सीताभाषितप्रश्नः

सुन्दरकाण्डः / सीताभाषितप्रश्नः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे सीताभाषितप्रश्नः नाम षट्षष्ठितमः सर्गः ॥५-६६॥
एवमुक्तो हनुमता रामो दशरथात्मजः । तं मणिं हृदये कृत्वा रुरोद सहलक्ष्मणः ॥५-६६-१॥
तं तु दृष्ट्वा मणिश्रेष्ठं राघवः शोककर्शितः । नेत्राभ्यामश्रुपूर्णाभ्यां सुग्रीवमिदमब्रवीत् ॥५-६६-२॥
यथैव धेनुः स्रवति स्नेहाद् वत्सस्य वत्सला । तथा ममापि हृदयं मणिश्रेष्ठस्य दर्शनात् ॥५-६६-३॥
मणिरत्नमिदं दत्तं वैदेह्याः श्वशुरेण मे । वधूकाले यथा बद्धमधिकं मूर्ध्नि शोभते ॥५-६६-४॥
अयं हि जलसम्भूतो मणिः प्रवरपूजितः । यज्ञे परमतुष्टेन दत्तः शक्रेण धीमता ॥५-६६-५॥
इमं दृष्ट्वा मणिश्रेष्ठं तथा तातस्य दर्शनम् । अद्यास्म्यवगतः सौम्य वैदेहस्य तथा विभोः ॥५-६६-६॥
अयं हि शोभते तस्याः प्रियाया मूर्ध्नि मे मणिः । अद्यास्य दर्शनेनाहं प्राप्तां तामिव चिन्तये ॥५-६६-७॥
किमाह सीता वैदेही ब्रूहि सौम्य पुनः पुनः । परासुमिव तोयेन सिञ्चन्ती वाक्यवारिणा ॥५-६६-८॥
इतस्तु किं दुःखतरं यदिमं वारिसम्भवम् । मणिं पश्यामि सौमित्रे वैदेहीमागतां विना ॥५-६६-९॥
चिरं जीवति वैदेही यदि मासं धरिष्यति । क्षणं वीर न जीवेयं विना तामसितेक्षणाम् ॥५-६६-१०॥
नय मामपि तं देशं यत्र दृष्टा मम प्रिया । न तिष्ठेयं क्षणमपि प्रवृत्तिमुपलभ्य च ॥५-६६-११॥
कथं सा मम सुश्रोणी भीरुभीरुः सती तदा । भयावहानां घोराणां मध्ये तिष्ठति रक्षसाम् ॥५-६६-१२॥
शारदस्तिमिरोन्मुक्तो नूनं चन्द्र इवाम्बुदैः । आवृतो वदनं तस्या न विराजति साम्प्रतम् ॥५-६६-१३॥
किमाह सीता हनुमंस्तत्त्वतः कथयस्व मे । एतेन खलु जीविष्ये भेषजेनातुरो यथा ॥५-६६-१४॥
मधुरा मधुरालापा किमाह मम भामिनी । मद्विहीना वरारोहा हनुमन् कथयस्व मे । दुःखाद् दुःखतरं प्राप्य कथं जीवति जानकी ॥५-६६-१५॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे सीताभाषितप्रश्नः नाम षट्षष्ठितमः सर्गः ॥५-६६॥