हनूमद्वृत्तानुकथनम्
सुन्दरकाण्डः / हनूमद्वृत्तानुकथनम्
Script
Translation
Previous
हनूमत्प्रत्यागमनम्
Next
अनन्तरकार्यप्ररोचनम्
अथ श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे हनूमद्वृत्तानुकथनम् नाम अष्टपञ्चाशः सर्गः ॥५-५८॥
ततस्तस्य गिरेः शृङ्गे महेन्द्रस्य महाबलाः ।
हनुमत्प्रमुखाः प्रीतिं हरयो जग्मुरुत्तमाम् ॥५-५८-१॥
प्रीतिमत्सूपविष्टेषु वानरेषु महात्मसु ।
तं ततः प्रतिसंहृष्टः प्रीतियुक्तं महाकपिम् ॥५-५८-२॥
जाम्बवान् कार्यवृत्तान्तमपृच्छदनिलात्मजम् ।
कथं दृष्टा त्वया देवी कथं वा तत्र वर्तते ॥५-५८-३॥
तस्यां चापि कथं वृत्तः क्रूरकर्मा दशाननः ।
तत्त्वतः सर्वमेतन्नः प्रब्रूहि त्वं महाकपे ॥५-५८-४॥
सम्मार्गिता कथं देवी किं च सा प्रत्यभाषत ।
श्रुतार्थाश्चिन्तयिष्यामो भूयः कार्यविनिश्चयम् ॥५-५८-५॥
यश्चार्थस्तत्र वक्तव्यो गतैरस्माभिरात्मवान् ।
रक्षितव्यं च यत्तत्र तद् भवान् व्याकरोतु नः ॥५-५८-६॥
स नियुक्तस्ततस्तेन सम्प्रहृष्टतनूरुहः ।
नमस्यन् शिरसा देव्यै सीतायै प्रत्यभाषत ॥५-५८-७॥
प्रत्यक्षमेव भवतां महेन्द्राग्रात् खमाप्लुतः ।
उदधेर्दक्षिणं पारं काङ्क्षमाणः समाहितः ॥५-५८-८॥
गच्छतश्च हि मे घोरं विघ्नरूपमिवाभवत् ।
काञ्चनं शिखरं दिव्यं पश्यामि सुमनोहरम् ॥५-५८-९॥
स्थितं पन्थानमावृत्य मेने विघ्नं च तं नगम् ।
उपसंगम्य तं दिव्यं काञ्चनं नगमुत्तमम् ॥५-५८-१०॥
कृता मे मनसा बुद्धिर्भेत्तव्योऽयं मयेति च ।
प्रहतस्य मया तस्य लाङ्गूलेन महागिरेः ॥५-५८-११॥
शिखरं सूर्यसंकाशं व्यशीर्यत सहस्रधा ।
व्यवसायं च तं बुद्ध्वा स होवाच महागिरिः ॥५-५८-१२॥
पुत्रेति मधुरां वाणीं मनः प्रह्लादयन्निव ।
पितृव्यं चापि मां विद्धि सखायं मातरिश्वनः ॥५-५८-१३॥
मैनाकमिति विख्यातं निवसन्तं महोदधौ ।
पक्षवन्तः पुरा पुत्र बभूवुः पर्वतोत्तमाः ॥५-५८-१४॥
छन्दतः पृथिवीं चेरुर्बाधमानाः समन्ततः ।
श्रुत्वा नगानां चरितं महेन्द्रः पाकशासनः ॥५-५८-१५॥
वज्रेण भगवान् पक्षौ चिच्छेदैषां सहस्रशः ।
अहं तु मोचितस्तस्मात् तव पित्रा महात्मना ॥५-५८-१६॥
मारुतेन तदा वत्स प्रक्षिप्तो वरुणालये ।
राघवस्य मया साह्ये वर्तितव्यमरिंदम ॥५-५८-१७॥
रामो धर्मभृतां श्रेष्ठो महेन्द्रसमविक्रमः ।
एतच्छ्रुत्वा मया तस्य मैनाकस्य महात्मनः ॥५-५८-१८॥
कार्यमावेद्य च गिरेरुद्धतं वै मनो मम ।
तेन चाहमनुज्ञातो मैनाकेन महात्मना ॥५-५८-१९॥
