हनुमदुपदेशः
सुन्दरकाण्डः / हनुमदुपदेशः
Script
Translation
Previous
प्रहस्तप्रश्नः
Next
दूतवधनिवारणम्
अथ श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे हनुमदुपदेशः नाम एकपञ्चाशः सर्गः ॥५-५१॥
तं समीक्ष्य महासत्त्वं सत्त्ववान् हरिसत्तमः ।
वाक्यमर्थवदव्यग्रस्तमुवाच दशाननम् ॥५-५१-१॥
अहं सुग्रीवसंदेशादिह प्राप्तस्तवान्तिके ।
राक्षसेश हरीशस्त्वां भ्राता कुशलमब्रवीत् ॥५-५१-२॥
भ्रातुः श्रृणु समादेशं सुग्रीवस्य महात्मनः ।
धर्मार्थसहितं वाक्यमिह चामुत्र च क्षमम् ॥५-५१-३॥
राजा दशरथो नाम रथकुञ्जरवाजिमान् ।
पितेव बन्धुर्लोकस्य सुरेश्वरसमद्युतिः ॥५-५१-४॥
ज्येष्ठस्तस्य महाबाहुः पुत्रः प्रियतरः प्रभुः ।
पितुर्निदेशान्निष्क्रान्तः प्रविष्टो दण्डकावनम् ॥५-५१-५॥
लक्ष्मणेन सह भ्राता सीतया सह भार्यया ।
रामो नाम महातेजा धर्म्यं पन्थानमाश्रितः ॥५-५१-६॥
तस्य भार्या जनस्थाने भ्रष्टा सीतेति विश्रुता ।
वैदेहस्य सुता राज्ञो जनकस्य महात्मनः ॥५-५१-७॥
मार्गमाणस्तु तां देवीं राजपुत्रः सहानुजः ।
ऋष्यमूकमनुप्राप्तः सुग्रीवेण च संगतः ॥५-५१-८॥
तस्य तेन प्रतिज्ञातं सीतायाः परिमार्गणम् ।
सुग्रीवस्यापि रामेण हरिराज्यं निवेदितुम् ॥५-५१-९॥
ततस्तेन मृधे हत्वा राजपुत्रेण वालिनम् ।
सुग्रीवः स्थापितो राज्ये हर्यृक्षाणां गणेश्वरः ॥५-५१-१०॥
त्वया विज्ञातपूर्वश्च वाली वानरपुङ्गवः ।
स तेन निहतः संख्ये शरेणैकेन वानरः ॥५-५१-११॥
स सीतामार्गणे व्यग्रः सुग्रीवः सत्यसंगरः ।
हरीन् सम्प्रेषयामास दिशः सर्वा हरीश्वरः ॥५-५१-१२॥
तां हरीणां सहस्राणि शतानि नियुतानि च ।
दिक्षु सर्वासु मार्गन्ते ह्यधश्चोपरि चाम्बरे ॥५-५१-१३॥
वैनतेयसमाः केचित् केचित् तत्रानिलोपमाः ।
असङ्गगतयः शीघ्रा हरिवीरा महाबलाः ॥५-५१-१४॥
अहं तु हनुमान्नाम मारुतस्यौरसः सुतः ।
सीतायास्तु कृते तूर्णं शतयोजनमायतम् ॥५-५१-१५॥
समुद्रं लङ्घयित्वैव त्वां दिदृक्षुरिहागतः ।
भ्रमता च मया दृष्टा गृहे ते जनकात्मजा ॥५-५१-१६॥
तद् भवान् दृष्टधर्मार्थस्तपःकृतपरिग्रहः ।
परदारान् महाप्राज्ञ नोपरोद्धुं त्वमर्हसि ॥५-५१-१७॥
नहि धर्मविरुद्धेषु बह्वपायेषु कर्मसु ।
मूलघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः ॥५-५१-१८॥
कश्च लक्ष्मणमुक्तानां रामकोपानुवर्तिनाम् ।
शराणामग्रतः स्थातुं शक्तो देवासुरेष्वपि ॥५-५१-१९॥
न चापि त्रिषु लोकेषु राजन् विद्येत कश्चन ।
राघवस्य व्यलीकं यः कृत्वा सुखमवाप्नुयात् ॥५-५१-२०॥
तत् त्रिकालहितं वाक्यं धर्म्यमर्थानुयायि च ।
मन्यस्व नरदेवाय जानकी प्रतिदीयताम् ॥५-५१-२१॥
दृष्टा हीयं मया देवी लब्धं यदिह दुर्लभम् ।
उत्तरं कर्म यच्छेषं निमित्तं तत्र राघवः ॥५-५१-२२॥
लक्षितेयं मया सीता तथा शोकपरायणा ।
गृहे यां नाभिजानासि पञ्चास्यामिव पन्नगीम् ॥५-५१-२३॥
