लङ्कादाहः
सुन्दरकाण्डः / लङ्कादाहः
Script
Translation
Previous
पावकशैत्यम्
Next
हनूमद्विभ्रमः
अथ श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे लङ्कादाहः नाम चतुःपञ्चाशः सर्गः ॥५-५४॥
वीक्षमाणस्ततो लङ्कां कपिः कृतमनोरथः ।
वर्धमानसमुत्साहः कार्यशेषमचिन्तयत् ॥५-५४-१॥
किं नु खल्ववशिष्टं मे कर्तव्यमिह साम्प्रतम् ।
यदेषां रक्षसां भूयः संतापजननं भवेत् ॥५-५४-२॥
वनं तावत्प्रमथितं प्रकृष्टा राक्षसा हताः ।
बलैकदेशः क्षपितः शेषं दुर्गविनाशनम् ॥५-५४-३॥
दुर्गे विनाशिते कर्म भवेत् सुखपरिश्रमम् ।
अल्पयत्नेन कार्येऽस्मिन् मम स्यात् सफलः श्रमः ॥५-५४-४॥
यो ह्ययं मम लाङ्गूले दीप्यते हव्यवाहनः ।
अस्य संतर्पणं न्याय्यं कर्तुमेभिर्गृहोत्तमैः ॥५-५४-५॥
ततः प्रदीप्तलाङ्गूलः सविद्युदिव तोयदः ।
भवनाग्रेषु लङ्काया विचचार महाकपिः ॥५-५४-६॥
गृहाद् गृहं राक्षसानामुद्यानानि च वानरः ।
वीक्षमाणो ह्यसंत्रस्तः प्रासादांश्च चचार सः ॥५-५४-७॥
अवप्लुत्य महावेगः प्रहस्तस्य निवेशनम् ।
अग्निं तत्र विनिक्षिप्य श्वसनेन समो बली ॥५-५४-८॥
ततोऽन्यत् पुप्लुवे वेश्म महापार्श्वस्य वीर्यवान् ।
मुमोच हनुमानग्निं कालानलशिखोपमम् ॥५-५४-९॥
वज्रदंष्ट्रस्य च तथा पुप्लुवे स महाकपिः ।
शुकस्य च महातेजाः सारणस्य च धीमतः ॥५-५४-१०॥
तथा चेन्द्रजितो वेश्म ददाह हरियूथपः ।
जम्बुमालेः सुमालेश्च ददाह भवनं ततः ॥५-५४-११॥
रश्मिकेतोश्च भवनं सूर्यशत्रोस्तथैव च ।
ह्रस्वकर्णस्य दंष्ट्रस्य रोमशस्य च रक्षसः ॥५-५४-१२॥
युद्धोन्मत्तस्य मत्तस्य ध्वजग्रीवस्य रक्षसः ।
विद्युज्जिह्वस्य घोरस्य तथा हस्तिमुखस्य च ॥५-५४-१३॥
करालस्य विशालस्य शोणिताक्षस्य चैव हि ।
कुम्भकर्णस्य भवनं मकराक्षस्य चैव हि ॥५-५४-१४॥
नरान्तकस्य कुम्भस्य निकुम्भस्य दुरात्मनः ।
यज्ञशत्रोश्च भवनं ब्रह्मशत्रोस्तथैव च ॥५-५४-१५॥
वर्जयित्वा महातेजा विभीषणगृहं प्रति ।
क्रममाणः क्रमेणैव ददाह हरिपुङ्गवः ॥५-५४-१६॥
तेषु तेषु महार्हेषु भवनेषु महायशाः ।
गृहेष्वृद्धिमतामृद्धिं ददाह कपिकुञ्जरः ॥५-५४-१७॥
सर्वेषां समतिक्रम्य राक्षसेन्द्रस्य वीर्यवान् ।
आससादाथ लक्ष्मीवान् रावणस्य निवेशनम् ॥५-५४-१८॥
ततस्तस्मिन् गृहे मुख्ये नानारत्नविभूषिते ।
