मन्दोदरीदर्शनम्

सुन्दरकाण्डः / मन्दोदरीदर्शनम्

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे मन्दोदरीदर्शनम् नाम दशमः सर्गः ॥५-१०॥
तत्र दिव्योपमं मुख्यं स्फाटिकं रत्नभूषितम् । अवेक्षमाणो हनुमान् ददर्श शयनासनम् ॥५-१०-१॥
दान्तकाञ्चनचित्रांगैर्वैदूर्यैश्च वरासनैः । महार्हास्तरणोपेतैरुपपन्नं महाधनैः ॥५-१०-२॥
तस्य चैकतमे देशे दिव्यमालोपशोभितम् । ददर्श पाण्डुरं छत्रं ताराधिपतिसंनिभम् ॥५-१०-३॥
जातरूपपरिक्षिप्तं चित्रभानोः समप्रभम् । अशोकमालाविततं ददर्श परमासनम् ॥५-१०-४॥
वालव्यजनहस्ताभिर्वीज्यमानं समन्ततः । गन्धैश्च विविधैर्जुष्टं वरधूपेन धूपितम् ॥५-१०-५॥
परमास्तरणास्तीर्णमाविकाजिनसंवृतम् । दामभिर्वरमाल्यानां समन्तादुपशोभितम् ॥५-१०-६॥
तस्मिञ्जीमूतसंकाशं प्रदीप्तोज्ज्वलकुण्डलम् । लोहिताक्षं महाबाहुं महारजतवाससम् ॥५-१०-७॥
लोहितेनानुलिप्तांगं चन्दनेन सुगन्धिना । संध्यारक्तमिवाकाशे तोयदं सतडिद्गुणम् ॥५-१०-८॥
वृतमाभरणैर्दिव्यैः सुरूपं कामरूपिणम् । सवृक्षवनगुल्माढ्यं प्रसुप्तमिव मन्दरम् ॥५-१०-९॥
क्रीडित्वोपरतं रात्रौ वराभरणभूषितम् । प्रियं राक्षसकन्यानां राक्षसानां सुखावहम् ॥५-१०-१०॥
पीत्वाप्युपरतं चापि ददर्श स महाकपिः । भास्वरे शयने वीरं प्रसुप्तं राक्षसाधिपम् ॥५-१०-११॥
निःश्वसन्तं यथा नागं रावणं वानरोत्तमः । आसाद्य परमोद्विग्नः सोपासर्पत् सुभीतवत् ॥५-१०-१२॥
अथारोहणमासाद्य वेदिकान्तरमाश्रितः । क्षीबं राक्षसशार्दूलं प्रेक्षते स्म महाकपिः ॥५-१०-१३॥
शुशुभे राक्षसेन्द्रस्य स्वपतः शयनं शुभम् । गन्धहस्तिनि संविष्टे यथा प्रस्रवणं महत् ॥५-१०-१४॥
काञ्चनांगदसंनद्धौ ददर्श स महात्मनः । विक्षिप्तौ राक्षसेन्द्रस्य भुजाविन्द्रध्वजोपमौ ॥५-१०-१५॥
ऐरावतविषाणाग्रैरापीडनकृतव्रणौ । वज्रोल्लिखितपीनांसौ विष्णुचक्रपरिक्षतौ ॥५-१०-१६॥
पीनौ समसुजातांसौ संगतौ बलसंयुतौ । सुलक्षणनखांगुष्ठौ स्वंगुलीयकलक्षितौ ॥५-१०-१७॥
संहतौ परिघाकारौ वृत्तौ करिकरोपमौ । विक्षिप्तौ शयने शुभ्रे पञ्चशीर्षाविवोरगौ ॥५-१०-१८॥
शशक्षतजकल्पेन सुशीतेन सुगन्धिना । चन्दनेन परार्घ्येन स्वनुलिप्तौ स्वलंकृतौ ॥५-१०-१९॥
उत्तमस्त्रीविमृदितौ गन्धोत्तमनिषेवितौ । यक्षपन्नगगन्धर्वदेवदानवराविणौ ॥५-१०-२०॥
ददर्श स कपिस्तस्य बाहू शयनसंस्थितौ । मन्दरस्यान्तरे सुप्तौ महाही रुषिताविव ॥५-१०-२१॥
ताभ्यां स परिपूर्णाभ्यामुभाभ्यां राक्षसेश्वरः । शुशुभेऽचलसंकाशः शृंगाभ्यामिव मन्दरः ॥५-१०-२२॥
चूतपुंनागसुरभिर्बकुलोत्तमसंयुतः । मृष्टान्नरससंयुक्तः पानगन्धपुरःसरः ॥५-१०-२३॥
तस्य राक्षसराजस्य निश्चक्राम महामुखात् । शयानस्य विनिःश्वासः पूरयन्निव तद् गृहम् ॥५-१०-२४॥
मुक्तामणिविचित्रेण काञ्चनेन विराजिता । मुकुटेनापवृत्तेन कुण्डलोज्ज्वलिताननम् ॥५-१०-२५॥
रक्तचन्दनदिग्धेन तथा हारेण शोभिना । पीनायतविशालेन वक्षसाभिविराजिता ॥५-१०-२६॥
पाण्डुरेणापविद्धेन क्षौमेण क्षतजेक्षणम् । महार्हेण सुसंवीतं पीतेनोत्तरवाससा ॥५-१०-२७॥
माषराशिप्रतीकाशं निःश्वसन्तं भुजंगवत् । गांगे महति तोयान्ते प्रसुप्तमिव कुञ्जरम् ॥५-१०-२८॥
