अङ्गदजाम्बवत्संवादः
सुन्दरकाण्डः / अङ्गदजाम्बवत्संवादः
Script
Translation
Previous
अनन्तरकार्यप्ररोचनम्
Next
मधुवनप्रवेशः
अथ श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे अङ्गदजाम्बवत्संवादः नाम षष्ठितमः सर्गः ॥५-६०॥
तस्य तद् वचनं श्रुत्वा वालिसूनुरभाषत ।
अश्विपुत्रौ महावेगौ बलवन्तौ प्लवंगमौ ॥५-६०-१॥
पितामहवरोत्सेकात् परमं दर्पमास्थितौ ।
अश्विनोर्माननार्थं हि सर्वलोकपितामहः ॥५-६०-२॥
सर्वावध्यत्वमतुलमनयोर्दत्तवान् पुरा ।
वरोत्सेकेन मत्तौ च प्रमथ्य महतीं चमूम् ॥५-६०-३॥
सुराणाममृतं वीरौ पीतवन्तौ महाबलौ ।
एतावेव हि संक्रुद्धौ सवाजिरथकुञ्जराम् ॥५-६०-४॥
लङ्कां नाशयितुं शक्तौ सर्वे तिष्ठन्तु वानराः ।
अहमेकोऽपि पर्याप्तः सराक्षसगणां पुरीम् ॥५-६०-५॥
तां लङ्कां तरसा हन्तुं रावणं च महाबलम् ।
किं पुनः सहितो वीरैर्बलवद्भिः कृतात्मभिः ॥५-६०-६॥
कृतास्त्रैः प्लवगैः शक्तैर्भवद्भिर्विजयैषिभिः ।
वायुसूनोर्बलेनैव दग्धा लङ्केति नः श्रुतम् ॥५-६०-७॥
दृष्टा देवी न चानीता इति तत्र निवेदितुम् ।
न युक्तमिव पश्यामि भवद्भिः ख्यातपौरुषैः ॥५-६०-८॥
नहि वः प्लवने कश्चिन्नापि कश्चित् पराक्रमे ।
तुल्यः सामरदैत्येषु लोकेषु हरिसत्तमाः ॥५-६०-९॥
जित्वा लङ्कां सरक्षौघां हत्वा तं रावणं रणे ।
सीतामादाय गच्छामः सिद्धार्था हृष्टमानसाः ॥५-६०-१०॥
तेष्वेवं हतवीरेषु राक्षसेषु हनूमता ।
किमन्यदत्र कर्तव्यं गृहीत्वा याम जानकीम् ॥५-६०-११॥
रामलक्ष्मणयोर्मध्ये न्यस्याम जनकात्मजाम् ।
किं व्यलीकैस्तु तान् सर्वान् वानरान् वानरर्षभान् ॥५-६०-१२॥
वयमेव हि गत्वा तान् हत्वा राक्षसपुङ्गवान् ।
राघवं द्रष्टुमर्हामः सुग्रीवं सहलक्ष्मणम् ॥५-६०-१३॥
तमेवं कृतसंकल्पं जाम्बवान् हरिसत्तमः ।
उवाच परमप्रीतो वाक्यमर्थवदर्थवित् ॥५-६०-१४॥
नैषा बुद्धिर्महाबुद्धे यद् ब्रवीषि महाकपे ।
विचेतुं वयमाज्ञप्ता दक्षिणां दिशमुत्तमाम् ॥५-६०-१५॥
नानेतुं कपिराजेन नैव रामेण धीमता ।
कथंचिन्निर्जितां सीतामस्माभिर्नाभिरोचयेत् ॥५-६०-१६॥
राघवो नृपशार्दूलः कुलं व्यपदिशन् स्वकम् ।
प्रतिज्ञाय स्वयं राजा सीताविजयमग्रतः ॥५-६०-१७॥
सर्वेषां कपिमुख्यानां कथं मिथ्या करिष्यति ।
विफलं कर्म च कृतं भवेत् तुष्टिर्न तस्य च ॥५-६०-१८॥
वृथा च दर्शितं वीर्यं भवेद् वानरपुङ्गवाः ।
तस्माद् गच्छाम वै सर्वे यत्र रामः सलक्ष्मणः ।
सुग्रीवश्च महातेजाः कार्यस्यास्य निवेदने ॥५-६०-१९॥
न तावदेषा मतिरक्षमा नो यथा भवान् पश्यति राजपुत्र ।
यथा तु रामस्य मतिर्निविष्टा तथा भवान् पश्यतु कार्यसिद्धिम् ॥५-६०-२०॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे अङ्गदजाम्बवत्संवादः नाम षष्ठितमः सर्गः ॥५-६०॥
Previous
अनन्तरकार्यप्ररोचनम्
Next
मधुवनप्रवेशः