प्रहस्तप्रश्नः

सुन्दरकाण्डः / प्रहस्तप्रश्नः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे प्रहस्तप्रश्नः नाम पञ्चाशः सर्गः ॥५-५०॥
तमुद्वीक्ष्य महाबाहुः पिङ्गाक्षं पुरतः स्थितम् । रोषेण महताऽऽविष्टो रावणो लोकरावणः ॥५-५०-१॥
शङ्काहतात्मा दध्यौ स कपीन्द्रं तेजसा वृतम् । किमेष भगवान् नन्दी भवेत् साक्षादिहागतः ॥५-५०-२॥
येन शप्तोऽस्मि कैलासे मया प्रहसिते पुरा । सोऽयं वानरमूर्तिः स्यात्किंस्विद् बाणोऽपि वासुरः ॥५-५०-३॥
स राजा रोषताम्राक्षः प्रहस्तं मन्त्रिसत्तमम् । कालयुक्तमुवाचेदं वचो विपुलमर्थवत् ॥५-५०-४॥
दुरात्मा पृच्छ्यतामेष कुतः किं वास्य कारणम् । वनभङ्गे च कोऽस्यार्थो राक्षसानां च तर्जने ॥५-५०-५॥
मत्पुरीमप्रधृष्यां वै गमने किं प्रयोजनम् । आयोधने वा कं कार्यं पृच्छ्यतामेष दुर्मतिः ॥५-५०-६॥
रावणस्य वचः श्रुत्वा प्रहस्तो वाक्यमब्रवीत् । समाश्वसिहि भद्रं ते न भीः कार्या त्वया कपे ॥५-५०-७॥
यदि तावत् त्वमिन्द्रेण प्रेषितो रावणालयम् । तत्त्वमाख्याहि मा ते भूद् भयं वानर मोक्ष्यसे ॥५-५०-८॥
यदि वैश्रवणस्य त्वं यमस्य वरुणस्य च । चारुरूपमिदं कृत्वा प्रविष्टो नः पुरीमिमाम् ॥५-५०-९॥
विष्णुना प्रेषितो वापि दूतो विजयकाङ्क्षिणा । नहि ते वानरं तेजो रूपमात्रं तु वानरम् ॥५-५०-१०॥
तत्त्वतः कथयस्वाद्य ततो वानर मोक्ष्यसे । अनृतं वदतश्चापि दुर्लभं तव जीवितम् ॥५-५०-११॥
अथवा यन्निमित्तस्ते प्रवेशो रावणालये । एवमुक्तो हरिवरस्तदा रक्षोगणेश्वरम् ॥५-५०-१२॥
अब्रवीन्नास्मि शक्रस्य यमस्य वरुणस्य च । धनदेन न मे सख्यं विष्णुना नास्मि चोदितः ॥५-५०-१३॥
जातिरेव मम त्वेषा वानरोऽहमिहागतः । दर्शने राक्षसेन्द्रस्य तदिदं दुर्लभं मया ॥५-५०-१४॥
वनं राक्षसराजस्य दर्शनार्थं विनाशितम् । ततस्ते राक्षसाः प्राप्ता बलिनो युद्धकाङ्क्षिणः ॥५-५०-१५॥
रक्षणार्थं च देहस्य प्रतियुद्धा मया रणे । अस्त्रपाशैर्न शक्योऽहं बद्धुं देवासुरैरपि ॥५-५०-१६॥
पितामहादेष वरो ममापि हि समागतः । राजानं द्रष्टुकामेन मयास्त्रमनुवर्तितम् ॥५-५०-१७॥
विमुक्तोऽप्यहमस्त्रेण राक्षसैस्त्वभिवेदितः । केनचिद् रामकार्येण आगतोऽस्मि तवान्तिकम् ॥५-५०-१८॥
दूतोऽहमिति विज्ञाय राघवस्यामितौजसः । श्रूयतामेव वचनं मम पथ्यमिदं प्रभो ॥५-५०-१९॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे प्रहस्तप्रश्नः नाम पञ्चाशः सर्गः ॥५-५०॥