पावकशैत्यम्

सुन्दरकाण्डः / पावकशैत्यम्

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे पावकशैत्यम् नाम त्रिपञ्चाशः सर्गः ॥५-५३॥
तस्य तद् वचनं श्रुत्वा दशग्रीवो महात्मनः । देशकालहितं वाक्यं भ्रातुरुत्तरमब्रवीत् ॥५-५३-१॥
सम्यगुक्तं हि भवता दूतवध्या विगर्हिता । अवश्यं तु वधायान्यः क्रियतामस्य निग्रहः ॥५-५३-२॥
कपीनां किल लाङ्गूलमिष्टं भवति भूषणम् । तदस्य दीप्यतां शीघ्रं तेन दग्धेन गच्छतु ॥५-५३-३॥
ततः पश्यन्त्वमुं दीनमङ्गवैरूप्यकर्शितम् । सुमित्रज्ञातयः सर्वे बान्धवाः ससुहृज्जनाः ॥५-५३-४॥
आज्ञापयद् राक्षसेन्द्रः पुरं सर्वं सचत्वरम् । लाङ्गूलेन प्रदीप्तेन रक्षोभिः परिणीयताम् ॥५-५३-५॥
तस्य तद् वचनं श्रुत्वा राक्षसाः कोपकर्कशाः । वेष्टन्ते तस्य लाङ्गूलं जीर्णैः कार्पासिकैः पटैः ॥५-५३-६॥
संवेष्ट्यमाने लाङ्गूले व्यवर्धत महाकपिः । शुष्कमिन्धनमासाद्य वनेष्विव हुताशनम् ॥५-५३-७॥
तैलेन परिषिच्याथ तेऽग्निं तत्रोपपादयन् । लाङ्गूलेन प्रदीप्तेन राक्षसांस्तानताडयत् ॥५-५३-८॥
रोषामर्षपरीतात्मा बालसूर्यसमाननः । स भूयः संगतैः क्रूरै राक्षसैर्हरिपुङ्गवः ॥५-५३-९॥
सहस्त्रीबालवृद्धाश्च जग्मुः प्रीतिं निशाचराः । निबद्धः कृतवान् वीरस्तत्कालसदृशीं मतिम् ॥५-५३-१०॥
कामं खलु न मे शक्ता निबद्धस्यापि राक्षसाः । छित्त्वा पाशान् समुत्पत्य हन्यामहमिमान् पुनः ॥५-५३-११॥
यदि भर्तृहितार्थाय चरन्तं भर्तृशासनात् । निबध्नन्ते दुरात्मानो न तु मे निष्कृतिः कृता ॥५-५३-१२॥
सर्वेषामेव पर्याप्तो राक्षसानामहं युधि । किं तु रामस्य प्रीत्यर्थं विषहिष्येऽहमीदृशम् ॥५-५३-१३॥
लङ्का चारयितव्या मे पुनरेव भवेदिति । रात्रौ नहि सुदृष्टा मे दुर्गकर्मविधानतः ॥५-५३-१४॥
अवश्यमेव द्रष्टव्या मया लङ्का निशाक्षये । कामं बध्नन्तु मे भूयः पुच्छस्योद्दीपनेन च ॥५-५३-१५॥
पीडां कुर्वन्ति रक्षांसि न मेऽस्ति मनसः श्रमः । ततस्ते संवृताकारं सत्त्ववन्तं महाकपिम् ॥५-५३-१६॥
परिगृह्य ययुर्हृष्टा राक्षसाः कपिकुञ्जरम् । शङ्खभेरीनिनादैश्च घोषयन्तः स्वकर्मभिः ॥५-५३-१७॥
राक्षसाः क्रूरकर्माणश्चारयन्ति स्म तां पुरीम् । अन्वीयमानो रक्षोभिर्ययौ सुखमिरंदमः ॥५-५३-१८॥
हनूमांश्चारयामास राक्षसानां महापुरीम् । अथापश्यद् विमानानि विचित्राणि महाकपिः ॥५-५३-१९॥
संवृतान् भूमिभागांश्च सुविभक्तांश्च चत्वरान् । रथ्याश्च गृहसम्बाधाः कपिः शृङ्गाटकानि च ॥५-५३-२०॥
तथा रथ्योपरथ्याश्च तथैव च गृहान्तरान् । चत्वरेषु चतुष्केषु राजमार्गे तथैव च ॥५-५३-२१॥
घोषयन्ति कपिं सर्वे चार इत्येव राक्षसाः । स्त्रीबालवृद्धा निर्जग्मुस्तत्र तत्र कुतूहलात् ॥५-५३-२२॥