स चाप्यन्तर्हितः शैलो मानुषेण वपुष्मता ।
शरीरेण महाशैलः शैलेन च महोदधौ ॥५-५८-२०॥
उत्तमं जवमास्थाय शेषमध्वानमास्थितः ।
ततोऽहं सुचिरं कालं जवेनाभ्यगमं पथि ॥५-५८-२१॥
ततः पश्याम्यहं देवीं सुरसां नागमातरम् ।
समुद्रमध्ये सा देवी वचनं चेदमब्रवीत् ॥५-५८-२२॥
मम भक्ष्यः प्रदिष्टस्त्वममरैर्हरिसत्तम ।
ततस्त्वां भक्षयिष्यामि विहितस्त्वं हि मे सुरैः ॥५-५८-२३॥
एवमुक्तः सुरसया प्राञ्जलिः प्रणतः स्थितः ।
विवर्णवदनो भूत्वा वाक्यं चेदमुदीरयम् ॥५-५८-२४॥
रामो दाशरथिः श्रीमान् प्रविष्टो दण्डकावनम् ।
लक्ष्मणेन सह भ्रात्रा सीतया च परंतपः ॥५-५८-२५॥
तस्य सीता हृता भार्या रावणेन दुरात्मना ।
तस्याः सकाशं दूतोऽहं गमिष्ये रामशासनात् ॥५-५८-२६॥
कर्तुमर्हसि रामस्य साहाय्यं विषये सती ।
अथवा मैथिलीं दृष्ट्वा रामं चाक्लिष्टकारिणम् ॥५-५८-२७॥
आगमिष्यामि ते वक्त्रं सत्यं प्रतिशृणोमि ते ।
एवमुक्ता मया सा तु सुरसा कामरूपिणी ॥५-५८-२८॥
अब्रवीन्नातिवर्तेत कश्चिदेष वरो मम ।
एवमुक्तः सुरसया दशयोजनमायतः ॥५-५८-२९॥
ततोऽर्धगुणविस्तारो बभूवाहं क्षणेन तु ।
मत्प्रमाणाधिकं चैव व्यादितं तु मुखं तया ॥५-५८-३०॥
तद् दृष्ट्वा व्यादितं त्वास्यं ह्रस्वं ह्यकरवं पुनः ।
तस्मिन् मुहूर्ते च पुनर्बभूवाङ्गुष्ठसम्मितः ॥५-५८-३१॥
अभिपत्याशु तद्वक्त्रं निर्गतोऽहं ततः क्षणात् ।
अब्रवीत् सुरसा देवी स्वेन रूपेण मां पुनः ॥५-५८-३२॥
अर्थसिद्धौ हरिश्रेष्ठ गच्छ सौम्य यथासुखम् ।
समानय च वैदेहीं राघवेण महात्मना ॥५-५८-३३॥
सुखी भव महाबाहो प्रीतास्मि तव वानर ।
ततोऽहं साधुसाध्वीति सर्वभूतैः प्रशंसितः ॥५-५८-३४॥
ततोऽन्तरिक्षं विपुलं प्लुतोऽहं गरुडो यथा ।
छाया मे निगृहीता च न च पश्यामि किंचन ॥५-५८-३५॥
सोऽहं विगतवेगस्तु दिशो दश विलोकयन् ।
न किंचित् तत्र पश्यामि येन मे विहता गतिः ॥५-५८-३६॥
अथ मे बुद्धिरुत्पन्ना किंनाम गमने मम ।
ईदृशो विघ्न उत्पन्नो रूपमत्र न दृश्यते ॥५-५८-३७॥
अधोभागे तु मे दृष्टिः शोचतः पतिता तदा ।
तत्राद्राक्षमहं भीमां राक्षसीं सलिलेशयाम् ॥५-५८-३८॥
प्रहस्य च महानादमुक्तोऽहं भीमया तया ।
अवस्थितमसम्भ्रान्तमिदं वाक्यमशोभनम् ॥५-५८-३९॥
क्वासि गन्ता महाकाय क्षुधिताया ममेप्सितः ।
भक्षः प्रीणय मे देहं चिरमाहारवर्जितम् ॥५-५८-४०॥
बाढमित्येव तां वाणीं प्रत्यगृह्णामहं ततः ।
आस्यप्रमाणादधिकं तस्याः कायमपूरयम् ॥५-५८-४१॥