चतुर्भिः काञ्चनैर्दीपैर्दीप्यमानं चतुर्दिशम् । प्रकाशीकृतसर्वांगं मेघं विद्युद्गणैरिव ॥५-१०-२९॥
पादमूलगताश्चापि ददर्श सुमहात्मनः । पत्नीः स प्रियभार्यस्य तस्य रक्षःपतेर्गृहे ॥५-१०-३०॥
शशिप्रकाशवदना वरकुण्डलभूषणाः । अम्लानमाल्याभरणा ददर्श हरियूथपः ॥५-१०-३१॥
नृत्यवादित्रकुशला राक्षसेन्द्रभुजाङ्कगाः । वराभरणधारिण्यो निषण्णा ददृशे कपिः ॥५-१०-३२॥
वज्रवैदूर्यगर्भाणि श्रवणान्तेषु योषिताम् । ददर्श तापनीयानि कुण्डलान्यंगदानि च ॥५-१०-३३॥
तासां चन्द्रोपमैर्वक्त्रैः शुभैर्ललितकुण्डलैः । विरराज विमानं तन्नभस्तारागणैरिव ॥५-१०-३४॥
मदव्यायामखिन्नास्ता राक्षसेन्द्रस्य योषितः । तेषु तेष्ववकाशेषु प्रसुप्तास्तनुमध्यमाः ॥५-१०-३५॥
अंगहारैस्तथैवान्या कोमलैर्नृत्यशालिनी । विन्यस्तशुभसर्वांगी प्रसुप्ता वरवर्णिनी ॥५-१०-३६॥
काचिद् वीणां परिष्वज्य प्रसुप्ता सम्प्रकाशते । महानदीप्रकीर्णेव नलिनी पोतमाश्रिता ॥५-१०-३७॥
अन्या कक्षगतेनैव मड्डुकेनासितेक्षणा । प्रसुप्ता भामिनी भाति बालपुत्रेव वत्सला ॥५-१०-३८॥
पटहं चारुसर्वांगी न्यस्य शेते शुभस्तनी । चिरस्य रमणं लब्ध्वा परिष्वज्येव कामिनी ॥५-१०-३९॥
काचिद् वीणां परिष्वज्य सुप्ता कमललोचना । वरं प्रियतमं गृह्य सकामेव हि कामिनी ॥५-१०-४०॥
विपञ्चीं परिगृह्यान्या नियता नृत्यशालिनी । निद्रावशमनुप्राप्ता सहकान्तेव भामिनी ॥५-१०-४१॥
अन्या कनकसंकाशैर्मृदुपीनैर्मनोरमैः । मृदंगं परिविद्ध्यांगैः प्रसुप्ता मत्तलोचना ॥५-१०-४२॥
भुजपाशान्तरस्थेन कक्षगेन कृशोदरी । पणवेन सहानिन्द्या सुप्ता मदकृतश्रमा ॥५-१०-४३॥
डिण्डिमं परिगृह्यान्या तथैवासक्तडिण्डिमा । प्रसुप्ता तरुणं वत्समुपगुह्येव भामिनी ॥५-१०-४४॥
काचिदाडम्बरं नारी भुजसम्भोगपीडितम् । कृत्वा कमलपत्राक्षी प्रसुप्ता मदमोहिता ॥५-१०-४५॥
कलशीमपविद्ध्यान्या प्रसुप्ता भाति भामिनी । वसन्ते पुष्पशबला मालेव परिमार्जिता ॥५-१०-४६॥
पाणिभ्यां च कुचौ काचित् सुवर्णकलशोपमौ । उपगुह्याबला सुप्ता निद्राबलपराजिता ॥५-१०-४७॥
अन्या कमलपत्राक्षी पूर्णेन्दुसदृशानना । अन्यामालिंग्य सुश्रोणीं प्रसुप्ता मदविह्वला ॥५-१०-४८॥
आतोद्यानि विचित्राणि परिष्वज्य वरस्त्रियः । निपीड्य च कुचैः सुप्ताः कामिन्यः कामुकानिव ॥५-१०-४९॥
तासामेकान्तविन्यस्ते शयानां शयने शुभे । ददर्श रूपसम्पन्नामथ तां स कपिः स्त्रियम् ॥५-१०-५०॥
मुक्तामणिसमायुक्तैर्भूषणैः सुविभूषिताम् । विभूषयन्तीमिव च स्वश्रिया भवनोत्तमम् ॥५-१०-५१॥
गौरीं कनकवर्णाभामिष्टामन्तःपुरेश्वरीम् । कपिर्मन्दोदरीं तत्र शयानां चारुरूपिणीम् ॥५-१०-५२॥
स तां दृष्ट्वा महाबाहुर्भूषितां मारुतात्मजः । तर्कयामास सीतेति रूपयौवनसम्पदा । हर्षेण महता युक्तो ननन्द हरियूथपः ॥५-१०-५३॥
आस्फोटयामास चुचुम्ब पुच्छं ननन्द चिक्रीड जगौ जगाम । स्तम्भानरोहन्निपपात भूमौ निदर्शयन् स्वां प्रकृतिं कपीनाम् ॥५-१०-५४॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे मन्दोदरीदर्शनम् नाम दशमः सर्गः ॥५-१०॥