हनूमत्प्रत्यागमनम्

सुन्दरकाण्डः / हनूमत्प्रत्यागमनम्

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे हनूमत्प्रत्यागमनम् नाम सप्तपञ्चाशः सर्गः ॥५-५७॥
आप्लुत्य च महावेगः पक्षवानिव पर्वतः । भुजङ्गयक्षगन्धर्वप्रबुद्धकमलोत्पलम् ॥५-५७-१॥
स चन्द्रकुमुदं रम्यं सार्ककारण्डवं शुभम् । तिष्यश्रवणकादम्बमभ्रशैवलशाद्वलम् ॥५-५७-२॥
पुनर्वसुमहामीनं लोहिताङ्गमहाग्रहम् । ऐरावतमहाद्वीपं स्वातीहंसविलासितम् ॥५-५७-३॥
वातसंघातजालोर्मिचन्द्रांशुशिशिराम्बुमत् । हनूमानपरिश्रान्तः पुप्लुवे गगनार्णवम् ॥५-५७-४॥
ग्रसमान इवाकाशं ताराधिपमिवोल्लिखन् । हरन्निव सनक्षत्रं गगनं सार्कमण्डलम् ॥५-५७-५॥
अपारमपरिश्रान्तश्चाम्बुधिं समगाहत । हनूमान् मेघजालानि विकर्षन्निव गच्छति ॥५-५७-६॥
पाण्डुरारुणवर्णानि नीलमाञ्जिष्ठकानि च । हरितारुणवर्णानि महाभ्राणि चकाशिरे ॥५-५७-७॥
प्रविशन्नभ्रजालानि निष्क्रमंश्च पुनः पुनः । प्रकाशश्चाप्रकाशश्च चन्द्रमा इव दृश्यते ॥५-५७-८॥
विविधाभ्रघनापन्नगोचरो धवलाम्बरः । दृश्यादृश्यतनुर्वीरस्तथा चन्द्रायतेऽम्बरे ॥५-५७-९॥
तार्क्ष््यायमाणो गगने स बभौ वायुनन्दनः । दारयन् मेघवृन्दानि निष्पतंश्च पुनः पुनः ॥५-५७-१०॥
नदन् नादेन महता मेघस्वनमहास्वनः । प्रवरान् राक्षसान् हत्वा नाम विश्राव्य चात्मनः ॥५-५७-११॥
आकुलां नगरीं कृत्वा व्यथयित्वा च रावणम् । अर्दयित्वा महावीरान् वैदेहीमभिवाद्य च ॥५-५७-१२॥
आजगाम महातेजाः पुनर्मध्येन सागरम् । पर्वतेन्द्रं सुनाभं च समुपस्पृश्य वीर्यवान् ॥५-५७-१३॥
ज्यामुक्त इव नाराचो महावेगोऽभ्युपागमत् । स किंचिदारात् सम्प्राप्तः समालोक्य महागिरिम् ॥५-५७-१४॥
महेन्द्रं मेघसंकाशं ननाद स महाकपिः । स पूरयामास कपिर्दिशो दश समन्ततः ॥५-५७-१५॥
नदन् नादेन महता मेघस्वनमहास्वनः । स तं देशमनुप्राप्तः सुहृद्दर्शनलालसः ॥५-५७-१६॥
ननाद सुमहानादं लाङ्गूलं चाप्यकम्पयत् । तस्य नानद्यमानस्य सुपर्णाचरिते पथि ॥५-५७-१७॥
फलतीवास्य घोषेण गगनं सार्कमण्डलम् । ये तु तत्रोत्तरे कूले समुद्रस्य महाबलाः ॥५-५७-१८॥
पूर्वं संविष्ठिताः शूरा वायुपुत्रदिदृक्षवः । महतो वायुनुन्नस्य तोयदस्येव निःस्वनम् । शुश्रुवुस्ते तदा घोषमूरुवेगं हनूमतः ॥५-५७-१९॥
ते दीनमनसः सर्वे शुश्रुवुः काननौकसः । वानरेन्द्रस्य निर्घोषं पर्जन्यनिनदोपमम् ॥५-५७-२०॥
निशम्य नदतो नादं वानरास्ते समन्ततः । बभूवुरुत्सुकाः सर्वे सुहृद्दर्शनकाङ्क्षिणः ॥५-५७-२१॥
जाम्बवान् स हरिश्रेष्ठः प्रीतिसंहृष्टमानसः । उपामन्त्र्य हरीन् सर्वानिदं वचनमब्रवीत् ॥५-५७-२२॥
सर्वथा कृतकार्योऽसौ हनूमान् नात्र संशयः । न ह्यस्याकृतकार्यस्य नाद एवंविधो भवेत् ॥५-५७-२३॥
तस्य बाहूरुवेगं च निनादं च महात्मनः । निशम्य हरयो हृष्टाः समुत्पेतुर्यतस्ततः ॥५-५७-२४॥
ते नगाग्रान्नगाग्राणि शिखराच्छिखराणि च । प्रहृष्टाः समपद्यन्त हनूमन्तं दिदृक्षवः ॥५-५७-२५॥
ते प्रीताः पादपाग्रेषु गृह्य शाखामवस्थिताः । वासांसि च प्रकाशानि समाविध्यन्त वानराः ॥५-५७-२६॥
गिरिगह्वरसंलीनो यथा गर्जति मारुतः । एवं जगर्ज बलवान् हनूमान् मारुतात्मजः ॥५-५७-२७॥