तस्याश्चास्यं महद् भीमं वर्धते मम भक्षणे ।
न तु मां सा नु बुबुधे मम वा विकृतं कृतम् ॥५-५८-४२॥
ततोऽहं विपुलं रूपं संक्षिप्य निमिषान्तरात् ।
तस्या हृदयमादाय प्रपतामि नभःस्थलम् ॥५-५८-४३॥
सा विसृष्टभुजा भीमा पपात लवणाम्भसि ।
मया पर्वतसंकाशा निकृत्तहृदया सती ॥५-५८-४४॥
शृणोमि खगतानां च वाचः सौम्या महात्मनाम् ।
राक्षसी सिंहिका भीमा क्षिप्रं हनुमता हता ॥५-५८-४५॥
तां हत्वा पुनरेवाहं कृत्यमात्ययिकं स्मरन् ।
गत्वा च महदध्वानं पश्यामि नगमण्डितम् ॥५-५८-४६॥
दक्षिणं तीरमुदधेर्लङ्का यत्र गता पुरी ।
अस्तं दिनकरे याते रक्षसां निलयं पुरीम् ॥५-५८-४७॥
प्रविष्टोऽहमविज्ञातो रक्षोभिर्भीमविक्रमैः ।
तत्र प्रविशतश्चापि कल्पान्तघनसप्रभा ॥५-५८-४८॥
अट्टहासं विमुञ्चन्ती नारी काप्युत्थिता पुरः ।
जिघांसन्तीं ततस्तां तु ज्वलदग्निशिरोरुहाम् ॥५-५८-४९॥
सव्यमुष्टिप्रहारेण पराजित्य सुभैरवाम् ।
प्रदोषकाले प्रविशं भीतयाहं तयोदितः ॥५-५८-५०॥
अहं लङ्कापुरी वीर निर्जिता विक्रमेण ते ।
यस्मात् तस्माद् विजेतासि सर्वरक्षांस्यशेषतः ॥५-५८-५१॥
तत्राहं सर्वरात्रं तु विचरञ्जनकात्मजाम् ।
रावणान्तःपुरगतो न चापश्यं सुमध्यमाम् ॥५-५८-५२॥
ततः सीतामपश्यंस्तु रावणस्य निवेशने ।
शोकसागरमासाद्य न पारमुपलक्षये ॥५-५८-५३॥
शोचता च मया दृष्टं प्राकारेणाभिसंवृतम् ।
काञ्चनेन विकृष्टेन गृहोपवनमुत्तमम् ॥५-५८-५४॥
सप्राकारमवप्लुत्य पश्यामि बहुपादपम् ।
अशोकवनिकामध्ये शिंशपापादपो महान् ॥५-५८-५५॥
तमारुह्य च पश्यामि काञ्चनं कदलीवनम् ।
अदूराच्छिंशपावृक्षात् पश्यामि वरवर्णिनीम् ॥५-५८-५६॥
श्यामां कमलपत्राक्षीमुपवासकृशाननाम् ।
तदेकवासःसंवीतां रजोध्वस्तशिरोरुहाम् ॥५-५८-५७॥
शोकसंतापदीनाङ्गीं सीतां भर्तृहिते स्थिताम् ।
राक्षसीभिर्विरूपाभिः क्रूराभिरभिसंवृताम् ॥५-५८-५८॥
मांसशोणितभक्ष्याभिर्व्याघ्रीभिर्हरिणीं यथा ।
सा मया राक्षसीमध्ये तर्ज्यमाना मुहुर्मुहुः ॥५-५८-५९॥
एकवेणीधरा दीना भर्तृचिन्तापरायणा ।
भूमिशय्या विवर्णाङ्गी पद्मिनीव हिमागमे ॥५-५८-६०॥
रावणाद् विनिवृत्तार्था मर्तव्ये कृतनिश्चया ।
कथंचिन्मृगशावाक्षी तूर्णमासादिता मया ॥५-५८-६१॥
तां दृष्ट्वा तादृशीं नारीं रामपत्नीं यशस्विनीम् ।
तत्रैव शिंशपावृक्षे पश्यन्नहमवस्थितः ॥५-५८-६२॥
ततो हलहलाशब्दं काञ्चीनूपुरमिश्रितम् ।
शृणोम्यधिकगम्भीरं रावणस्य निवेशने ॥५-५८-६३॥
