पुष्पकानुवर्णनम्

सुन्दरकाण्डः / पुष्पकानुवर्णनम्

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे पुष्पकानुवर्णनम् नाम अष्टमः सर्गः ॥५-८॥
स तस्य मध्ये भवनस्य संस्थितो महद्विमानं मणिरत्नचित्रितम् । प्रतप्तजाम्बूनदजालकृत्रिमं ददर्श धीमान् पवनात्मजः कपिः ॥५-८-१॥
तदप्रमेयप्रतिकारकृत्रिमं कृतं स्वयं साध्विति विश्वकर्मणा । दिवं गते वायुपथे प्रतिष्ठितं व्यराजतादित्यपथस्य लक्ष्म तत् ॥५-८-२॥
न तत्र किंचिन्न कृतं प्रयत्नतो न तत्र किंचिन्न महार्घरत्नवत् । न ते विशेषा नियताः सुरेष्वपि न तत्र किंचिन्न महाविशेषवत् ॥५-८-३॥
तपः समाधानपराक्रमार्जितं मनःसमाधानविचारचारिणम् । अनेकसंस्थानविशेषनिर्मितं ततस्ततस्तुल्यविशेषनिर्मितम् ॥५-८-४॥
मनः समाधाय तु शीघ्रगामिनं दुरासदं मारुततुल्यगामिनम् । महात्मनां पुण्यकृतां महर्द्धिनां यशस्विनामग्ऱ्यमुदामिवालयम् ॥५-८-५॥
विशेषमालम्ब्य विशेषसंस्थितं विचित्रकूटं बहुकूटमण्डितम् । मनोऽभिरामं शरदिन्दुनिर्मलं विचित्रकूटं शिखरं गिरेर्यथा ॥५-८-६॥
वहन्ति यत्कुण्डलशोभितानना महाशना व्योमचरानिशाचराः । विवृत्तविध्वस्तविशाललोचना महाजवा भूतगणाः सहस्रशः ॥५-८-७॥
वसन्तपुष्पोत्करचारुदर्शनं वसन्तमासादपि चारुदर्शनम् । स पुष्पकं तत्र विमानमुत्तमं ददर्श तद् वानरवीरसत्तमः ॥५-८-८॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे पुष्पकानुवर्णनम् नाम अष्टमः सर्गः ॥५-८॥