प्रतिप्रयाणोत्पतनम्
सुन्दरकाण्डः / प्रतिप्रयाणोत्पतनम्
Script
Translation
Previous
हनूमद्विभ्रमः
Next
हनूमत्प्रत्यागमनम्
अथ श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे प्रतिप्रयाणोत्पतनम् नाम षट्पञ्चाशः सर्गः ॥५-५६॥
ततस्तु शिंशपामूले जानकीं पर्यवस्थिताम् ।
अभिवाद्याब्रवीद् दिष्ट्या पश्यामि त्वामिहाक्षताम् ॥५-५६-१॥
ततस्तं प्रस्थितं सीता वीक्षमाणा पुनः पुनः ।
भर्तुः स्नेहान्विता वाक्यं हनूमन्तमभाषत ॥५-५६-२॥
यदि त्वं मन्यसे तात वसैकाहमिहानघ ।
क्वचित् सुसंवृते देशे विश्रान्तः श्वो गमिष्यसि ॥५-५६-३॥
मम चैवाल्पभाग्यायाः सांनिध्यात् तव वानर ।
शोकस्यास्याप्रमेयस्य मुहूर्तं स्यादपि क्षयः ॥५-५६-४॥
गते हि हरिशार्दूल पुनः सम्प्राप्तये त्वयि ।
प्राणेष्वपि न विश्वासो मम वानरपुङ्गव ॥५-५६-५॥
अदर्शनं च ते वीर भूयो मां दारयिष्यति ।
दुःखाद् दुःखतरं प्राप्तां दुर्मनःशोककर्शिताम् ॥५-५६-६॥
अयं च वीर संदेहस्तिष्ठतीव ममाग्रतः ।
सुमहत्सु सहायेषु हर्यृक्षेषु महाबलः ॥५-५६-७॥
कथं नु खलु दुष्पारं संतरिष्यति सागरम् ।
तानि हर्यृक्षसैन्यानि तौ वा नरवरात्मजौ ॥५-५६-८॥
त्रयाणामेव भूतानां सागरस्यापि लङ्घने ।
शक्तिः स्याद् वैनतेयस्य तव वा मारुतस्य वा ॥५-५६-९॥
तदत्र कार्यनिर्बन्धे समुत्पन्ने दुरासदे ।
किं पश्यसि समाधानं त्वं हि कार्यविशारदः ॥५-५६-१०॥
काममस्य त्वमेवैकः कार्यस्य परिसाधने ।
पर्याप्तः परवीरघ्न यशस्यस्ते फलोदयः ॥५-५६-११॥
बलैस्तु संकुलां कृत्वा लङ्कां परबलार्दनः ।
मां नयेद् यदि काकुत्स्थस्तत् तस्य सदृशं भवेत् ॥५-५६-१२॥
तद् यथा तस्य विक्रान्तमनुरूपं महात्मनः ।
भवत्याहवशूरस्य तथा त्वमुपपादय ॥५-५६-१३॥
तदर्थोपहितं वाक्यं प्रश्रितं हेतुसंहितम् ।
निशम्य हनुमान् वीरो वाक्यमुत्तरमब्रवीत् ॥५-५६-१४॥
देवि हर्यृक्षसैन्यानामीश्वरः प्लवतां वरः ।
सुग्रीवः सत्त्वसम्पन्नस्तवार्थे कृतनिश्चयः ॥५-५६-१५॥
स वानरसहस्राणां कोटीभिरभिसंवृतः ।
क्षिप्रमेष्यति वैदेहि सुग्रीवः प्लवगाधिपः ॥५-५६-१६॥
तौ च वीरौ नरवरौ सहितौ रामलक्ष्मणौ ।
आगम्य नगरीं लङ्कां सायकैर्विधमिष्यतः ॥५-५६-१७॥
सगणं राक्षसं हत्वा नचिराद् रघुनन्दनः ।
त्वामादाय वरारोहे स्वां पुरीं प्रति यास्यति ॥५-५६-१८॥
समाश्वसिहि भद्रं ते भव त्वं कालकाङ्क्षिणी ।
क्षिप्रं द्रक्ष्यसि रामेण निहतं रावणं रणे ॥५-५६-१९॥
निहते राक्षसेन्द्रे च सपुत्रामात्यबान्धवे ।
त्वं समेष्यसि रामेण शशाङ्केनेव रोहिणी ॥५-५६-२०॥
क्षिप्रमेष्यति काकुत्स्थो हर्यृक्षप्रवरैर्युतः ।
यस्ते युधि विजित्यारीञ्छोकं व्यपनयिष्यति ॥५-५६-२१॥
एवमाश्वास्य वैदेहीं हनूमान् मारुतात्मजः ।
गमनाय मतिं कृत्वा वैदेहीमभ्यवादयत् ॥५-५६-२२॥
राक्षसान् प्रवरान् हत्वा नाम विश्राव्य चात्मनः ।
समाश्वास्य च वैदेहीं दर्शयित्वा परं बलम् ॥५-५६-२३॥
नगरीमाकुलां कृत्वा वञ्चयित्वा च रावणम् ।
दर्शयित्वा बलं घोरं वैदेहीमभिवाद्य च ॥५-५६-२४॥
प्रतिगन्तुं मनश्चक्रे पुनर्मध्येन सागरम् ।
