हनूमदाद्यागमनम्

सुन्दरकाण्डः / हनूमदाद्यागमनम्

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे हनूमदाद्यागमनम् नाम चतुःषष्ठितमः सर्गः ॥५-६४॥
सुग्रीवेणैवमुक्तस्तु हृष्टो दधिमुखः कपिः । राघवं लक्ष्मणं चैव सुग्रीवं चाभ्यवादयत् ॥५-६४-१॥
स प्रणम्य च सुग्रीवं राघवौ च महाबलौ । वानरैः सहितः शूरैर्दिवमेवोत्पपात ह ॥५-६४-२॥
स यथैवागतः पूर्वं तथैव त्वरितं गतः । निपत्य गगनाद् भूमौ तद् वनं प्रविवेश ह ॥५-६४-३॥
स प्रविष्टो मधुवनं ददर्श हरियूथपान् । विमदानुद्धतान् सर्वान् मेहमानान् मधूदकम् ॥५-६४-४॥
स तानुपागमद् वीरो बद्ध्वा करपुटाञ्जलिम् । उवाच वचनं श्लक्ष्णमिदं हृष्टवदङ्गदम् ॥५-६४-५॥
सौम्य रोषो न कर्तव्यो यदेभिः परिवारणम् । अज्ञानाद् रक्षिभिः क्रोधाद् भवन्तः प्रतिषेधिताः ॥५-६४-६॥
श्रान्तो दूरादनुप्राप्तो भक्षयस्व स्वकं मधु । युवराजस्त्वमीशश्च वनस्यास्य महाबल ॥५-६४-७॥
मौर्ख्यात् पूर्वं कृतो रोषस्तद् भवान् क्षन्तुमर्हति । यथैव हि पिता तेऽभूत् पूर्वं हरिगणेश्वरः ॥५-६४-८॥
तथा त्वमपि सुग्रीवो नान्यस्तु हरिसत्तम । आख्यातं हि मया गत्वा पितृव्यस्य तवानघ ॥५-६४-९॥
इहोपयानं सर्वेषामेतेषां वनचारिणाम् । भवदागमनं श्रुत्वा सहैभिर्वनचारिभिः ॥५-६४-१०॥
प्रहृष्टो न तु रुष्टोऽसौ वनं श्रुत्वा प्रधर्षितम् । प्रहृष्टो मां पितृव्यस्ते सुग्रीवो वानरेश्वरः ॥५-६४-११॥
शीघ्रं प्रेषय सर्वांस्तानिति होवाच पार्थिवः । श्रुत्वा दधिमुखस्यैतद् वचनं श्लक्ष्णमङ्गदः ॥५-६४-१२॥
अब्रवीत् तान् हरिश्रेष्ठो वाक्यं वाक्यविशारदः । शङ्के श्रुतोऽयं वृत्तान्तो रामेण हरियूथपाः ॥५-६४-१३॥
अयं च हर्षादाख्याति तेन जानामि हेतुना । तत् क्षमं नेह नः स्थातुं कृते कार्ये परंतपाः ॥५-६४-१४॥
पीत्वा मधु यथाकामं विक्रान्ता वनचारिणः । किं शेषं गमनं तत्र सुग्रीवो यत्र वानरः ॥५-६४-१५॥
सर्वे यथा मां वक्ष्यन्ति समेत्य हरिपुङ्गवाः । तथास्मि कर्ता कर्तव्ये भवद्भिः परवानहम् ॥५-६४-१६॥
नाज्ञापयितुमीशोऽहं युवराजोऽस्मि यद्यपि । अयुक्तं कृतकर्माणो यूयं धर्षयितुं बलात् ॥५-६४-१७॥
ब्रुवतश्चाङ्गदस्यैवं श्रुत्वा वचनमुत्तमम् । प्रहृष्टमनसो वाक्यमिदमूचुर्वनौकसः ॥५-६४-१८॥
एवं वक्ष्यति को राजन् प्रभुः सन् वानरर्षभ । ऐश्वर्यमदमत्तो हि सर्वोऽहमिति मन्यते ॥५-६४-१९॥
तव चेदं सुसदृशं वाक्यं नान्यस्य कस्यचित् । सन्नतिर्हि तवाख्याति भविष्यच्छुभयोग्यताम् ॥५-६४-२०॥
सर्वे वयमपि प्राप्तास्तत्र गन्तुं कृतक्षणाः । स यत्र हरिवीराणां सुग्रीवः पतिरव्ययः ॥५-६४-२१॥
त्वया ह्यनुक्तैर्हरिभिर्नैव शक्यं पदात् पदम् । क्वचिद् गन्तुं हरिश्रेष्ठ ब्रूमः सत्यमिदं तु ते ॥५-६४-२२॥