मेरुमन्दरसंकाशे नानामङ्गलशोभिते ॥५-५४-१९॥
प्रदीप्तमग्निमुत्सृज्य लाङ्गूलाग्रे प्रतिष्ठितम् ।
ननाद हनुमान् वीरो युगान्तजलदो यथा ॥५-५४-२०॥
श्वसनेन च संयोगादतिवेगो महाबलः ।
कालाग्निरिव जज्वाल प्रावर्धत हुताशनः ॥५-५४-२१॥
प्रदीप्तमग्निं पवनस्तेषु वेश्मसु चारयन् ।
तानि काञ्चनजालानि मुक्तामणिमयानि च ॥५-५४-२२॥
भवनानि व्यशीर्यन्त रत्नवन्ति महान्ति च ।
तानि भग्नविमानानि निपेतुर्वसुधातले ॥५-५४-२३॥
भवनानीव सिद्धानामम्बरात् पुण्यसंक्षये ।
संजज्ञे तुमुलः शब्दो राक्षसानां प्रधावताम् ॥५-५४-२४॥
स्वे स्वे गृहपरित्राणे भग्नोत्साहोज्झितश्रियाम् ।
नूनमेषोऽग्निरायातः कपिरूपेण हा इति ॥५-५४-२५॥
क्रन्दन्त्यः सहसा पेतुः स्तनंधयधराः स्त्रियः ।
काश्चिदग्निपरीताङ्ग्यो हर्म्येभ्यो मुक्तमूर्धजाः ॥५-५४-२६॥
पतन्त्योरेजिरेऽभ्रेभ्यः सौदामन्य इवाम्बरात् ।
वज्रविद्रुमवैदूर्यमुक्तारजतसंहतान् ॥५-५४-२७॥
विचित्रान् भवनाद्धातून् स्यन्दमानान् ददर्श सः ।
नाग्निस्तृप्यति काष्ठानां तृणानां च यथा तथा ॥५-५४-२८॥
हनूमान् राक्षसेन्द्राणां वधे किंचिन्न तृप्यति ।
न हनूमद्विशस्तानां राक्षसानां वसुन्धरा ॥५-५४-२९॥
हनूमता वेगवता वानरेण महात्मना ।
लङ्कापुरं प्रदग्धं तद् रुद्रेण त्रिपुरं यथा ॥५-५४-३०॥
ततः स लङ्कापुरपर्वताग्रे समुत्थितो भीमपराक्रमोऽग्निः ।
प्रसार्य चूडावलयं प्रदीप्तो हनूमता वेगवतोपसृष्टः ॥५-५४-३१॥
युगान्तकालानलतुल्यरूपः समारुतोऽग्निर्ववृधे दिवस्पृक् ।
विधूमरश्मिर्भवनेषु सक्तो रक्षःशरीराज्यसमर्पितार्चिः ॥५-५४-३२॥
आदित्यकोटीसदृशः सुतेजा लङ्कां समस्तां परिवार्य तिष्ठन् ।
शब्दैरनेकैरशनिप्ररूढैर्भिन्दन्निवाण्डं प्रबभौ महाग्निः ॥५-५४-३३॥
तत्राम्बरादग्निरतिप्रवृद्धो रूक्षप्रभः किंशुकपुष्पचूडः ।
निर्वाणधूमाकुलराजयश्च नीलोत्पलाभाः प्रचकाशिरेऽभ्राः ॥५-५४-३४॥
वज्री महेन्द्रस्त्रिदशेश्वरो वा साक्षाद् यमो वा वरुणोऽनिलो वा ।
रौद्रोऽग्निरर्को धनदश्च सोमो न वानरोऽयं स्वयमेव कालः ॥५-५४-३५॥
किं ब्रह्मणः सर्वपितामहस्य लोकस्य धातुश्चतुराननस्य ।
इहागतो वानररूपधारी रक्षोपसंहारकरः प्रकोपः ॥५-५४-३६॥
किं वैष्णवं वा कपिरूपमेत्य रक्षोविनाशाय परं सुतेजः ।
