दूतवधनिवारणम्

सुन्दरकाण्डः / दूतवधनिवारणम्

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे दूतवधनिवारणम् नाम द्विपञ्चाशः सर्गः ॥५-५२॥
स तस्य वचनं श्रुत्वा वानरस्य महात्मनः । आज्ञापयद् वधं तस्य रावणः क्रोधमूर्च्छितः ॥५-५२-१॥
वधे तस्य समाज्ञप्ते रावणेन दुरात्मना । निवेदितवतो दौत्यं नानुमेने विभीषणः ॥५-५२-२॥
तं रक्षोऽधिपतिं क्रुद्धं तच्च कार्यमुपस्थितम् । विदित्वा चिन्तयामास कार्यं कार्यविधौ स्थितः ॥५-५२-३॥
निश्चितार्थस्ततः साम्ना पूज्यं शत्रुजिदग्रजम् । उवाच हितमत्यर्थं वाक्यं वाक्यविशारदः ॥५-५२-४॥
क्षमस्व रोषं त्यज राक्षसेन्द्र प्रसीद मे वाक्यमिदं शृणुष्व । वधं न कुर्वन्ति परावरज्ञा दूतस्य सन्तो वसुधाधिपेन्द्राः ॥५-५२-५॥
राजन् धर्मविरुद्धं च लोकवृत्तेश्च गर्हितम् । तव चासदृशं वीर कपेरस्य प्रमापणम् ॥५-५२-६॥
धर्मज्ञश्च कृतज्ञश्च राजधर्मविशारदः । परावरज्ञो भूतानां त्वमेव परमार्थवित् ॥५-५२-७॥
गृह्यन्ते यदि रोषेण त्वादृशोऽपि विचक्षणाः । ततः शास्त्रविपश्चित्त्वं श्रम एव हि केवलम् ॥५-५२-८॥
तस्मात् प्रसीद शत्रुघ्न राक्षसेन्द्र दुरासद । युक्तायुक्तं विनिश्चित्य दूतदण्डो विधीयताम् ॥५-५२-९॥
विभीषणवचः श्रुत्वा रावणो राक्षसेश्वरः । कोपेन महताऽऽविष्टो वाक्यमुत्तरमब्रवीत् ॥५-५२-१०॥
न पापानां वधे पापं विद्यते शत्रुसूदन । तस्मादिमं वधिष्यामि वानरं पापकारिणम् ॥५-५२-११॥
अधर्ममूलं बहुदोषयुक्तमनार्यजुष्टं वचनं निशम्य । उवाच वाक्यं परमार्थतत्त्वं विभीषणो बुद्धिमतां वरिष्ठः ॥५-५२-१२॥
प्रसीद लङ्केश्वर राक्षसेन्द्र धर्मार्थतत्त्वं वचनं शृणुष्व । दूता न वध्याः समयेषु राजन् सर्वेषु सर्वत्र वदन्ति सन्तः ॥५-५२-१३॥
असंशयं शत्रुरयं प्रवृद्धः कृतं ह्यनेनाप्रियमप्रमेयम् । न दूतवध्यां प्रवदन्ति सन्तो दूतस्य दृष्टा बहवो हि दण्डाः ॥५-५२-१४॥
वैरूप्यमङ्गेषु कशाभिघातो मौण्ड्यं तथा लक्षणसंनिपातः । एतान् हि दूते प्रवदन्ति दण्डान् वधस्तु दूतस्य न नः श्रुतोऽस्ति ॥५-५२-१५॥
कथं च धर्मार्थविनीतबुद्धिः परावरप्रत्ययनिश्चितार्थः । भवद्विधः कोपवशे हि तिष्ठेत् कोपं न गच्छन्ति हि सत्त्ववन्तः ॥५-५२-१६॥
न धर्मवादे न च लोकवृत्ते न शास्त्रबुद्धिग्रहणेषु वापि । विद्येत कश्चित्तव वीर तुल्यस्त्वं ह्युत्तमः सर्वसुरासुराणाम् ॥५-५२-१७॥
पराक्रमोत्साहमनस्विनां च सुरासुराणामपि दुर्जयेन । त्वयाप्रमेयेण सुरेन्द्रसङ्घा जिताश्च युद्धेष्वसकृन्नरेन्द्राः ॥५-५२-१८॥
इत्थंविधस्यामरदैत्यशत्रोः शूरस्य वीरस्य तवाजितस्य । कुर्वन्ति वीरा मनसाप्यलीकं प्राणैर्विमुक्ता न तु भोः पुरा ते ॥५-५२-१९॥
न चाप्यस्य कपेर्घाते कंचित् पश्याम्यहं गुणम् । तेष्वयं पात्यतां दण्डो यैरयं प्रेषितः कपिः ॥५-५२-२०॥
साधुर्वा यदि वासाधुः परैरेष समर्पितः । ब्रुवन् परार्थं परवान् न दूतो वधमर्हति ॥५-५२-२१॥
अपि चास्मिन् हते नान्यं राजन् पश्यामि खेचरम् । इह यः पुनरागच्छेत् परं पारं महोदधेः ॥५-५२-२२॥
तस्मान्नास्य वधे यत्नः कार्यः परपुरंजय । भवान् सेन्द्रेषु देवेषु यत्नमास्थातुमर्हति ॥५-५२-२३॥
अस्मिन् विनष्टे नहि भूतमन्यं पश्यामि यस्तौ नरराजपुत्रौ । युद्धाय युद्धप्रिय दुर्विनीतावुद्योजयेद् वै भवता विरुद्धौ ॥५-५२-२४॥
पराक्रमोत्साहमनस्विनां च सुरासुराणामपि दुर्जयेन । त्वया मनोनन्दन नैर्ऋतानां युद्धाय निर्नाशयितुं न युक्तम् ॥५-५२-२५॥
हिताश्च शूराश्च समाहिताश्च कुलेषु जाताश्च महागुणेषु । मनस्विनः शस्त्रभृतां वरिष्ठाः कोपप्रशस्ताः सुभृताश्च योधाः ॥५-५२-२६॥
तदेकदेशेन बलस्य तावत् केचित् तवादेशकृतोऽद्य यान्तु । तौ राजपुत्रावुपगृह्य मूढौ परेषु ते भावयितुं प्रभावम् ॥५-५२-२७॥
निशाचराणामधिपोऽनुजस्य विभीषणस्योत्तमवाक्यमिष्टम् । जग्राह बुद्ध्या सुरलोकशत्रुर्महाबलो राक्षसराजमुख्यः ॥५-५२-२८॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे दूतवधनिवारणम् नाम द्विपञ्चाशः सर्गः ॥५-५२॥