मधुवनप्रवेशः

सुन्दरकाण्डः / मधुवनप्रवेशः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे मधुवनप्रवेशः नाम एकषष्ठितमः सर्गः ॥५-६१॥
ततो जाम्बवतो वाक्यमगृह्णन्त वनौकसः । अङ्गदप्रमुखा वीरा हनूमांश्च महाकपिः ॥५-६१-१॥
प्रीतिमन्तस्ततः सर्वे वायुपुत्रपुरःसराः । महेन्द्राग्रात् समुत्पत्य पुप्लुवुः प्लवगर्षभाः ॥५-६१-२॥
मेरुमन्दरसंकाशा मत्ता इव महागजाः । छादयन्त इवाकाशं महाकाया महाबलाः ॥५-६१-३॥
सभाज्यमानं भूतैस्तमात्मवन्तं महाबलम् । हनूमन्तं महावेगं वहन्त इव दृष्टिभिः ॥५-६१-४॥
राघवे चार्थनिर्वृत्तिं कर्तुं च परमं यशः । समाधाय समृद्धार्थाः कर्मसिद्धिभिरुन्नताः ॥५-६१-५॥
प्रियाख्यानोन्मुखाः सर्वे सर्वे युद्धाभिनन्दिनः । सर्वे रामप्रतीकारे निश्चितार्था मनस्विनः ॥५-६१-६॥
प्लवमानाः खमाप्लुत्य ततस्ते काननौकसः । नन्दनोपममासेदुर्वनं द्रुमशतायुतम् ॥५-६१-७॥
यत् तन्मधुवनं नाम सुग्रीवस्याभिरक्षितम् । अधृष्यं सर्वभूतानां सर्वभूतमनोहरम् ॥५-६१-८॥
यद् रक्षति महावीरः सदा दधिमुखः कपिः । मातुलः कपिमुख्यस्य सुग्रीवस्य महात्मनः ॥५-६१-९॥
ते तद् वनमुपागम्य बभूवुः परमोत्कटाः । वानरा वानरेन्द्रस्य मनःकान्तं महावनम् ॥५-६१-१०॥
ततस्ते वानरा हृष्टा दृष्ट्वा मधुवनं महत् । कुमारमभ्ययाचन्त मधूनि मधुपिङ्गलाः ॥५-६१-११॥
ततः कुमारस्तान् वृद्धाञ्जाम्बवत्प्रमुखान् कपीन् । अनुमान्य ददौ तेषां निसर्गं मधुभक्षणे ॥५-६१-१२॥
ते निसृष्टाः कुमारेण धीमता वालिसूनुना । हरयः समपद्यन्त द्रुमान् मधुकराकुलान् ॥५-६१-१३॥
भक्षयन्तः सुगन्धीनि मूलानि च फलानि च । जग्मुः प्रहर्षं ते सर्वे बभूवुश्च मदोत्कटाः ॥५-६१-१४॥
ततश्चानुमताः सर्वे सुसंहृष्टा वनौकसः । मुदिताश्च ततस्ते च प्रनृत्यन्ति ततस्ततः ॥५-६१-१५॥
गायन्ति केचित् प्रहसन्ति केचिन्नृत्यन्ति केचित् प्रणमन्ति केचित् । पतन्ति केचित् प्रचरन्ति केचित् प्लवन्ति केचित् प्रलपन्ति केचित् ॥५-६१-१६॥
परस्परं केचिदुपाश्रयन्ति परस्परं केचिदतिब्रुवन्ति । द्रुमाद् द्रुमं केचिदभिद्रवन्ति क्षितौ नगाग्रान्निपतन्ति केचित् ॥५-६१-१७॥
महीतलात् केचिदुदीर्णवेगा महाद्रुमाग्राण्यभिसम्पतन्ति । गायन्तमन्यः प्रहसन्नुपैति हसन्तमन्यः प्ररुदन्नुपैति ॥५-६१-१८॥
तुदन्तमन्यः प्रणदन्नुपैति समाकुलं तत् कपिसैन्यमासीत् । न चात्र कश्चिन्न बभूव मत्तो न चात्र कश्चिन्न बभूव दृप्तः ॥५-६१-१९॥
ततो वनं तत् परिभक्ष्यमाणं द्रुमांश्च विध्वंसितपत्रपुष्पान् । समीक्ष्य कोपाद् दधिवक्त्रनामा निवारयामास कपिः कपींस्तान् ॥५-६१-२०॥
स तैः प्रवृद्धैः परिभर्त्स्यमानो वनस्य गोप्ता हरिवृद्धवीरः । चकार भूयो मतिमुग्रतेजा वनस्य रक्षां प्रति वानरेभ्यः ॥५-६१-२१॥
उवाच कांश्चित् परुषाण्यभीतमसक्तमन्यांश्च तलैर्जघान । समेत्य कैश्चित् कलहं चकार तथैव साम्नोपजगाम कांश्चित् ॥५-६१-२२॥
स तैर्मदादप्रतिवार्यवेगैर्बलाच्च तेन प्रतिवार्यमाणैः । प्रधर्षणे त्यक्तभयैः समेत्य प्रकृष्यते चाप्यनवेक्ष्य दोषम् ॥५-६१-२३॥
नखैस्तुदन्तो दशनैर्दशन्तस्तलैश्च पादैश्च समापयन्तः । मदात् कपिं ते कपयः समन्तान्महावनं निर्विषयं च चक्रुः ॥५-६१-२४॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे मधुवनप्रवेशः नाम एकषष्ठितमः सर्गः ॥५-६१॥