ततोऽहं परमोद्विग्नः स्वरूपं प्रत्यसंहरम् ।
अहं च शिंशपावृक्षे पक्षीव गहने स्थितः ॥५-५८-६४॥
ततो रावणदाराश्च रावणश्च महाबलः ।
तं देशमनुसम्प्राप्तो यत्र सीताभवत् स्थिता ॥५-५८-६५॥
तं दृष्ट्वाथ वरारोहा सीता रक्षोगणेश्वरम् ।
संकुच्योरू स्तनौ पीनौ बाहुभ्यां परिरभ्य च ॥५-५८-६६॥
वित्रस्तां परमोद्विग्नां वीक्ष्यमाणामितस्ततः ।
त्राणं कंचिदपश्यन्तीं वेपमानां तपस्विनीम् ॥५-५८-६७॥
तामुवाच दशग्रीवः सीतां परमदुःखिताम् ।
अवाक्शिराः प्रपतितो बहुमन्यस्व मामिति ॥५-५८-६८॥
यदि चेत्त्वं तु मां दर्पान्नाभिनन्दसि गर्विते ।
द्विमासानन्तरं सीते पास्यामि रुधिरं तव ॥५-५८-६९॥
एतच्छ्रुत्वा वचस्तस्य रावणस्य दुरात्मनः ।
उवाच परमक्रुद्धा सीता वचनमुत्तमम् ॥५-५८-७०॥
राक्षसाधम रामस्य भार्याममिततेजसः ।
इक्ष्वाकुवंशनाथस्य स्नुषां दशरथस्य च ॥५-५८-७१॥
अवाच्यं वदतो जिह्वा कथं न पतिता तव ।
किंस्विद्वीर्य तवानार्य यो मां भर्तुरसंनिधौ ॥५-५८-७२॥
अपहृत्यागतः पाप तेनादृष्टो महात्मना ।
न त्वं रामस्य सदृशो दास्येऽप्यस्य न युज्यसे ॥५-५८-७३॥
अजेयः सत्यवाक् शूरो रणश्लाघी च राघवः ।
जानक्या परुषं वाक्यमेवमुक्तो दशाननः ॥५-५८-७४॥
जज्वाल सहसा कोपाच्चितास्थ इव पावकः ।
विवृत्य नयने क्रूरे मुष्टिमुद्यम्य दक्षिणम् ॥५-५८-७५॥
मैथिलीं हन्तुमारब्धः स्त्रीभिर्हाहाकृतं तदा ।
स्त्रीणां मध्यात् समुत्पत्य तस्य भार्या दुरात्मनः ॥५-५८-७६॥
वरा मन्दोदरी नाम तया स प्रतिषेधितः ।
उक्तश्च मधुरां वाणीं तया स मदनार्दितः ॥५-५८-७७॥
सीतया तव किं कार्यं महेन्द्रसमविक्रम ।
मया सह रमस्वाद्य मद्विशिष्टा न जानकी ॥५-५८-७८॥
देवगन्धर्वकन्याभिर्यक्षकन्याभिरेव च ।
सार्धं प्रभो रमस्वेति सीतया किं करिष्यसि ॥५-५८-७९॥
ततस्ताभिः समेताभिर्नारीभिः स महाबलः ।
उत्थाप्य सहसा नीतो भवनं स्वं निशाचरः ॥५-५८-८०॥
याते तस्मिन् दशग्रीवे राक्षस्यो विकृताननाः ।
सीतां निर्भर्त्सयामासुर्वाक्यैः क्रूरैः सुदारुणैः ॥५-५८-८१॥
तृणवद् भाषितं तासां गणयामास जानकी ।
गर्जितं च तथा तासां सीतां प्राप्य निरर्थकम् ॥५-५८-८२॥
वृथा गर्जितनिश्चेष्टा राक्षस्यः पिशिताशनाः ।
रावणाय शशंसुस्ताः सीताव्यवसितं महत् ॥५-५८-८३॥
ततस्ताः सहिताः सर्वा विहताशा निरुद्यमाः ।
परिक्लिश्य समस्तास्ता निद्रावशमुपागताः ॥५-५८-८४॥
तासु चैव प्रसुप्तासु सीता भर्तृहिते रता ।
विलप्य करुणं दीना प्रशुशोच सुदुःखिता ॥५-५८-८५॥
