दधिमुखखिलीकारः

सुन्दरकाण्डः / दधिमुखखिलीकारः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे दधिमुखखिलीकारः नाम द्विषष्ठितमः सर्गः ॥५-६२॥
तानुवाच हरिश्रेष्ठो हनूमान् वानरर्षभः । अव्यग्रमनसो यूयं मधु सेवत वानराः ॥५-६२-१॥
अहमावर्जयिष्यामि युष्माकं परिपन्थिनः । श्रुत्वा हनूमतो वाक्यं हरीणां प्रवरोऽङ्गदः ॥५-६२-२॥
प्रत्युवाच प्रसन्नात्मा पिबन्तु हरयो मधु । अवश्यं कृतकार्यस्य वाक्यं हनुमतो मया ॥५-६२-३॥
अकार्यमपि कर्तव्यं किमङ्गं पुनरीदृशम् । अङ्गदस्य मुखाच्छ्रुत्वा वचनं वानरर्षभाः ॥५-६२-४॥
साधु साध्विति संहृष्टा वानराः प्रत्यपूजयन् । पूजयित्वाङ्गदं सर्वे वानरा वानरर्षभम् ॥५-६२-५॥
जग्मुर्मधुवनं यत्र नदीवेग इव द्रुमम् । ते प्रविष्टा मधुवनं पालानाक्रम्य शक्तितः ॥५-६२-६॥
अतिसर्गाच्च पटवो दृष्ट्वा श्रुत्वा च मैथिलीम् । पपुः सर्वे मधु तदा रसवत् फलमाददुः ॥५-६२-७॥
उत्पत्य च ततः सर्वे वनपालान् समागतान् । ते ताडयन्तः शतशः सक्ता मधुवने तदा ॥५-६२-८॥
मधूनि द्रोणमात्राणि बाहुभिः परिगृह्य ते । पिबन्ति कपयः केचित् सङ्घशस्तत्र हृष्टवत् ॥५-६२-९॥
घ्नन्ति स्म सहिताः सर्वे भक्षयन्ति तथापरे । केचित् पीत्वापविध्यन्ति मधूनि मधुपिङ्गलाः ॥५-६२-१०॥
मधूच्छिष्टेन केचिच्च जघ्नुरन्योन्यमुत्कटाः । अपरे वृक्षमूलेषु शाखा गृह्य व्यवस्थिताः ॥५-६२-११॥
अत्यर्थं च मदग्लानाः पर्णान्यास्तीर्य शेरते । उन्मत्तवेगाः प्लवगा मधुमत्ताश्च हृष्टवत् ॥५-६२-१२॥
क्षिपन्त्यपि तथान्योन्यं स्खलन्ति च तथापरे । केचित् क्ष्वेडान् प्रकुर्वन्ति केचित् कूजन्ति हृष्टवत् ॥५-६२-१३॥
हरयो मधुना मत्ताः केचित् सुप्ता महीतले । धृष्टाः केचिद्धसन्त्यन्ये केचित् कुर्वन्ति चेतरत् ॥५-६२-१४॥
कृत्वा केचिद् वदन्त्यन्ये केचिद् बुध्यन्ति चेतरत् । येऽप्यत्र मधुपालाः स्युः प्रेष्या दधिमुखस्य तु ॥५-६२-१५॥
तेऽपि तैर्वानरैर्भीमैः प्रतिषिद्धा दिशो गताः । जानुभिश्च प्रघृष्टाश्च देवमार्गं च दर्शिताः ॥५-६२-१६॥
अब्रुवन् परमोद्विग्ना गत्वा दधिमुखं वचः । हनूमता दत्तवरैर्हतं मधुवनं बलात् । वयं च जानुभिर्घृष्टा देवमार्गं च दर्शिताः ॥५-६२-१७॥
तदा दधिमुखः क्रुद्धो वनपस्तत्र वानरः । हतं मधुवनं श्रुत्वा सान्त्वयामास तान् हरीन् ॥५-६२-१८॥