तमभ्रघनसंकाशमापतन्तं महाकपिम् । दृष्ट्वा ते वानराः सर्वे तस्थुः प्राञ्जलयस्तदा ॥५-५७-२८॥
ततस्तु वेगवान् वीरो गिरेर्गिरिनिभः कपिः । निपपात गिरेस्तस्य शिखरे पादपाकुले ॥५-५७-२९॥
हर्षेणापूर्यमाणोऽसौ रम्ये पर्वतनिर्झरे । छिन्नपक्ष इवाकाशात् पपात धरणीधरः ॥५-५७-३०॥
ततस्ते प्रीतमनसः सर्वे वानरपुङ्गवाः । हनूमन्तं महात्मानं परिवार्योपतस्थिरे ॥५-५७-३१॥
परिवार्य च ते सर्वे परां प्रीतिमुपागताः । प्रहृष्टवदनाः सर्वे तमागतमुपागमन् ॥५-५७-३२॥
उपायनानि चादाय मूलानि च फलानि च । प्रत्यर्चयन् हरिश्रेष्ठं हरयो मारुतात्मजम् ॥५-५७-३३॥
विनेदुर्मुदिताः केचित् केचित् किलकिलां तथा । हृष्टाः पादपशाखाश्च आनिन्युर्वानरर्षभाः ॥५-५७-३४॥
हनूमांस्तु गुरून् वृद्धाञ्जाम्बवत्प्रमुखांस्तदा । कुमारमङ्गदं चैव सोऽवन्दत महाकपिः ॥५-५७-३५॥
स ताभ्यां पूजितः पूज्यः कपिभिश्च प्रसादितः । दृष्टा देवीति विक्रान्तः संक्षेपेण न्यवेदयत् ॥५-५७-३६॥
निषसाद च हस्तेन गृहीत्वा वालिनः सुतम् । रमणीये वनोद्देशे महेन्द्रस्य गिरेस्तदा ॥५-५७-३७॥
हनूमानब्रवीत् पृष्टस्तदा तान् वानरर्षभान् । अशोकवनिकासंस्था दृष्टा सा जनकात्मजा ॥५-५७-३८॥
रक्ष्यमाणा सुघोराभी राक्षसीभिरनिन्दिता । एकवेणीधरा बाला रामदर्शनलालसा ॥५-५७-३९॥
उपवासपरिश्रान्ता मलिना जटिला कृशा । ततो दृष्टेति वचनं महार्थममृतोपमम् ॥५-५७-४०॥
निशम्य मारुतेः सर्वे मुदिता वानराभवन् । क्ष्वेडन्त्यन्ये नदन्त्यन्ये गर्जन्त्यन्ये महाबलाः ॥५-५७-४१॥
चक्रुः किलकिलामन्ये प्रतिगर्जन्ति चापरे । केचिदुच्छ्रितलाङ्गूलाः प्रहृष्टाः कपिकुञ्जराः ॥५-५७-४२॥
आयताञ्चितदीर्घाणि लाङ्गूलानि प्रविव्यधुः । अपरे तु हनूमन्तं श्रीमन्तं वानरोत्तमम् ॥५-५७-४३॥
आप्लुत्य गिरिशृङ्गेषु संस्पृशन्ति स्म हर्षिताः । उक्तवाक्यं हनूमन्तमङ्गदस्तु तदाब्रवीत् ॥५-५७-४४॥
सर्वेषां हरिवीराणां मध्ये वाचमनुत्तमाम् । सत्त्वे वीर्ये न ते कश्चित् समो वानर विद्यते ॥५-५७-४५॥
यदवप्लुत्य विस्तीर्णं सागरं पुनरागतः । जीवितस्य प्रदाता नस्त्वमेको वानरोत्तम ॥५-५७-४६॥
त्वत्प्रसादात् समेष्यामः सिद्धार्था राघवेण ह । अहो स्वामिनि ते भक्तिरहो वीर्यमहो धृतिः ॥५-५७-४७॥
दिष्ट्या दृष्टा त्वया देवी रामपत्नी यशस्विनी । दिष्ट्या त्यक्ष्यति काकुत्स्थः शोकं सीतावियोगजम् ॥५-५७-४८॥
ततोऽङ्गदं हनूमन्तं जाम्बवन्तं च वानराः । परिवार्य प्रमुदिता भेजिरे विपुलाः शिलाः ॥५-५७-४९॥
उपविष्टा गिरेस्तस्य शिलासु विपुलासु ते । श्रोतुकामाः समुद्रस्य लङ्घनं वानरोत्तमाः ॥५-५७-५०॥
दर्शनं चापि लङ्कायाः सीताया रावणस्य च । तस्थुः प्राञ्जलयः सर्वे हनूमद्वदनोन्मुखाः ॥५-५७-५१॥
तस्थौ तत्राङ्गदः श्रीमान् वानरैर्बहुभिर्वृतः । उपास्यमानो विबुधैर्दिवि देवपतिर्यथा ॥५-५७-५२॥
हनूमता कीर्तिमता यशस्विना तथाङ्गदेनाङ्गदनद्धबाहुना । मुदा तदाध्यासितमुन्नतं महन्महीधराग्रं ज्वलितं श्रियाभवत् ॥५-५७-५३॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे हनूमत्प्रत्यागमनम् नाम सप्तपञ्चाशः सर्गः ॥५-५७॥