सुग्रीवहर्षः

सुन्दरकाण्डः / सुग्रीवहर्षः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे सुग्रीवहर्षः नाम त्रिषष्ठितमः सर्गः ॥५-६३॥
ततो मूर्ध्ना निपतितं वानरं वानरर्षभः । दृष्ट्वैवोद्विग्नहृदयो वाक्यमेतदुवाच ह ॥५-६३-१॥
उत्तिष्ठोत्तिष्ठ कस्मात् त्वं पादयोः पतितो मम । अभयं ते प्रदास्यामि सत्यमेवाभिधीयताम् ॥५-६३-२॥
किं सम्भ्रमाद्धितं कृत्स्नं ब्रूहि यद् वक्तुमर्हसि । कच्चिन्मधुवने स्वस्ति श्रोतुमिच्छामि वानर ॥५-६३-३॥
स समाश्वासितस्तेन सुग्रीवेण महात्मना । उत्थाय स महाप्राज्ञो वाक्यं दधिमुखोऽब्रवीत् ॥५-६३-४॥
नैवर्क्षरजसा राजन् न त्वया न च वालिना । वनं निसृष्टपूर्वं ते नाशितं तत्तु वानरैः ॥५-६३-५॥
न्यवारयमहं सर्वान् सहैभिर्वनचारिभिः । अचिन्तयित्वा मां हृष्टा भक्षयन्ति पिबन्ति च ॥५-६३-६॥
एभिः प्रधर्षणायां च वारितं वनपालकैः । मामप्यचिन्तयन् देव भक्षयन्ति वनौकसः ॥५-६३-७॥
शिष्टमत्रापविध्यन्ति भक्षयन्ति तथापरे । निवार्यमाणास्ते सर्वे भ्रुकुटिं दर्शयन्ति हि ॥५-६३-८॥
इमे हि संरब्धतरास्तदा तैः सम्प्रधर्षिताः । निवार्यन्ते वनात् तस्मात् क्रुद्धैर्वानरपुङ्गवैः ॥५-६३-९॥
ततस्तैर्बहुभिर्वीरैर्वानरैर्वानरर्षभाः । संरक्तनयनैः क्रोधाद्धरयः सम्प्रधर्षिताः ॥५-६३-१०॥
पाणिभिर्निहताः केचित् केचिज्जानुभिराहताः । प्रकृष्टाश्च तदा कामं देवमार्गं च दर्शिताः ॥५-६३-११॥
एवमेते हताः शूरास्त्वयि तिष्ठति भर्तरि । कृत्स्नं मधुवनं चैव प्रकामं तैश्च भक्ष्यते ॥५-६३-१२॥
एवं विज्ञाप्यमानं तं सुग्रीवं वानरर्षभम् । अपृच्छत् तं महाप्राज्ञो लक्ष्मणः परवीरहा ॥५-६३-१३॥
किमयं वानरो राजन् वनपः प्रत्युपस्थितः । किं चार्थमभिनिर्दिश्य दुःखितो वाक्यमब्रवीत् ॥५-६३-१४॥
एवमुक्तस्तु सुग्रीवो लक्ष्मणेन महात्मना । लक्ष्मणं प्रत्युवाचेदं वाक्यं वाक्यविशारदः ॥५-६३-१५॥
आर्य लक्ष्मण सम्प्राह वीरो दधिमुखः कपिः । अङ्गदप्रमुखैर्वीरैर्भक्षितं मधु वानरैः ॥५-६३-१६॥
नैषामकृतकार्याणामीदृशः स्याद् व्यतिक्रमः । वनं यदभिपन्नास्ते साधितं कर्म तद् ध्रुवम् ॥५-६३-१७॥
वारयन्तो भृशं प्राप्ताः पाला जानुभिराहताः । तथा न गणितश्चायं कपिर्दधिमुखो बली ॥५-६३-१८॥
पतिर्मम वनस्यायमस्माभिः स्थापितः स्वयम् । दृष्टा देवी न संदेहो न चान्येन हनूमता ॥५-६३-१९॥
न ह्यन्यः साधने हेतुः कर्मणोऽस्य हनूमतः । कार्यसिद्धिर्हनुमति मतिश्च हरिपुङ्गवे ॥५-६३-२०॥
व्यवसायश्च वीर्यं च श्रुतं चापि प्रतिष्ठितम् । जाम्बवान् यत्र नेता स्यादङ्गदश्च महाबलः ॥५-६३-२१॥
हनूमांश्चाप्यधिष्ठाता न तत्र गतिरन्यथा । अङ्गदप्रमुखैर्वीरैर्हतं मधुवनं किल ॥५-६३-२२॥
विचित्य दक्षिणामाशामागतैर्हरिपुङ्गवैः । आगतैश्चाप्रधृष्यं तद्धतं मधुवनं हि तैः ॥५-६३-२३॥
धर्षितं च वनं कृत्स्नमुपयुक्तं तु वानरैः । पातिता वनपालास्ते तदा जानुभिराहताः ॥५-६३-२४॥
एतदर्थमयं प्राप्तो वक्तुं मधुरवागिह । नाम्ना दधिमुखो नाम हरिः प्रख्यातविक्रमः ॥५-६३-२५॥
दृष्टा सीता महाबाहो सौमित्रे पश्य तत्त्वतः । अभिगम्य यथा सर्वे पिबन्ति मधु वानराः ॥५-६३-२६॥
न चाप्यदृष्ट्वा वैदेहीं विश्रुताः पुरुषर्षभ । वनं दत्तवरं दिव्यं धर्षयेयुर्वनौकसः ॥५-६३-२७॥
ततः प्रहृष्टो धर्मात्मा लक्ष्मणः सहराघवः । श्रुत्वा कर्णसुखां वाणीं सुग्रीववदनाच्च्युताम् ॥५-६३-२८॥
प्राहृष्यत भृशं रामो लक्ष्मणश्च महायशाः । श्रुत्वा दधिमुखस्यैवं सुग्रीवस्तु प्रहृष्य च ॥५-६३-२९॥
वनपालं पुनर्वाक्यं सुग्रीवः प्रत्यभाषत । प्रीतोऽस्मि सोऽहं यद्भुक्तं वनं तैः कृतकर्मभिः ॥५-६३-३०॥
धर्षितं मर्षणीयं च चेष्टितं कृतकर्मणाम् । गच्छ शीघ्रं मधुवनं संरक्षस्व त्वमेव हि । शीघ्रं प्रेषय सर्वांस्तान् हनूमत्प्रमुखान् कपीन् ॥५-६३-३१॥
इच्छामि शीघ्रं हनुमत्प्रधानान्शाखामृगांस्तान् मृगराजदर्पान् । प्रष्टुं कृतार्थान् सह राघवाभ्यां श्रोतुं च सीताधिगमे प्रयत्नम् ॥५-६३-३२॥
प्रीतिस्फीताक्षौ सम्प्रहृष्टौ कुमारौ दृष्ट्वा सिद्धार्थौ वानराणां च राजा । अङ्गैः प्रहृष्टैः कार्यसिद्धिं विदित्वा बाह्वोरासन्नामतिमात्रं ननन्द ॥५-६३-३३॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे सुग्रीवहर्षः नाम त्रिषष्ठितमः सर्गः ॥५-६३॥