चूडामणिप्रदानम्

सुन्दरकाण्डः / चूडामणिप्रदानम्

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे चूडामणिप्रदानम् नाम पञ्चषष्ठितमः सर्गः ॥५-६५॥
ततः प्रस्रवणं शैलं ते गत्वा चित्रकाननम् । प्रणम्य शिरसा रामं लक्ष्मणं च महाबलम् ॥५-६५-१॥
युवराजं पुरस्कृत्य सुग्रीवमभिवाद्य च । प्रवृत्तिमथ सीतायाः प्रवक्तुमुपचक्रमुः ॥५-६५-२॥
रावणान्तःपुरे रोधं राक्षसीभिश्च तर्जनम् । रामे समनुरागं च यथा च नियमः कृतः ॥५-६५-३॥
एतदाख्याय ते सर्वं हरयो रामसंनिधौ । वैदेहीमक्षतां श्रुत्वा रामस्तूत्तरमब्रवीत् ॥५-६५-४॥
क्व सीता वर्तते देवी कथं च मयि वर्तते । एतन्मे सर्वमाख्यात वैदेहीं प्रति वानराः ॥५-६५-५॥
रामस्य गदितं श्रुत्वा हरयो रामसंनिधौ । चोदयन्ति हनूमन्तं सीतावृत्तान्तकोविदम् ॥५-६५-६॥
श्रुत्वा तु वचनं तेषां हनूमान् मारुतात्मजः । प्रणम्य शिरसा देव्यै सीतायै तां दिशं प्रति ॥५-६५-७॥
उवाच वाक्यं वाक्यज्ञः सीताया दर्शनं यथा । तं मणिं काञ्चनं दिव्यं दीप्यमानं स्वतेजसा ॥५-६५-८॥
दत्त्वा रामाय हनुमांस्ततः प्राञ्जलिरब्रवीत् । समुद्रं लङ्घयित्वाहं शतयोजनमायतम् ॥५-६५-९॥
अगच्छं जानकीं सीतां मार्गमाणो दिदृक्षया । तत्र लङ्केति नगरी रावणस्य दुरात्मनः ॥५-६५-१०॥
दक्षिणस्य समुद्रस्य तीरे वसति दक्षिणे । तत्र सीता मया दृष्टा रावणान्तःपुरे सती ॥५-६५-११॥
त्वयि संन्यस्य जीवन्ती रामा राम मनोरथम् । दृष्टा मे राक्षसीमध्ये तर्ज्यमाना मुहुर्मुहुः ॥५-६५-१२॥
राक्षसीभिर्विरूपाभी रक्षिता प्रमदावने । दुःखमापद्यते देवी त्वया वीर सुखोचिता ॥५-६५-१३॥
रावणान्तःपुरे रुद्धा राक्षसीभिः सुरक्षिता । एकवेणीधरा दीना त्वयि चिन्तापरायणा ॥५-६५-१४॥
अधःशय्या विवर्णाङ्गी पद्मिनीव हिमागमे । रावणाद् विनिवृत्तार्था मर्तव्यकृतनिश्चया ॥५-६५-१५॥
देवी कथंचित् काकुत्स्थ त्वन्मना मार्गिता मया । इक्ष्वाकुवंशविख्यातिं शनैः कीर्तयतानघ ॥५-६५-१६॥
सा मया नरशार्दूल शनैर्विश्वासिता तदा । ततः सम्भाषिता देवी सर्वमर्थं च दर्शिता ॥५-६५-१७॥
रामसुग्रीवसख्यं च श्रुत्वा हर्षमुपागता । नियतः समुदाचारो भक्तिश्चास्याः सदा त्वयि ॥५-६५-१८॥
एवं मया महाभाग दृष्टा जनकनन्दिनी । उग्रेण तपसा युक्ता त्वद्भक्त्या पुरुषर्षभ ॥५-६५-१९॥
अभिज्ञानं च मे दत्तं यथावृत्तं तवान्तिके । चित्रकूटे महाप्राज्ञ वायसं प्रति राघव ॥५-६५-२०॥
विज्ञाप्यः पुनरप्येष रामो वायुसुत त्वया । अखिलेन यथा दृष्टमिति मामाह जानकी ॥५-६५-२१॥
अयं चास्मै प्रदातव्यो यत्नात् सुपरिरक्षितः । ब्रुवता वचनान्येवं सुग्रीवस्योपशृण्वतः ॥५-६५-२२॥
एष चूडामणिः श्रीमान् मया ते यत्नरक्षितः । मनःशिलायास्तिलकं तत् स्मरस्वेति चाब्रवीत् ॥५-६५-२३॥
एष निर्यातितः श्रीमान् मया ते वारिसम्भवः । एनं दृष्ट्वा प्रमोदिष्ये व्यसने त्वामिवानघ ॥५-६५-२४॥
जीवितं धारयिष्यामि मासं दशरथात्मज । ऊर्ध्वं मासान्न जीवेयं रक्षसां वशमागता ॥५-६५-२५॥
इति मामब्रवीत् सीता कृशाङ्गी धर्मचारिणी । रावणान्तःपुरे रुद्धा मृगीवोत्फुल्ललोचना ॥५-६५-२६॥
एतदेव मयाऽऽख्यातं सर्वं राघव यद् यथा । सर्वथा सागरजले संतारः प्रविधीयताम् ॥५-६५-२७॥
तौ जाताश्वासौ राजपुत्रौ विदित्वा तच्चाभिज्ञानं राघवाय प्रदाय । देव्या चाख्यातं सर्वमेवानुपूर्व्याद् वाचा सम्पूर्णं वायुपुत्रः शशंस ॥५-६५-२८॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे चूडामणिप्रदानम् नाम पञ्चषष्ठितमः सर्गः ॥५-६५॥