तासां मध्यात् समुत्थाय त्रिजटा वाक्यमब्रवीत् ।
आत्मानं खादत क्षिप्रं न सीतामसितेक्षणाम् ॥५-५८-८६॥
जनकस्यात्मजां साध्वीं स्नुषां दशरथस्य च ।
स्वप्नो ह्यद्य मया दृष्टो दारुणो रोमहर्षणः ॥५-५८-८७॥
रक्षसां च विनाशाय भर्तुरस्या जयाय च ।
अलमस्मान् परित्रातुं राघवाद् राक्षसीगणम् ॥५-५८-८८॥
अभियाचाम वैदेहीमेतद्धि मम रोचते ।
यदि ह्येवंविधः स्वप्नो दुःखितायाः प्रदृश्यते ॥५-५८-८९॥
सा दुःखैर्विविधैर्मुक्ता सुखमाप्नोत्यनुत्तमम् ।
प्रणिपातप्रसन्ना हि मैथिली जनकात्मजा ॥५-५८-९०॥
अलमेषा परित्रातुं राक्षस्यो महतो भयात् ।
ततः सा ह्रीमती बाला भर्तुर्विजयहर्षिता ॥५-५८-९१॥
अवोचद् यदि तत् तथ्यं भवेयं शरणं हि वः ।
तां चाहं तादृशीं दृष्ट्वा सीताया दारुणां दशाम् ॥५-५८-९२॥
चिन्तयामास विश्रान्तो न च मे निर्वृतं मनः ।
सम्भाषणार्थे च मया जानक्याश्चिन्तितो विधिः ॥५-५८-९३॥
इक्ष्वाकुकुलवंशस्तु स्तुतो मम पुरस्कृतः ।
श्रुत्वा तु गदितां वाचं राजर्षिगणभूषिताम् ॥५-५८-९४॥
प्रत्यभाषत मां देवी बाष्पैः पिहितलोचना ।
कस्त्वं केन कथं चेह प्राप्तो वानरपुङ्गव ॥५-५८-९५॥
का च रामेण ते प्रीतिस्तन्मे शंसितुमर्हसि ।
तस्यास्तद् वचनं श्रुत्वा अहमप्यब्रुवं वचः ॥५-५८-९६॥
देवि रामस्य भर्तुस्ते सहायो भीमविक्रमः ।
सुग्रीवो नाम विक्रान्तो वानरेन्द्रो महाबलः ॥५-५८-९७॥
तस्य मां विद्धि भृत्यं त्वं हनूमन्तमिहागतम् ।
भर्त्रा सम्प्रहितस्तुभ्यं रामेणाक्लिष्टकर्मणा ॥५-५८-९८॥
इदं तु पुरुषव्याघ्रः श्रीमान् दाशरथिः स्वयम् ।
अङ्गुलीयमभिज्ञानमदात् तुभ्यं यशस्विनि ॥५-५८-९९॥
तदिच्छामि त्वयाज्ञप्तं देवि किं करवाण्यहम् ।
रामलक्ष्मणयोः पार्श्वं नयामि त्वां किमुत्तरम् ॥५-५८-१००॥
एतच्छ्रुत्वा विदित्वा च सीता जनकनन्दिनी ।
आह रावणमुत्पाट्य राघवो मां नयत्विति ॥५-५८-१०१॥
प्रणम्य शिरसा देवीमहमार्यामनिन्दिताम् ।
राघवस्य मनोह्लादमभिज्ञानमयाचिषम् ॥५-५८-१०२॥
अथ मामब्रवीत् सीता गृह्यतामयमुत्तमः ।
मणिर्येन महाबाहू रामस्त्वां बहु मन्यते ॥५-५८-१०३॥
इत्युक्त्वा तु वरारोहा मणिप्रवरमुत्तमम् ।
प्रायच्छत् परमोद्विग्ना वाचा मां संदिदेश ह ॥५-५८-१०४॥
ततस्तस्यै प्रणम्याहं राजपुत्र्यै समाहितः ।
प्रदक्षिणं परिक्राममिहाभ्युद्गतमानसः ॥५-५८-१०५॥
उत्तरं पुनरेवाह निश्चित्य मनसा तदा ।
हनूमन् मम वृत्तान्तं वक्तुमर्हसि राघवे ॥५-५८-१०६॥
