सीताभाषितानुवचनम्
सुन्दरकाण्डः / सीताभाषितानुवचनम्
Script
Translation
Previous
सीताभाषितप्रश्नः
Next
हनूमत्समाश्वासवचनानुवादः
अथ श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे सीताभाषितानुवचनम् नाम सप्तषष्ठितमः सर्गः ॥५-६७॥
एवमुक्तस्तु हनुमान् राघवेण महात्मना ।
सीताया भाषितं सर्वं न्यवेदयत राघवे ॥५-६७-१॥
इदमुक्तवती देवी जानकी पुरुषर्षभ ।
पूर्ववृत्तमभिज्ञानं चित्रकूटे यथातथम् ॥५-६७-२॥
सुखसुप्ता त्वया सार्धं जानकी पूर्वमुत्थिता ।
वायसः सहसोत्पत्य विददार स्तनान्तरम् ॥५-६७-३॥
पर्यायेण च सुप्तस्त्वं देव्यङ्के भरताग्रज ।
पुनश्च किल पक्षी स देव्या जनयति व्यथा ॥५-६७-४॥
ततः पुनरुपागम्य विददार भृशं किल ।
ततस्त्वं बोधितस्तस्याः शोणितेन समुक्षितः ॥५-६७-५॥
वायसेन च तेनैवं सततं बाध्यमानया ।
बोधितः किल देव्या त्वं सुखसुप्तः परंतप ॥५-६७-६॥
तां च दृष्ट्वा महाबाहो दारितां च स्तनान्तरे ।
आशीविष इव क्रुद्धस्ततो वाक्यं त्वमूचिवान् ॥५-६७-७॥
नखाग्रैः केन ते भीरु दारितं वै स्तनान्तरम् ।
कः क्रीडति सरोषेण पञ्चवक्त्रेण भोगिना ॥५-६७-८॥
निरीक्षमाणः सहसा वायसं समुदैक्षथाः ।
नखैः सरुधिरैस्तीक्ष्णैस्तामेवाभिमुखं स्थितम् ॥५-६७-९॥
सुतः किल स शक्रस्य वायसः पततां वरः ।
धरान्तरगतः शीघ्रं पवनस्य गतौ समः ॥५-६७-१०॥
ततस्तस्मिन् महाबाहो कोपसंवर्तितेक्षणः ।
वायसे त्वं व्यधाः क्रूरां मतिं मतिमतां वर ॥५-६७-११॥
स दर्भसंस्तराद् गृह्य ब्रह्मास्त्रेण न्ययोजयः ।
स दीप्त इव कालाग्निर्जज्वालाभिमुखं खगम् ॥५-६७-१२॥
स त्वं प्रदीप्तं चिक्षेप दर्भं तं वायसं प्रति ।
ततस्तु वायसं दीप्तः स दर्भोऽनुजगाम ह ॥५-६७-१३॥
भीतैश्च सम्परित्यक्तः सुरैः सर्वैश्च वायसः ।
त्रीँल्लोकान् सम्परिक्रम्य त्रातारं नाधिगच्छति ॥५-६७-१४॥
पुनरप्यागतस्तत्र त्वत्सकाशमरिंदम ।
त्वं तं निपतितं भूमौ शरण्यः शरणागतम् ॥५-६७-१५॥
वधार्हमपि काकुत्स्थ कृपया परिपालयः ।
मोघमस्त्रं न शक्यं तु कर्तुमित्येव राघव ॥५-६७-१६॥
भवांस्तस्याक्षि काकस्य हिनस्ति स्म स दक्षिणम् ।
राम त्वां स नमस्कृत्य राज्ञो दशरथस्य च ॥५-६७-१७॥
विसृष्टस्तु तदा काकः प्रतिपेदे स्वमालयम् ।
एवमस्त्रविदां श्रेष्ठः सत्त्ववाञ्छीलवानपि ॥५-६७-१८॥
किमर्थमस्त्रं रक्षःसु न योजयसि राघव ।
न दानवा न गन्धर्वा नासुरा न मरुद्गणाः ॥५-६७-१९॥
तव राम रणे शक्तास्तथा प्रतिसमासितुम् ।
तव वीर्यवतः कश्चिन्मयि यद्यस्ति सम्भ्रमः ॥५-६७-२०॥
क्षिप्रं सुनिशितैर्बाणैर्हन्यतां युधि रावणः ।
भ्रातुरादेशमाज्ञाय लक्ष्मणो वा परंतपः ॥५-६७-२१॥
स किमर्थं नरवरो न मां रक्षति राघवः ।
शक्तौ तौ पुरुषव्याघ्रौ वाय्वग्निसमतेजसौ ॥५-६७-२२॥