अचिन्त्यमव्यक्तमनन्तमेकं स्वमायया साम्प्रतमागतं वा ॥५-५४-३७॥
इत्येवमूचुर्बहवो विशिष्टा रक्षोगणास्तत्र समेत्य सर्वे ।
सप्राणिसङ्घां सगृहां सवृक्षां दग्धां पुरीं तां सहसा समीक्ष्य ॥५-५४-३८॥
ततस्तु लङ्का सहसा प्रदग्धा सराक्षसा साश्वरथा सनागा ।
सपक्षिसङ्घा समृगा सवृक्षा रुरोद दीना तुमुलं सशब्दम् ॥५-५४-३९॥
हा तात हा पुत्रक कान्त मित्र हा जीवितेशाङ्ग हतं सुपुण्यम् ।
रक्षोभिरेवं बहुधा ब्रुवद्भिः शब्दः कृतो घोरतरः सुभीमः ॥५-५४-४०॥
हुताशनज्वालसमावृता सा हतप्रवीरा परिवृत्तयोधा ।
हनूमतः क्रोधबलाभिभूता बभूव शापोपहतेव लङ्का ॥५-५४-४१॥
ससम्भ्रमं त्रस्तविषण्णराक्षसां समुज्ज्वलज्ज्वालहुताशनाङ्किताम् ।
ददर्श लङ्कां हनुमान् महामनाः स्वयंभुरोषोपहतामिवावनिम् ॥५-५४-४२॥
भङ्क्त्वा वनं पादपरत्नसंकुलं हत्वा तु रक्षांसि महान्ति संयुगे ।
दग्ध्वा पुरीं तां गृहरत्नमालिनीं तस्थौ हनूमान् पवनात्मजः कपिः ॥५-५४-४३॥
स राक्षसांस्तान् सुबहूंश्च हत्वा वनं च भङ्क्त्वा बहुपादपं तत् ।
विसृज्य रक्षोभवनेषु चाग्निं जगाम रामं मनसा महात्मा ॥५-५४-४४॥
ततस्तु तं वानरवीरमुख्यं महाबलं मारुततुल्यवेगम् ।
महामतिं वायुसुतं वरिष्ठं प्रतुष्टुवुर्देवगणाश्च सर्वे ॥५-५४-४५॥
देवाश्च सर्वे मुनिपुङ्गवाश्च गन्धर्वविद्याधरपन्नगाश्च ।
भूतानि सर्वाणि महान्ति तत्र जग्मुः परां प्रीतिमतुल्यरूपाम् ॥५-५४-४६॥
भङ्क्त्वा वनं महातेजा हत्वा रक्षांसि संयुगे ।
दग्ध्वा लङ्कापुरीं भीमां रराज स महाकपिः ॥५-५४-४७॥
गृहाग्र्यशृङ्गाग्रतले विचित्रे प्रतिष्ठितो वानरराजसिंहः ।
प्रदीप्तलाङ्गूलकृतार्चिमाली व्यराजतादित्य इवार्चिमाली ॥५-५४-४८॥
लङ्कां समस्तां सम्पीड्य लाङ्गूलाग्निं महाकपिः ।
निर्वापयामास तदा समुद्रे हरिपुङ्गवः ॥५-५४-४९॥
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।
दृष्ट्वा लङ्कां प्रदग्धां तां विस्मयं परमं गताः ॥५-५४-५०॥
तं दृष्ट्वा वानरश्रेष्ठं हनूमन्तं महाकपिम् ।
कालाग्निरिति संचिन्त्य सर्वभूतानि तत्रसुः ॥५-५४-५१॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे लङ्कादाहः नाम चतुःपञ्चाशः सर्गः ॥५-५४॥
Previous
पावकशैत्यम्
Next
हनूमद्विभ्रमः