तं प्रदीपितलाङ्गूलं हनूमन्तं दिदृक्षवः । दीप्यमाने ततस्तस्य लाङ्गूलाग्रे हनूमतः ॥५-५३-२३॥
राक्षस्यस्ता विरूपाक्ष्यः शंसुर्देव्यास्तदप्रियम् । यस्त्वया कृतसंवादः सीते ताम्रमुखः कपिः ॥५-५३-२४॥
लाङ्गूलेन प्रदीप्तेन स एष परिणीयते । श्रुत्वा तद् वचनं क्रूरमात्मापहरणोपमम् ॥५-५३-२५॥
वैदेही शोकसंतप्ता हुताशनमुपागमत् । मङ्गलाभिमुखी तस्य सा तदासीन्महाकपेः ॥५-५३-२६॥
उपतस्थे विशालाक्षी प्रयता हव्यवाहनम् । यद्यस्ति पतिशुश्रूषा यद्यस्ति चरितं तपः । यदि वा त्वेकपत्नीत्वं शीतो भव हनूमतः ॥५-५३-२७॥
यदि किंचिदनुक्रोशस्तस्य मय्यस्ति धीमतः । यदि वा भाग्यशेषो मे शीतो भव हनूमतः ॥५-५३-२८॥
यदि मां वृत्तसम्पन्नां तत्समागमलालसाम् । स विजानाति धर्मात्मा शीतो भव हनूमतः ॥५-५३-२९॥
यदि मां तारयेदार्यः सुग्रीवः सत्यसंगरः । अस्माद् दुःखाम्बुसंरोधाच्छीतो भव हनूमतः ॥५-५३-३०॥
ततस्तीक्ष्णार्चिरव्यग्रः प्रदक्षिणशिखोऽनलः । जज्वाल मृगशावाक्ष्याः शंसन्निव शुभं कपेः ॥५-५३-३१॥
हनूमज्जनकश्चैव पुच्छानलयुतोऽनिलः । ववौ स्वास्थ्यकरो देव्याः प्रालेयानिलशीतलः ॥५-५३-३२॥
दह्यमाने च लाङ्गूले चिन्तयामास वानरः । प्रदीप्तोऽग्निरयं कस्मान्न मां दहति सर्वतः ॥५-५३-३३॥
दृश्यते च महाज्वालः करोति च न मे रुजम् । शिशिरस्येव सम्पातो लाङ्गूलाग्रे प्रतिष्ठितः ॥५-५३-३४॥
अथ वा तदिदं व्यक्तं यद् दृष्टं प्लवता मया । रामप्रभावादाश्चर्यं पर्वतः सरितां पतौ ॥५-५३-३५॥
यदि तावत् समुद्रस्य मैनाकस्य च धीमतः । रामार्थं सम्भ्रमस्तादृक् किमग्निर्न करिष्यति ॥५-५३-३६॥
सीतायाश्चानृशंस्येन तेजसा राघवस्य च । पितुश्च मम सख्येन न मां दहति पावकः ॥५-५३-३७॥
भूयः स चिन्तयामास मुहूर्तं कपिकुञ्जरः । कथमस्मद्विधस्येह बन्धनं राक्षसाधमैः ॥५-५३-३८॥
प्रतिक्रियास्य युक्ता स्यात् सति मह्यं पराक्रमे । ततश्छित्त्वा च तान् पाशान् वेगवान् वै महाकपिः ॥५-५३-३९॥
उत्पपाताथ वेगेन ननाद च महाकपिः । पुरद्वारं ततः श्रीमान् शैलशृङ्गमिवोन्नतम् ॥५-५३-४०॥
विभक्तरक्षःसम्बाधमाससादानिलात्मजः । स भूत्वा शैलसंकाशः क्षणेन पुनरात्मवान् ॥५-५३-४१॥
ह्रस्वतां परमां प्राप्तो बन्धनान्यवशातयत् । विमुक्तश्चाभवच्छ्रीमान् पुनः पर्वतसंनिभः ॥५-५३-४२॥
वीक्षमाणश्च ददृशे परिघं तोरणाश्रितम् । स तं गृह्य महाबाहुः कालायसपरिष्कृतम् । रक्षिणस्तान् पुनः सर्वान् सूदयामास मारुतिः ॥५-५३-४३॥
स तान् निहत्वा रणचण्डविक्रमः समीक्षमाणः पुनरेव लङ्काम् । प्रदीप्तलाङ्गूलकृतार्चिमाली प्रकाशितादित्य इवार्चिमाली ॥५-५३-४४॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे पावकशैत्यम् नाम त्रिपञ्चाशः सर्गः ॥५-५३॥