सुराणामपि दुर्धर्षौ किमर्थं मामुपेक्षतः ।
ममैव दुष्कृतं किंचिन्महदस्ति न संशयः ॥५-६७-२३॥
समर्थौ सहितौ यन्मां न रक्षेते परंतपौ ।
वैदेह्या वचनं श्रुत्वा करुणं साधुभाषितम् ॥५-६७-२४॥
पुनरप्यहमार्यां तामिदं वचनमब्रुवम् ।
त्वच्छोकविमुखो रामो देवि सत्येन ते शपे ॥५-६७-२५॥
रामे दुःखाभिभूते च लक्ष्मणः परितप्यते ।
कथंचिद् भवती दृष्टा न कालः परिशोचितुम् ॥५-६७-२६॥
अस्मिन् मुहूर्ते दुःखानामन्तं द्रक्ष्यसि भामिनि ।
तावुभौ नरशार्दूलौ राजपुत्रौ परंतपौ ॥५-६७-२७॥
त्वद्दर्शनकृतोत्साहौ लङ्कां भस्मीकरिष्यतः ।
हत्वा च समरे रौद्रं रावणं सहबान्धवम् ॥५-६७-२८॥
राघवस्त्वां वरारोहे स्वपुरीं नयिता ध्रुवम् ।
यत् तु रामो विजानीयादभिज्ञानमनिन्दिते ॥५-६७-२९॥
प्रीतिसंजननं तस्य प्रदातुं तत् त्वमर्हसि ।
साभिवीक्ष्य दिशः सर्वा वेण्युद्ग्रथनमुत्तमम् ॥५-६७-३०॥
मुक्त्वा वस्त्राद् ददौ मह्यं मणिमेतं महाबल ।
प्रतिगृह्य मणिं दोर्भ्यां तव हेतो रघुप्रिय ॥५-६७-३१॥
शिरसा सम्प्रणम्यैनामहमागमने त्वरे ।
गमने च कृतोत्साहमवेक्ष्य वरवर्णिनी ॥५-६७-३२॥
विवर्धमानं च हि मामुवाच जनकात्मजा ।
अश्रुपूर्णमुखी दीना बाष्पगद्गदभाषिणी ॥५-६७-३३॥
ममोत्पतनसम्भ्रान्ता शोकवेगसमाहता ।
मामुवाच ततः सीता सभाग्योऽसि महाकपे ॥५-६७-३४॥
यद् द्रक्ष्यसि महाबाहुं रामं कमललोचनम् ।
लक्ष्मणं च महाबाहुं देवरं मे यशस्विनम् ॥५-६७-३५॥
सीतयाप्येवमुक्तोऽहमब्रुवं मैथिलीं तथा ।
पृष्ठमारोह मे देवि क्षिप्रं जनकनन्दनि ॥५-६७-३६॥
यावत्ते दर्शयाम्यद्य ससुग्रीवं सलक्ष्मणम् ।
राघवं च महाभागे भर्तारमसितेक्षणे ॥५-६७-३७॥
साब्रवीन्मां ततो देवी नैष धर्मो महाकपे ।
यत्ते पृष्ठं सिषेवेऽहं स्ववशा हरिपुङ्गव ॥५-६७-३८॥
पुरा च यदहं वीर स्पृष्टा गात्रेषु रक्षसा ।
तत्राहं किं करिष्यामि कालेनोपनिपीडिता ॥५-६७-३९॥
गच्छ त्वं कपिशार्दूल यत्र तौ नृपतेः सुतौ ।
इत्येवं सा समाभाष्य भूयः संदेष्टुमास्थिता ॥५-६७-४०॥
हनूमन् सिंहसंकाशौ तावुभौ रामलक्ष्मणौ ।
सुग्रीवं च सहामात्यं सर्वान् ब्रूया अनामयम् ॥५-६७-४१॥
यथा च स महाबाहुर्मां तारयति राघवः ।
अस्माद्दुःखाम्बुसंरोधात् तत् त्वमाख्यातुमर्हसि ॥५-६७-४२॥
इदं च तीव्रं मम शोकवेगं रक्षोभिरेभिः परिभर्त्सनं च ।
ब्रूयास्तु रामस्य गतः समीपं शिवश्च तेऽध्वास्तु हरिप्रवीर ॥५-६७-४३॥
एतत् तवार्या नृप संयता सा सीता वचः प्राह विषादपूर्वम् ।
एतच्च बुद्ध्वा गदितं यथा त्वं श्रद्धत्स्व सीतां कुशलां समग्राम् ॥५-६७-४४॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे सीताभाषितानुवचनम् नाम सप्तषष्ठितमः सर्गः ॥५-६७॥
Previous
सीताभाषितप्रश्नः
Next
हनूमत्समाश्वासवचनानुवादः