हनूमत्समाश्वासवचनानुवादः

सुन्दरकाण्डः / हनूमत्समाश्वासवचनानुवादः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे हनूमत्समाश्वासवचनानुवादः नाम अष्टषष्ठितमः सर्गः ॥५-६८॥
अथाहमुत्तरं देव्या पुनरुक्तः ससम्भ्रमम् । तव स्नेहान्नरव्याघ्र सौहार्दादनुमान्य च ॥५-६८-१॥
एवं बहुविधं वाच्यो रामो दाशरथिस्त्वया । यथा मां प्राप्नुयाच्छीघ्रं हत्वा रावणमाहवे ॥५-६८-२॥
यदि वा मन्यसे वीर वसैकाहमरिंदम । कस्मिंश्चित् संवृते देशे विश्रान्तः श्वो गमिष्यसि ॥५-६८-३॥
मम चाप्यल्पभाग्यायाः सांनिध्यात् तव वानर । अस्य शोकविपाकस्य मुहूर्तं स्याद् विमोक्षणम् ॥५-६८-४॥
गते हि त्वयि विक्रान्ते पुनरागमनाय वै । प्राणानामपि संदेहो मम स्यान्नात्र संशयः ॥५-६८-५॥
तवादर्शनजः शोको भूयो मां परितापयेत् । दुखाद् दुःखपराभूतां दुर्गतां दुःखभागिनीम् ॥५-६८-६॥
अयं च वीर संदेहस्तिष्ठतीव ममाग्रतः । सुमहांस्त्वत्सहायेषु हर्यृक्षेषु हरीश्वर ॥५-६८-७॥
कथं नु खलु दुष्पारं तरिष्यन्ति महोदधिम् । तानि हर्यृक्षसैन्यानि तौ वा नरवरात्मजौ ॥५-६८-८॥
त्रयाणामेव भूतानां सागरस्यास्य लङ्घने । शक्तिः स्याद् वैनतेयस्य वायोर्वा तव चानघ ॥५-६८-९॥
तदस्मिन् कार्यनिर्योगे वीरैवं दुरतिक्रमे । किं पश्यसि समाधानं ब्रूहि कार्यविदां वर ॥५-६८-१०॥
काममस्य त्वमेवैकः कार्यस्य परिसाधने । पर्याप्तः परवीरघ्न यशस्यस्ते बलोदयः ॥५-६८-११॥
बलैः समग्रैर्यदि मां हत्वा रावणमाहवे । विजयी स्वपुरीं रामो नयेत् तत् स्याद् यशस्करम् ॥५-६८-१२॥
यथाहं तस्य वीरस्य वनादुपधिना हृता । रक्षसा तद्भयादेव तथा नार्हति राघवः ॥५-६८-१३॥
बलैस्तु संकुलां कृत्वा लङ्कां परबलार्दनः । मां नयेद् यदि काकुत्स्थस्तत् तस्य सदृशं भवेत् ॥५-६८-१४॥
तद् यथा तस्य विक्रान्तमनुरूपं महात्मनः । भवत्याहवशूरस्य तथा त्वमुपपादय ॥५-६८-१५॥
तदर्थोपहितं वाक्यं प्रश्रितं हेतुसंहितम् । निशम्याहं ततः शेषं वाक्यमुत्तरमब्रवम् ॥५-६८-१६॥
देवि हर्यृक्षसैन्यानामीश्वरः प्लवतां वरः । सुग्रीवः सत्त्वसम्पन्नस्त्वदर्थे कृतनिश्चयः ॥५-६८-१७॥
तस्य विक्रमसम्पन्नाः सत्त्ववन्तो महाबलाः । मनःसंकल्पसदृशा निदेशे हरयः स्थिताः ॥५-६८-१८॥
येषां नोपरि नाधस्तान्न तिर्यक् सज्जते गतिः । न च कर्मसु सीदन्ति महत्स्वमिततेजसः ॥५-६८-१९॥
असकृत् तैर्महाभागैर्वानरैर्बलसंयुतैः । प्रदक्षिणीकृता भूमिर्वायुमार्गानुसारिभिः ॥५-६८-२०॥
मद्विशिष्टाश्च तुल्याश्च सन्ति तत्र वनौकसः । मत्तः प्रत्यवरः कश्चिन्नास्ति सुग्रीवसंनिधौ ॥५-६८-२१॥
अहं तावदिह प्राप्तः किं पुनस्ते महाबलाः । नहि प्रकृष्टाः प्रेष्यन्ते प्रेष्यन्ते हीतरे जनाः ॥५-६८-२२॥
तदलं परितापेन देवि मन्युरपैतु ते । एकोत्पातेन ते लङ्कामेष्यन्ति हरियूथपाः ॥५-६८-२३॥
मम पृष्ठगतौ तौ च चन्द्रसूर्याविवोदितौ । त्वत्सकाशं महाभागे नृसिंहावागमिष्यतः ॥५-६८-२४॥
अरिघ्नं सिंहसंकाशं क्षिप्रं द्रक्ष्यसि राघवम् । लक्ष्मणं च धनुष्मन्तं लङ्काद्वारमुपागतम् ॥५-६८-२५॥
नखदंष्ट्रायुधान् वीरान् सिंहशार्दूलविक्रमान् । वानरान् वारणेन्द्राभान् क्षिप्रं द्रक्ष्यसि संगतान् ॥५-६८-२६॥
शैलाम्बुदनिकाशानां लङ्कामलयसानुषु । नर्दतां कपिमुख्यानां नचिराच्छ्रोष्यसे स्वनम् ॥५-६८-२७॥
निवृत्तवनवासं च त्वया सार्धमरिंदमम् । अभिषिक्तमयोध्यायां क्षिप्रं द्रक्ष्यसि राघवम् ॥५-६८-२८॥
ततो मया वाग्भिरदीनभाषिणी शिवाभिरिष्टाभिरभिप्रसादिता । उवाह शान्तिं मम मैथिलात्मजा तवातिशोकेन तथातिपीडिता ॥५-६८-२९॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे हनूमत्समाश्वासवचनानुवादः नाम अष्टषष्ठितमः सर्गः ॥५-६८॥