एतागच्छत गच्छामो वानरानतिदर्पितान् । बलेनावारयिष्यामि प्रभुञ्जानान् मधूत्तमम् ॥५-६२-१९॥
श्रुत्वा दधिमुखस्येदं वचनं वानरर्षभाः । पुनर्वीरा मधुवनं तेनैव सहिता ययुः ॥५-६२-२०॥
मध्ये चैषां दधिमुखः सुप्रगृह्य महातरुम् । समभ्यधावन् वेगेन सर्वे ते च प्लवंगमाः ॥५-६२-२१॥
ते शिलाः पादपांश्चैव पाषाणानपि वानराः । गृहीत्वाभ्यागमन् क्रुद्धा यत्र ते कपिकुञ्जराः ॥५-६२-२२॥
बलान्निवारयन्तश्च आसेदुर्हरयो हरीन् । संदष्टौष्ठपुटाः क्रुद्धा भर्त्सयन्तो मुहुर्मुहुः ॥५-६२-२३॥
अथ दृष्ट्वा दधिमुखं क्रुद्धं वानरपुङ्गवाः । अभ्यधावन्त वेगेन हनुमत्प्रमुखास्तदा ॥५-६२-२४॥
सवृक्षं तं महाबाहुमापतन्तं महाबलम् । वेगवन्तं विजग्राह बाहुभ्यां कुपितोऽङ्गदः ॥५-६२-२५॥
मदान्धो न कृपां चक्रे आर्यकोऽयं ममेति सः । अथैनं निष्पिपेषाशु वेगेन वसुधातले ॥५-६२-२६॥
स भग्नबाहूरुमुखो विह्वलः शोणितोक्षितः । प्रमुमोह महावीरो मुहूर्तं कपिकुञ्जरः ॥५-६२-२७॥
स कथंचिद् विमुक्तस्तैर्वानरैर्वानरर्षभः । उवाचैकान्तमागत्य स्वान् भृत्यान् समुपागतान् ॥५-६२-२८॥
एतागच्छत गच्छामो भर्ता नो यत्र वानरः । सुग्रीवो विपुलग्रीवः सह रामेण तिष्ठति ॥५-६२-२९॥
सर्वं चैवाङ्गदे दोषं श्रावयिष्याम पार्थिवे । अमर्षी वचनं श्रुत्वा घातयिष्यति वानरान् ॥५-६२-३०॥
इष्टं मधुवनं ह्येतत् सुग्रीवस्य महात्मनः । पितृपैतामहं दिव्यं देवैरपि दुरासदम् ॥५-६२-३१॥
स वानरानिमान् सर्वान् मधुलुब्धान् गतायुषः । घातयिष्यति दण्डेन सुग्रीवः ससुहृज्जनान् ॥५-६२-३२॥
वध्या ह्येते दुरात्मानो नृपाज्ञापरिपन्थिनः । अमर्षप्रभवो रोषः सफलो मे भविष्यति ॥५-६२-३३॥
एवमुक्त्वा दधिमुखो वनपालान् महाबलः । जगाम सहसोत्पत्य वनपालैः समन्वितः ॥५-६२-३४॥
निमेषान्तरमात्रेण स हि प्राप्तो वनालयः । सहस्रांशुसुतो धीमान् सुग्रीवो यत्र वानरः ॥५-६२-३५॥
रामं च लक्ष्मणं चैव दृष्ट्वा सुग्रीवमेव च । समप्रतिष्ठां जगतीमाकाशान्निपपात ह ॥५-६२-३६॥
स निपत्य महावीरः सर्वैस्तैः परिवारितः । हरिर्दधिमुखः पालैः पालानां परमेश्वरः ॥५-६२-३७॥
स दीनवदनो भूत्वा कृत्वा शिरसि चाञ्जलिम् । सुग्रीवस्याशु तौ मूर्ध्ना चरणौ प्रत्यपीडयत् ॥५-६२-३८॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे दधिमुखखिलीकारः नाम द्विषष्ठितमः सर्गः ॥५-६२॥