यथा श्रुत्वैव नचिरात् तावुभौ रामलक्ष्मणौ ।
सुग्रीवसहितौ वीरावुपेयातां तथा कुरु ॥५-५८-१०७॥
यदन्यथा भवेदेतद् द्वौ मासौ जीवितं मम ।
न मां द्रक्ष्यति काकुत्स्थो म्रिये साहमनाथवत् ॥५-५८-१०८॥
तच्छ्रुत्वा करुणं वाक्यं क्रोधो मामभ्यवर्तत ।
उत्तरं च मया दृष्टं कार्यशेषमनन्तरम् ॥५-५८-१०९॥
ततोऽवर्धत मे कायस्तदा पर्वतसंनिभः ।
युद्धाकाङ्क्षी वनं तस्य विनाशयितुमारभे ॥५-५८-११०॥
तद् भग्नं वनखण्डं तु भ्रान्तत्रस्तमृगद्विजम् ।
प्रतिबुद्ध्य निरीक्षन्ते राक्षस्यो विकृताननाः ॥५-५८-१११॥
मां च दृष्ट्वा वने तस्मिन् समागम्य ततस्ततः ।
ताः समभ्यागताः क्षिप्रं रावणायाचचक्षिरे ॥५-५८-११२॥
राजन् वनमिदं दुर्गं तव भग्नं दुरात्मना ।
वानरेण ह्यविज्ञाय तव वीर्यं महाबल ॥५-५८-११३॥
तस्य दुर्बुद्धिता राजंस्तव विप्रियकारिणः ।
वधमाज्ञापय क्षिप्रं यथासौ न पुनर्व्रजेत् ॥५-५८-११४॥
तच्छ्रुत्वा राक्षसेन्द्रेण विसृष्टा बहुदुर्जयाः ।
राक्षसाः किंकरा नाम रावणस्य मनोऽनुगाः ॥५-५८-११५॥
तेषामशीतिसाहस्रं शूलमुद्गरपाणिनाम् ।
मया तस्मिन् वनोद्देशे परिघेण निषूदितम् ॥५-५८-११६॥
तेषां तु हतशिष्टा ये ते गता लघुविक्रमाः ।
निहतं च मया सैन्यं रावणायाचचक्षिरे ॥५-५८-११७॥
ततो मे बुद्धिरुत्पन्ना चैत्यप्रासादमुत्तमम् ।
तत्रस्थान् राक्षसान् हत्वा शतं स्तम्भेन वै पुनः ॥५-५८-११८॥
ललामभूतो लङ्काया मया विध्वंसितो रुषा ।
ततः प्रहस्तस्य सुतं जम्बुमालिनमादिशत् ॥५-५८-११९॥
राक्षसैर्बहुभिः सार्धं घोररूपैर्भयानकैः ।
तमहं बलसम्पन्नं राक्षसं रणकोविदम् ॥५-५८-१२०॥
परिघेणातिघोरेण सूदयामि सहानुगम् ।
तच्छ्रुत्वा राक्षसेन्द्रस्तु मन्त्रिपुत्रान् महाबलान् ॥५-५८-१२१॥
पदातिबलसम्पन्नान् प्रेषयामास रावणः ।
परिघेणैव तान् सर्वान् नयामि यमसादनम् ॥५-५८-१२२॥
मन्त्रिपुत्रान् हतान् श्रुत्वा समरे लघुविक्रमान् ।
पञ्च सेनाग्रगान् शूरान् प्रेषयामास रावणः ॥५-५८-१२३॥
तानहं सहसैन्यान् वै सर्वानेवाभ्यसूदयम् ।
ततः पुनर्दशग्रीवः पुत्रमक्षं महाबलम् ॥५-५८-१२४॥
बहुभी राक्षसैः सार्धं प्रेषयामास संयुगे ।
तं तु मन्दोदरीपुत्रं कुमारं रणपण्डितम् ॥५-५८-१२५॥
सहसा खं समुद्यन्तं पादयोश्च गृहीतवान् ।
तमासीनं शतगुणं भ्रामयित्वा व्यपेषयम् ॥५-५८-१२६॥
तमक्षमागतं भग्नं निशम्य स दशाननः ।
ततश्चेन्द्रजितं नाम द्वितीयं रावणः सुतम् ॥५-५८-१२७॥
व्यादिदेश सुसंक्रुद्धो बलिनं युद्धदुर्मदम् ।
