अनन्तरकार्यप्ररोचनम्

सुन्दरकाण्डः / अनन्तरकार्यप्ररोचनम्

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे अनन्तरकार्यप्ररोचनम् नाम एकोनषष्ठितमः सर्गः ॥५-५९॥
एतदाख्याय तत् सर्वं हनूमान् मारुतात्मजः । भूयः समुपचक्राम वचनं वक्तुमुत्तरम् ॥५-५९-१॥
सफलो राघवोद्योगः सुग्रीवस्य च सम्भ्रमः । शीलमासाद्य सीताया मम च प्रीणितं मनः ॥५-५९-२॥
आर्यायाः सदृशं शीलं सीतायाः प्लवगर्षभाः । तपसा धारयेल्लोकान् क्रुद्धा वा निर्दहेदपि ॥५-५९-३॥
सर्वथातिप्रकृष्टोऽसौ रावणो राक्षसेश्वरः । यस्य तां स्पृशतो गात्रं तपसा न विनाशितम् ॥५-५९-४॥
न तदग्निशिखा कुर्यात् संस्पृष्टा पाणिना सती । जनकस्य सुता कुर्याद् यत् क्रोधकलुषीकृता ॥५-५९-५॥
जाम्बवत्प्रमुखान् सर्वाननुज्ञाप्य महाकपीन् । अस्मिन् नेवंगते कार्ये भवतां च निवेदिते । न्याय्यं स्म सह वैदेह्या द्रष्टुं तौ पार्थिवात्मजौ ॥५-५९-६॥
अहमेकोऽपि पर्याप्तः सराक्षसगणां पुरीम् । तां लङ्कां तरसा हन्तुं रावणं च महाबलम् ॥५-५९-७॥
किं पुनः सहितो वीरैर्बलवद्भिः कृतात्मभिः । कृतास्त्रैः प्लवगैः शक्तैर्भवद्भिर्विजयैषिभिः ॥५-५९-८॥
अहं तु रावणं युद्धे ससैन्यं सपुरःसरम् । सहपुत्रं वधिष्यामि सहोदरयुतं युधि ॥५-५९-९॥
ब्राह्ममस्त्रं च रौद्रं च वायव्यं वारुणं तथा । यदि शक्रजितोऽस्त्राणि दुर्निरीक्ष्याणि संयुगे । तान्यहं निहनिष्यामि विधमिष्यामि राक्षसान् ॥५-५९-१०॥
भवतामभ्यनुज्ञातो विक्रमो मे रुणद्धि तम् । मयातुला विसृष्टा हि शैलवृष्टिर्निरन्तरा ॥५-५९-११॥
देवानपि रणे हन्यात् किं पुनस्तान् निशाचरान् । भवतामननुज्ञातो विक्रमो मे रुणद्धि माम् ॥५-५९-१२॥
सागरोऽप्यतियाद् वेलां मन्दरः प्रचलेदपि । न जाम्बवन्तं समरे कम्पयेदरिवाहिनी ॥५-५९-१३॥
सर्वराक्षससङ्घानां राक्षसा ये च पूर्वजाः । अलमेकोऽपि नाशाय वीरो वालिसुतः कपिः ॥५-५९-१४॥
प्लवगस्योरुवेगेन नीलस्य च महात्मनः । मन्दरोऽप्यवशीर्येत किं पुनर्युधि राक्षसाः ॥५-५९-१५॥
सदेवासुरयक्षेषु गन्धर्वोरगपक्षिषु । मैन्दस्य प्रतियोद्धारं शंसत द्विविदस्य वा ॥५-५९-१६॥
अश्विपुत्रौ महावेगावेतौ प्लवगसत्तमौ । एतयोः प्रतियोद्धारं न पश्यामि रणाजिरे ॥५-५९-१७॥
मयैव निहता लङ्का दग्धा भस्मीकृता पुरी । राजमार्गेषु सर्वेषु नाम विश्रावितं मया ॥५-५९-१८॥
जयत्यतिबलो रामो लक्ष्मणश्च महाबलः । राजा जयति सुग्रीवो राघवेणाभिपालितः ॥५-५९-१९॥
अहं कोसलराजस्य दासः पवनसम्भवः । हनूमानिति सर्वत्र नाम विश्रावितं मया ॥५-५९-२०॥
अशोकवनिकामध्ये रावणस्य दुरात्मनः । अधस्ताच्छिंशपामूले साध्वी करुणमास्थिता ॥५-५९-२१॥
राक्षसीभिः परिवृता शोकसंतापकर्शिता । मेघरेखापरिवृता चन्द्ररेखेव निष्प्रभा ॥५-५९-२२॥
अचिन्तयन्ती वैदेही रावणं बलदर्पितम् । पतिव्रता च सुश्रोणी अवष्टब्धा च जानकी ॥५-५९-२३॥
अनुरक्ता हि वैदेही रामे सर्वात्मना शुभा । अनन्यचित्ता रामेण पौलोमीव पुरन्दरे ॥५-५९-२४॥
तदेकवासःसंवीता रजोध्वस्ता तथैव च । सा मया राक्षसीमध्ये तर्ज्यमाना मुहुर्मुहुः ॥५-५९-२५॥
राक्षसीभिर्विरूपाभिर्दृष्टा हि प्रमदावने । एकवेणीधरा दीना भर्तृचिन्तापरायणा ॥५-५९-२६॥
अधःशय्या विवर्णाङ्गी पद्मिनीव हिमोदये । रावणाद् विनिवृत्तार्था मर्तव्यकृतनिश्चया ॥५-५९-२७॥
कथंचिन्मृगशावाक्षी विश्वासमुपपादिता । ततः सम्भाषिता चैव सर्वमर्थं प्रकाशिता ॥५-५९-२८॥
रामसुग्रीवसख्यं च श्रुत्वा प्रीतिमुपागता । नियतः समुदाचारो भक्तिर्भर्तरि चोत्तमा ॥५-५९-२९॥
यन्न हन्ति दशग्रीवं स महात्मा दशाननः । निमित्तमात्रं रामस्तु वधे तस्य भविष्यति ॥५-५९-३०॥
सा प्रकृत्यैव तन्वङ्गी तद्वियोगाच्च कर्शिता । प्रतिपत्पाठशीलस्य विद्येव तनुतां गता ॥५-५९-३१॥
एवमास्ते महाभागा सीता शोकपरायणा । यदत्र प्रतिकर्तव्यं तत् सर्वमुपकल्प्यताम् ॥५-५९-३२॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे अनन्तरकार्यप्ररोचनम् नाम एकोनषष्ठितमः सर्गः ॥५-५९॥