एवं तु वदतां तेषामङ्गदः प्रत्यभाषत । साधु गच्छाम इत्युक्त्वा खमुत्पेतुर्महाबलाः ॥५-६४-२३॥
उत्पतन्तमनूत्पेतुः सर्वे ते हरियूथपाः । कृत्वाऽऽकाशं निराकाशं यन्त्रोत्क्षिप्ता इवोपलाः ॥५-६४-२४॥
अङ्गदं पुरतः कृत्वा हनूमन्तं च वानरम् । तेऽम्बरं सहसोत्पत्य वेगवन्तः प्लवङ्गमाः ॥५-६४-२५॥
विनदन्तो महानादं घना वातेरिता यथा । अङ्गदे समनुप्राप्ते सुग्रीवो वानरेश्वरः ॥५-६४-२६॥
उवाच शोकसंतप्तं रामं कमललोचनम् । समाश्वसिहि भद्रं ते दृष्टा देवी न संशयः ॥५-६४-२७॥
नागन्तुमिह शक्यं तैरतीतसमयैरिह । अङ्गदस्य प्रहर्षाच्च जानामि शुभदर्शन ॥५-६४-२८॥
न मत्सकाशमागच्छेत् कृत्ये हि विनिपातिते । युवराजो महाबाहुः प्लवतामङ्गदो वरः ॥५-६४-२९॥
यद्यप्यकृतकृत्यानामीदृशः स्यादुपक्रमः । भवेत् तु दीनवदनो भ्रान्तविप्लुतमानसः ॥५-६४-३०॥
पितृपैतामहं चैतत् पूर्वकैरभिरक्षितम् । न मे मधुवनं हन्याददृष्ट्वा जनकात्मजाम् ॥५-६४-३१॥
कौसल्या सुप्रजा राम समाश्वसिहि सुव्रत । दृष्टा देवी न संदेहो न चान्येन हनूमता ॥५-६४-३२॥
नह्यन्यः कर्मणो हेतुः साधनेऽस्य हनूमतः । हनूमतीह सिद्धिश्च मतिश्च मतिसत्तम ॥५-६४-३३॥
व्यवसायश्च शौर्यं च श्रुतं चापि प्रतिष्ठितम् । जाम्बवान् यत्र नेता स्यादङ्गदश्च हरीश्वरः ॥५-६४-३४॥
हनूमांश्चाप्यधिष्ठाता न तत्र गतिरन्यथा । मा भूश्चिन्तासमायुक्तः सम्प्रत्यमितविक्रम ॥५-६४-३५॥
यदा हि दर्पितोदग्राः संगताः काननौकसः । नैषामकृतकार्याणामीदृशः स्यादुपक्रमः ॥५-६४-३६॥
वनभङ्गेन जानामि मधूनां भक्षणेन च । ततः किलकिलाशब्दं शुश्रावासन्नमम्बरे ॥५-६४-३७॥
हनूमत्कर्मदृप्तानां नदतां काननौकसाम् । किष्किन्धामुपयातानां सिद्धिं कथयतामिव ॥५-६४-३८॥
ततः श्रुत्वा निनादं तं कपीनां कपिसत्तमः । आयताञ्चितलाङ्गूलः सोऽभवद्हृष्टमानसः ॥५-६४-३९॥
आजग्मुस्तेऽपि हरयो रामदर्शनकाङ्क्षिणः । अङ्गदं पुरतः कृत्वा हनूमन्तं च वानरम् ॥५-६४-४०॥
तेऽङ्गदप्रमुखा वीराः प्रहृष्टाश्च मुदान्विताः । निपेतुर्हरिराजस्य समीपे राघवस्य च ॥५-६४-४१॥
हनूमांश्च महाबाहुः प्रणम्य शिरसा ततः । नियतामक्षतां देवीं राघवाय न्यवेदयत् ॥५-६४-४२॥
दृष्टा देवीति हनुमद्वदनादमृतोपमम् । आकर्ण्य वचनं रामो हर्षमाप सलक्ष्मणः ॥५-६४-४३॥
निश्चितार्थं ततस्तस्मिन् सुग्रीवं पवनात्मजे । लक्ष्मणः प्रीतिमान् प्रीतं बहुमानादवैक्षत ॥५-६४-४४॥
प्रीत्या च परयोपेतो राघवः परवीरहा । बहुमानेन महता हनूमन्तमवैक्षत ॥५-६४-४५॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे हनूमदाद्यागमनम् नाम चतुःषष्ठितमः सर्गः ॥५-६४॥