तच्चाप्यहं बलं सर्वं तं च राक्षसपुङ्गवम् ॥५-५८-१२८॥
नष्टौजसं रणे कृत्वा परं हर्षमुपागतः ।
महतापि महाबाहुः प्रत्ययेन महाबलः ॥५-५८-१२९॥
प्रहितो रावणेनैष सह वीरैर्मदोद्धतैः ।
सोऽविषह्यं हि मां बुद्ध्वा स्वसैन्यं चावमर्दितम् ॥५-५८-१३०॥
ब्रह्मणोऽस्त्रेण स तु मां प्रबद्ध्वा चातिवेगिनः ।
रज्जुभिश्चापि बध्नन्ति ततो मां तत्र राक्षसाः ॥५-५८-१३१॥
रावणस्य समीपं च गृहीत्वा मामुपागमन् ।
दृष्ट्वा सम्भाषितश्चाहं रावणेन दुरात्मना ॥५-५८-१३२॥
पृष्टश्च लङ्कागमनं राक्षसानां च तं वधम् ।
तत्सर्वं च रणे तत्र सीतार्थमुपजल्पितम् ॥५-५८-१३३॥
तस्यास्तु दर्शनाकाङ्क्षी प्राप्तस्त्वद्भवनं विभो ।
मारुतस्यौरसः पुत्रो वानरो हनुमानहम् ॥५-५८-१३४॥
रामदूतं च मां विद्धि सुग्रीवसचिवं कपिम् ।
सोऽहं दौत्येन रामस्य त्वत्सकाशमिहागतः ॥५-५८-१३५॥
शृणु चापि समादेशं यदहं प्रब्रवीमि ते ।
राक्षसेश हरीशस्त्वां वाक्यमाह समाहितम् ॥५-५८-१३६॥
सुग्रीवश्च महाभागः स त्वां कौशलमब्रवीत् ।
धर्मार्थकामसहितं हितं पथ्यमुवाच ह ॥५-५८-१३७॥
वसतो ऋष्यमूके मे पर्वते विपुलद्रुमे ।
राघवो रणविक्रान्तो मित्रत्वं समुपागतः ॥५-५८-१३८॥
तेन मे कथितं राजन् भार्या मे रक्षसा हृता ।
तत्र साहाय्यहेतोर्मे समयं कर्तुमर्हसि ॥५-५८-१३९॥
वालिना हृतराज्येन सुग्रीवेण सह प्रभुः ।
चक्रेऽग्निसाक्षिकं सख्यं राघवः सहलक्ष्मणः ॥५-५८-१४०॥
तेन वालिनमाहत्य शरेणैकेन संयुगे ।
वानराणां महाराजः कृतः सम्प्लवतां प्रभुः ॥५-५८-१४१॥
तस्य साहाय्यमस्माभिः कार्यं सर्वात्मना त्विह ।
तेन प्रस्थापितस्तुभ्यं समीपमिह धर्मतः ॥५-५८-१४२॥
क्षिप्रमानीयतां सीता दीयतां राघवस्य च ।
यावन्न हरयो वीरा विधमन्ति बलं तव ॥५-५८-१४३॥
वानराणां प्रभावोऽयं न केन विदितः पुरा ।
देवतानां सकाशं च ये गच्छन्ति निमन्त्रिताः ॥५-५८-१४४॥
इति वानरराजस्त्वामाहेत्यभिहितो मया ।
मामैक्षत ततो रुष्टश्चक्षुषा प्रदहन्निव ॥५-५८-१४५॥
तेन वध्योऽहमाज्ञप्तो रक्षसा रौद्रकर्मणा ।
मत्प्रभावमविज्ञाय रावणेन दुरात्मना ॥५-५८-१४६॥
ततो विभीषणो नाम तस्य भ्राता महामतिः ।
तेन राक्षसराजश्च याचितो मम कारणात् ॥५-५८-१४७॥
नैवं राक्षसशार्दूल त्यज्यतामेष निश्चयः ।
राजशास्त्रव्यपेतो हि मार्गः संलक्ष्यते त्वया ॥५-५८-१४८॥
दूतवध्या न दृष्टा हि राजशास्त्रेषु राक्षस ।
दूतेन वेदितव्यं च यथाभिहितवादिना ॥५-५८-१४९॥
सुमहत्यपराधेऽपि दूतस्यातुलविक्रम ।