ततः स कपिशार्दूलः स्वामिसंदर्शनोत्सुकः ॥५-५६-२५॥
आरुरोह गिरिश्रेष्ठमरिष्टमरिमर्दनः ।
तुङ्गपद्मकजुष्टाभिर्नीलाभिर्वनराजिभिः ॥५-५६-२६॥
सोत्तरीयमिवाम्भोदैः शृङ्गान्तरविलम्बिभिः ।
बोध्यमानमिव प्रीत्या दिवाकरकरैः शुभैः ॥५-५६-२७॥
उन्मिषन्तमिवोद्धूतैर्लोचनैरिव धातुभिः ।
तोयौघनिःस्वनैर्मन्द्रैः प्राधीतमिव पर्वतम् ॥५-५६-२८॥
प्रगीतमिव विस्पष्टं नानाप्रस्रवणस्वनैः ।
देवदारुभिरुद्धूतैरूर्ध्वबाहुमिव स्थितम् ॥५-५६-२९॥
प्रपातजलनिर्घोषैः प्राक्रुष्टमिव सर्वतः ।
वेपमानमिव श्यामैः कम्पमानैः शरद्वनैः ॥५-५६-३०॥
वेणुभिर्मारुतोद्धूतैः कूजन्तमिव कीचकैः ।
निःश्वसन्तमिवामर्षाद् घोरैराशीविषोत्तमैः ॥५-५६-३१॥
नीहारकृतगम्भीरैर्ध्यायन्तमिव गह्वरैः ।
मेघपादनिभैः पादैः प्रक्रान्तमिव सर्वतः ॥५-५६-३२॥
जृम्भमाणमिवाकाशे शिखरैरभ्रमालिभिः ।
कूटैश्च बहुधा कीर्णं शोभितं बहुकन्दरैः ॥५-५६-३३॥
सालतालैश्च कर्णैश्च वंशैश्च बहुभिर्वृतम् ।
लतावितानैर्विततैः पुष्पवद्भिरलंकृतम् ॥५-५६-३४॥
नानामृगगणैः कीर्णं धातुनिष्यन्दभूषितम् ।
बहुप्रस्रवणोपेतं शिलासंचयसंकटम् ॥५-५६-३५॥
महर्षियक्षगन्धर्वकिंनरोरगसेवितम् ।
लतापादपसम्बाधं सिंहाधिष्ठितकन्दरम् ॥५-५६-३६॥
व्याघ्रादिभिः समाकीर्णं स्वादुमूलफलद्रुमम् ।
आरुरोहानिलसुतः पर्वतं प्लवगोत्तमः ॥५-५६-३७॥
रामदर्शनशीघ्रेण प्रहर्षेणाभिचोदितः ।
तेन पादतलक्रान्ता रम्येषु गिरिसानुषु ॥५-५६-३८॥
सघोषाः समशीर्यन्त शिलाश्चूर्णीकृतास्ततः ।
स तमारुह्य शैलेन्द्रं व्यवर्धत महाकपिः ॥५-५६-३९॥
दक्षिणादुत्तरं पारं प्रार्थयँल्लवणाम्भसः ।
अधिरुह्य ततो वीरः पर्वतं पवनात्मजः ॥५-५६-४०॥
ददर्श सागरं भीमं भीमोरगनिषेवितम् ।
स मारुत इवाकाशं मारुतस्यात्मसम्भवः ॥५-५६-४१॥
प्रपेदे हरिशार्दूलो दक्षिणादुत्तरां दिशम् ।
स तदा पीडितस्तेन कपिना पर्वतोत्तमः ॥५-५६-४२॥
ररास विविधैर्भूतैः प्राविशद् वसुधातलम् ।
कम्पमानैश्च शिखरैः पतद्भिरपि च द्रुमैः ॥५-५६-४३॥
तस्योरुवेगोन्मथिताः पादपाः पुष्पशालिनः ।
निपेतुर्भूतले भग्नाः शक्रायुधहता इव ॥५-५६-४४॥
कन्दरोदरसंस्थानां पीडितानां महौजसाम् ।
सिंहानां निनदो भीमो नभो भिन्दन् हि शुश्रुवे ॥५-५६-४५॥
त्रस्तव्याविद्धवसना व्याकुलीकृतभूषणाः ।
विद्याधर्यः समुत्पेतुः सहसा धरणीधरात् ॥५-५६-४६॥
अतिप्रमाणा बलिनो दीप्तजिह्वा महाविषाः ।
निपीडितशिरोग्रीवा व्यवेष्टन्त महाहयः ॥५-५६-४७॥
किंनरोरगगन्धर्वयक्षविद्याधरास्तथा ।
पीडितं तं नगवरं त्यक्त्वा गगनमास्थिताः ॥५-५६-४८॥
स च भूमिधरः श्रीमान् बलिना तेन पीडितः ।
सवृक्षशिखरोदग्रः प्रविवेश रसातलम् ॥५-५६-४९॥
दशयोजनविस्तारस्त्रिंशद्योजनमुच्छ्रितः ।
धरण्यां समतां यातः स बभूव धराधरः ॥५-५६-५०॥
स लिलङ्घयिषुर्भीमं सलीलं लवणार्णवम् ।
कल्लोलास्फालवेलान्तमुत्पपात नभो हरिः ॥५-५६-५१॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे प्रतिप्रयाणोत्पतनम् नाम षट्पञ्चाशः सर्गः ॥५-५६॥
Previous
हनूमद्विभ्रमः
Next
हनूमत्प्रत्यागमनम्