद्धरशनादामाः किशोर्य इव वाहिताः ॥५-९-४६॥
अकुण्डलधराश्चान्या विच्छिन्नमृदितस्रजः । गजेन्द्रमृदिताः फुल्ला लता इव महावने ॥५-९-४७॥
चन्द्रांशुकिरणाभाश्च हाराः कासांचिदुद्गताः । हंसा इव बभुः सुप्ताः स्तनमध्येषु योषिताम् ॥५-९-४८॥
अपरासां च वैदूर्याः कादम्बा इव पक्षिणः । हेमसूत्राणि चान्यासां चक्रवाका इवाभवन् ॥५-९-४९॥
हंसकारण्डवोपेताश्चक्रवाकोपशोभिताः । आपगा इव ता रेजुर्जघनैः पुलिनैरिव ॥५-९-५०॥
किङ्किणीजालसंकाशास्ता हेमविपुलाम्बुजाः । भावग्राहा यशस्तीराः सुप्ता नद्य इवाबभुः ॥५-९-५१॥
मृदुष्वंगेषु कासांचित् कुचाग्रेषु च संस्थिताः । बभूवुर्भूषणानीव शुभा भूषणराजयः ॥५-९-५२॥
अंशुकान्ताश्च कासांचिन्मुखमारुतकम्पिताः । उपर्युपरि वक्त्राणां व्याधूयन्ते पुनः पुनः ॥५-९-५३॥
ताः पताका इवोद्धूताः पत्नीनां रुचिरप्रभाः । नानावर्णसुवर्णानां वक्त्रमूलेषु रेजिरे ॥५-९-५४॥
ववल्गुश्चात्र कासांचित् कुण्डलानि शुभार्चिषाम् । मुखमारुतसंकम्पैर्मन्दं मन्दं च योषिताम् ॥५-९-५५॥
शर्करासवगन्धः स प्रकृत्या सुरभिः सुखः । तासां वदननिःश्वासः सिषेवे रावणं तदा ॥५-९-५६॥
रावणाननशंकाश्च काश्चिद् रावणयोषितः । मुखानि च सपत्नीनामुपाजिघ्रन् पुनः पुनः ॥५-९-५७॥
अत्यर्थं सक्तमनसो रावणे ता वरस्त्रियः । अस्वतन्त्राः सपत्नीनां प्रियमेवाचरंस्तदा ॥५-९-५८॥
बाहूनुपनिधायान्याः पारिहार्यविभूषितान् । अंशुकानि च रम्याणि प्रमदास्तत्र शिश्यिरे ॥५-९-५९॥
अन्या वक्षसि चान्यस्यास्तस्याः काचित् पुनर्भुजम् । अपरा त्वङ्कमन्यस्यास्तस्याश्चाप्यपरा कुचौ ॥५-९-६०॥
ऊरुपार्श्वकटीपृष्ठमन्योन्यस्य समाश्रिताः । परस्परनिविष्टांग्यो मदस्नेहवशानुगाः ॥५-९-६१॥
अन्योन्यस्यांगसंस्पर्शात् प्रीयमाणाः सुमध्यमाः । एकीकृतभुजाः सर्वाः सुषुपुस्तत्र योषितः ॥५-९-६२॥
अन्योन्यभुजसूत्रेण स्त्रीमाला ग्रथिता हि सा । मालेव ग्रथिता सूत्रे शुशुभे मत्तषट्पदा ॥५-९-६३॥
लतानां माधवे मासि फुल्लानां वायुसेवनात् । अन्योन्यमालाग्रथितं संसक्तकुसुमोच्चयम् ॥५-९-६४॥
प्रतिवेष्टितसुस्कन्धमन्योन्यभ्रमराकुलम् । आसीद् वनमिवोद्धूतं स्त्रीवनं रावणस्य तत् ॥५-९-६५॥
उचितेष्वपि सुव्यक्तं न तासां योषितां तदा । विवेकः शक्य आधातुं भूषणांगाम्बरस्रजाम् ॥५-९-६६॥
रावणे सुखसंविष्टे ताः स्त्रियो विविधप्रभाः । ज्वलन्तः काञ्चना दीपाः प्रेक्षन्तो निमिषा इव ॥५-९-६७॥
राजर्षिविप्रदैत्यानां गन्धर्वाणां च योषितः । रक्षसां चाभवन् कन्यास्तस्य कामवशंगताः ॥५-९-६८॥
युद्धकामेन ताः सर्वा रावणेन हृताः स्त्रियः । समदा मदनेनैव मोहिताः काश्चिदागताः ॥५-९-६९॥
न तत्र काश्चित् प्रमदाः प्रसह्य वीर्योपपन्नेन गुणेन लब्धाः । न चान्यकामापि न चान्यपूर्वा विना वरार्हां जनकात्मजां तु ॥५-९-७०॥
न चाकुलीना न च हीनरूपा नादक्षिणा नानुपचारयुक्ता । भार्याभवत् तस्य न हीनसत्त्वा न चापि कान्तस्य न कामनीया ॥५-९-७१॥
बभूव बुद्धिस्तु हरीश्वरस्य यदीदृशी राघवधर्मपत्नी । इमा महाराक्षसराजभार्याः सुजातमस्येति हि साधुबुद्धेः ॥५-९-७२॥
पुनश्च सोऽचिन्तयदात्तरूपो ध्रुवं विशिष्टा गुणतो हि सीता । अथायमस्यां कृतवान् महात्मा लंकेश्वरः कष्टमनार्यकर्म ॥५-९-७३॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे संकुलान्तःपुरम् नाम नवमः सर्गः ॥५-९॥