नेयं जरयितुं शक्या सासुरैरमरैरपि ।
विषसंस्पृष्टमत्यर्थं भुक्तमन्नमिवौजसा ॥५-५१-२४॥
तपःसंतापलब्धस्ते सोऽयं धर्मपरिग्रहः ।
न स नाशयितुं न्याय्य आत्मप्राणपरिग्रहः ॥५-५१-२५॥
अवध्यतां तपोभिर्यां भवान् समनुपश्यति ।
आत्मनः सासुरैर्देवैर्हेतुस्तत्राप्ययं महान् ॥५-५१-२६॥
सुग्रीवो न च देवोऽयं न यक्षो न च राक्षसः ।
मानुषो राघवो राजन् सुग्रीवश्च हरीश्वरः ।
तस्मात् प्राणपरित्राणं कथं राजन् करिष्यसि ॥५-५१-२७॥
न तु धर्मोपसंहारमधर्मफलसंहितम् ।
तदेव फलमन्वेति धर्मश्चाधर्मनाशनः ॥५-५१-२८॥
प्राप्तं धर्मफलं तावद् भवता नात्र संशयः ।
फलमस्याप्यधर्मस्य क्षिप्रमेव प्रपत्स्यसे ॥५-५१-२९॥
जनस्थानवधं बुद्ध्वा वालिनश्च वधं तथा ।
रामसुग्रीवसख्यं च बुद्ध्यस्व हितमात्मनः ॥५-५१-३०॥
कामं खल्वहमप्येकः सवाजिरथकुञ्जराम् ।
लङ्कां नाशयितुं शक्तस्तस्यैष तु न निश्चयः ॥५-५१-३१॥
रामेण हि प्रतिज्ञातं हर्यृक्षगणसंनिधौ ।
उत्सादनममित्राणां सीता यैस्तु प्रधर्षिता ॥५-५१-३२॥
अपकुर्वन् हि रामस्य साक्षादपि पुरंदरः ।
न सुखं प्राप्नुयादन्यः किं पुनस्त्वद्विधो जनः ॥५-५१-३३॥
यां सीतेत्यभिजानासि येयं तिष्ठति ते गृहे ।
कालरात्रीति तां विद्धि सर्वलङ्काविनाशिनीम् ॥५-५१-३४॥
तदलं कालपाशेन सीताविग्रहरूपिणा ।
स्वयं स्कन्धावसक्तेन क्षेममात्मनि चिन्त्यताम् ॥५-५१-३५॥
सीतायास्तेजसा दग्धां रामकोपप्रदीपिताम् ।
दह्यमानामिमां पश्य पुरीं साट्टप्रतोलिकाम् ॥५-५१-३६॥
स्वानि मित्राणि मन्त्रींश्च ज्ञातीन् भ्रातॄन् सुतान्हितान् ।
भोगान् दारांश्च लङ्कां च मा विनाशमुपानय ॥५-५१-३७॥
सत्यं राक्षसराजेन्द्र शृणुष्व वचनं मम ।
रामदासस्य दूतस्य वानरस्य विशेषतः ॥५-५१-३८॥
सर्वाल्ँ लोकान् सुसंहृत्य सभूतान् सचराचरान् ।
पुनरेव तथा स्रष्टुं शक्तो रामो महायशाः ॥५-५१-३९॥
देवासुरनरेन्द्रेषु यक्षरक्षोरगेषु च ।
विद्याधरेषु नागेषु गन्धर्वेषु मृगेषु च ॥५-५१-४०॥
सिद्धेषु किंनरेन्द्रेषु पतत्त्रिषु च सर्वतः ।
सर्वत्र सर्वभूतेषु सर्वकालेषु नास्ति सः ॥५-५१-४१॥
यो रामं प्रति युध्येत विष्णुतुल्यपराक्रमम् ।
सर्वलोकेश्वरस्येह कृत्वा विप्रियमीदृशम् ।
रामस्य राजसिंहस्य दुर्लभं तव जीवितम् ॥५-५१-४२॥
देवाश्च दैत्याश्च निशाचरेन्द्र गन्धर्वविद्याधरनागयक्षाः ।
रामस्य लोकत्रयनायकस्य स्थातुं न शक्ताः समरेषु सर्वे ॥५-५१-४३॥
ब्रह्मा स्वयम्भूश्चतुराननो वा रुद्रस्त्रिनेत्रस्त्रिपुरान्तको वा ।
इन्द्रो महेन्द्रः सुरनायको वा स्थातुं न शक्ता युधि राघवस्य ॥५-५१-४४॥
स सौष्ठवोपेतमदीनवादिनः कपेर्निशम्याप्रतिमोऽप्रियं वचः ।
दशाननः कोपविवृत्तलोचनः समादिशत् तस्य वधं महाकपेः ॥५-५१-४५॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे हनुमदुपदेशः नाम एकपञ्चाशः सर्गः ॥५-५१॥
Previous
प्रहस्तप्रश्नः
Next
दूतवधनिवारणम्