विरूपकरणं दृष्टं न वधोऽस्ति हि शास्त्रतः ॥५-५८-१५०॥
विभीषणेनैवमुक्तो रावणः संदिदेश तान् ।
राक्षसानेतदेवाद्य लाङ्गूलं दह्यतामिति ॥५-५८-१५१॥
ततस्तस्य वचः श्रुत्वा मम पुच्छं समन्ततः ।
वेष्टितं शणवल्कैश्च पट्टैः कार्पासकैस्तथा ॥५-५८-१५२॥
राक्षसाः सिद्धसंनाहास्ततस्ते चण्डविक्रमाः ।
तदादीप्यन्त मे पुच्छं हनन्तः काष्ठमुष्टिभिः ॥५-५८-१५३॥
बद्धस्य बहुभिः पाशैर्यन्त्रितस्य च राक्षसैः ।
न मे पीडाभवत् काचिद् दिदृक्षोर्नगरीं दिवा ॥५-५८-१५४॥
ततस्ते राक्षसाः शूरा बद्धं मामग्निसंवृतम् ।
अघोषयन् राजमार्गे नगरद्वारमागताः ॥५-५८-१५५॥
ततोऽहं सुमहद्रूपं संक्षिप्य पुनरात्मनः ।
विमोचयित्वा तं बन्धं प्रकृतिस्थः स्थितः पुनः ॥५-५८-१५६॥
आयसं परिघं गृह्य तानि रक्षांस्यसूदयम् ।
ततस्तन्नगरद्वारं वेगेन प्लुतवानहम् ॥५-५८-१५७॥
पुच्छेन च प्रदीप्तेन तां पुरीं साट्टगोपुराम् ।
दहाम्यहमसम्भ्रान्तो युगान्ताग्निरिव प्रजाः ॥५-५८-१५८॥
विनष्टा जानकी व्यक्तं न ह्यदग्धः प्रदृश्यते ।
लङ्कायाः कश्चिदुद्देशः सर्वा भस्मीकृता पुरी ॥५-५८-१५९॥
दहता च मया लङ्कां दग्धा सीता न संशयः ।
रामस्य च महत्कार्यं मयेदं विफलीकृतम् ॥५-५८-१६०॥
इति शोकसमाविष्टश्चिन्तामहमुपागतः ।
ततोऽहं वाचमश्रौषं चारणानां शुभाक्षराम् ॥५-५८-१६१॥
जानकी न च दग्धेति विस्मयोदन्तभाषिणाम् ।
ततो मे बुद्धिरुत्पन्ना श्रुत्वा तामद्भुतां गिरम् ॥५-५८-१६२॥
अदग्धा जानकीत्येव निमित्तैश्चोपलक्षितम् ।
दीप्यमाने तु लाङ्गूले न मां दहति पावकः ॥५-५८-१६३॥
हृदयं च प्रहृष्टं मे वाताः सुरभिगन्धिनः ।
तैर्निमित्तैश्च दृष्टार्थैः कारणैश्च महागुणैः ॥५-५८-१६४॥
ऋषिवाक्यैश्च दृष्टार्थैरभवं हृष्टमानसः ।
पुनर्दृष्टा च वैदेही विसृष्टश्च तया पुनः ॥५-५८-१६५॥
ततः पर्वतमासाद्य तत्रारिष्टमहं पुनः ।
प्रतिप्लवनमारेभे युष्मद्दर्शनकाङ्क्षया ॥५-५८-१६६॥
ततः श्वसनचन्द्रार्कसिद्धगन्धर्वसेवितम् ।
पन्थानमहमाक्रम्य भवतो दृष्टवानिह ॥५-५८-१६७॥
राघवस्य प्रसादेन भवतां चैव तेजसा ।
सुग्रीवस्य च कार्यार्थं मया सर्वमनुष्ठितम् ॥५-५८-१६८॥
एतत् सर्वं मया तत्र यथावदुपपादितम् ।
तत्र यन्न कृतं शेषं तत् सर्वं क्रियतामिति ॥५-५८-१६९॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे हनूमद्वृत्तानुकथनम् नाम अष्टपञ्चाशः सर्गः ॥५-५८॥
Previous
हनूमत्प्रत्यागमनम्
Next
अनन्तरकार्यप्ररोचनम्