प्रहस्तप्रश्नः
सुन्दरकाण्डः / प्रहस्तप्रश्नः
Script
Translation
Previous
रावणप्रभावदर्शनम्
Next
हनुमदुपदेशः
अथ श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे प्रहस्तप्रश्नः नाम पञ्चाशः सर्गः ॥५-५०॥
तमुद्वीक्ष्य महाबाहुः पिङ्गाक्षं पुरतः स्थितम् ।
रोषेण महताऽऽविष्टो रावणो लोकरावणः ॥५-५०-१॥
शङ्काहतात्मा दध्यौ स कपीन्द्रं तेजसा वृतम् ।
किमेष भगवान् नन्दी भवेत् साक्षादिहागतः ॥५-५०-२॥
येन शप्तोऽस्मि कैलासे मया प्रहसिते पुरा ।
सोऽयं वानरमूर्तिः स्यात्किंस्विद् बाणोऽपि वासुरः ॥५-५०-३॥
स राजा रोषताम्राक्षः प्रहस्तं मन्त्रिसत्तमम् ।
कालयुक्तमुवाचेदं वचो विपुलमर्थवत् ॥५-५०-४॥
दुरात्मा पृच्छ्यतामेष कुतः किं वास्य कारणम् ।
वनभङ्गे च कोऽस्यार्थो राक्षसानां च तर्जने ॥५-५०-५॥
मत्पुरीमप्रधृष्यां वै गमने किं प्रयोजनम् ।
आयोधने वा कं कार्यं पृच्छ्यतामेष दुर्मतिः ॥५-५०-६॥
रावणस्य वचः श्रुत्वा प्रहस्तो वाक्यमब्रवीत् ।
समाश्वसिहि भद्रं ते न भीः कार्या त्वया कपे ॥५-५०-७॥
यदि तावत् त्वमिन्द्रेण प्रेषितो रावणालयम् ।
तत्त्वमाख्याहि मा ते भूद् भयं वानर मोक्ष्यसे ॥५-५०-८॥
यदि वैश्रवणस्य त्वं यमस्य वरुणस्य च ।
चारुरूपमिदं कृत्वा प्रविष्टो नः पुरीमिमाम् ॥५-५०-९॥
विष्णुना प्रेषितो वापि दूतो विजयकाङ्क्षिणा ।
नहि ते वानरं तेजो रूपमात्रं तु वानरम् ॥५-५०-१०॥
तत्त्वतः कथयस्वाद्य ततो वानर मोक्ष्यसे ।
अनृतं वदतश्चापि दुर्लभं तव जीवितम् ॥५-५०-११॥
अथवा यन्निमित्तस्ते प्रवेशो रावणालये ।
एवमुक्तो हरिवरस्तदा रक्षोगणेश्वरम् ॥५-५०-१२॥
अब्रवीन्नास्मि शक्रस्य यमस्य वरुणस्य च ।
धनदेन न मे सख्यं विष्णुना नास्मि चोदितः ॥५-५०-१३॥
जातिरेव मम त्वेषा वानरोऽहमिहागतः ।
दर्शने राक्षसेन्द्रस्य तदिदं दुर्लभं मया ॥५-५०-१४॥
वनं राक्षसराजस्य दर्शनार्थं विनाशितम् ।
ततस्ते राक्षसाः प्राप्ता बलिनो युद्धकाङ्क्षिणः ॥५-५०-१५॥
रक्षणार्थं च देहस्य प्रतियुद्धा मया रणे ।
अस्त्रपाशैर्न शक्योऽहं बद्धुं देवासुरैरपि ॥५-५०-१६॥
पितामहादेष वरो ममापि हि समागतः ।
राजानं द्रष्टुकामेन मयास्त्रमनुवर्तितम् ॥५-५०-१७॥
विमुक्तोऽप्यहमस्त्रेण राक्षसैस्त्वभिवेदितः ।
केनचिद् रामकार्येण आगतोऽस्मि तवान्तिकम् ॥५-५०-१८॥
दूतोऽहमिति विज्ञाय राघवस्यामितौजसः ।
श्रूयतामेव वचनं मम पथ्यमिदं प्रभो ॥५-५०-१९॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे प्रहस्तप्रश्नः नाम पञ्चाशः सर्गः ॥५-५०॥
Previous
रावणप्रभावदर्शनम्
Next
हनुमदुपदेशः