रावणप्रभावदर्शनम्
सुन्दरकाण्डः / रावणप्रभावदर्शनम्
Script
Translation
Previous
इन्द्रजिदभियोगः
Next
प्रहस्तप्रश्नः
अथ श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे रावणप्रभावदर्शनम् नाम एकोनपञ्चाशः सर्गः ॥५-४९॥
ततः स कर्मणा तस्य विस्मितो भीमविक्रमः ।
हनूमान् क्रोधताम्राक्षो रक्षोऽधिपमवैक्षत ॥५-४९-१॥
भ्राजमानं महार्हेण काञ्चनेन विराजता ।
मुक्ताजालवृतेनाथ मुकुटेन महाद्युतिम् ॥५-४९-२॥
वज्रसंयोगसंयुक्तैर्महार्हमणिविग्रहैः ।
हैमैराभरणैश्चित्रैर्मनसेव प्रकल्पितैः ॥५-४९-३॥
महार्हक्षौमसंवीतं रक्तचन्दनरूषितम् ।
स्वनुलिप्तं विचित्राभिर्विविधाभिश्च भक्तिभिः ॥५-४९-४॥
विचित्रं दर्शनीयैश्च रक्ताक्षैर्भीमदर्शनैः ।
दीप्ततीक्ष्णमहादंष्ट्रं प्रलम्बं दशनच्छदैः ॥५-४९-५॥
शिरोभिर्दशभिर्वीरो भ्राजमानं महौजसम् ।
नानाव्यालसमाकीर्णैः शिखरैरिव मन्दरम् ॥५-४९-६॥
नीलाञ्जनचयप्रख्यं हारेणोरसि राजता ।
पूर्णचन्द्राभवक्त्रेण सबालार्कमिवाम्बुदम् ॥५-४९-७॥
बाहुभिर्बद्धकेयूरैश्चन्दनोत्तमरूषितैः ।
भ्राजमानाङ्गदैर्भीमैः पञ्चशीर्षैरिवोरगैः ॥५-४९-८॥
महति स्फाटिके चित्रे रत्नसंयोगचित्रिते ।
उत्तमास्तरणास्तीर्णे सूपविष्टं वरासने ॥५-४९-९॥
अलंकृताभिरत्यर्थं प्रमदाभिः समन्ततः ।
वालव्यजनहस्ताभिरारात्समुपसेवितम् ॥५-४९-१०॥
दुर्धरेण प्रहस्तेन महापार्श्वेन रक्षसा ।
मन्त्रिभिर्मन्त्रतत्त्वज्ञैर्निकुम्भेन च मन्त्रिणा ॥५-४९-११॥
उपोपविष्टं रक्षोभिश्चतुर्भिर्बलदर्पितम् ।
कृत्स्नं परिवृतं लोकं चतुर्भिरिव सागरैः ॥५-४९-१२॥
मन्त्रिभिर्मन्त्रतत्त्वज्ञैरन्यैश्च शुभदर्शिभिः ।
आश्वास्यमानं सचिवैः सुरैरिव सुरेश्वरम् ॥५-४९-१३॥
अपश्यद् राक्षसपतिं हनूमानतितेजसम् ।
वेष्टितं मेरुशिखरे सतोयमिव तोयदम् ॥५-४९-१४॥
स तैः सम्पीड्यमानोऽपि रक्षोभिर्भीमविक्रमैः ।
विस्मयं परमं गत्वा रक्षोऽधिपमवैक्षत ॥५-४९-१५॥
भ्राजमानं ततो दृष्ट्वा हनुमान् राक्षसेश्वरम् ।
मनसा चिन्तयामास तेजसा तस्य मोहितः ॥५-४९-१६॥
अहो रूपमहो धैर्यमहो सत्त्वमहो द्युतिः ।
अहो राक्षसराजस्य सर्वलक्षणयुक्तता ॥५-४९-१७॥
यद्यधर्मो न बलवान् स्यादयं राक्षसेश्वरः ।
स्यादयं सुरलोकस्य सशक्रस्यापि रक्षिता ॥५-४९-१८॥
अस्य क्रूरैर्नृशंसैश्च कर्मभिर्लोककुत्सितैः ।
सर्वे बिभ्यति खल्वस्माल्लोकाः सामरदानवाः ॥५-४९-१९॥
अयं ह्युत्सहते क्रुद्धः कर्तुमेकार्णवं जगत् ।
इति चिन्तां बहुविधामकरोन्मतिमान् कपिः ।
दृष्ट्वा राक्षसराजस्य प्रभावममितौजसः ॥५-४९-२०॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे रावणप्रभावदर्शनम् नाम एकोनपञ्चाशः सर्गः ॥५-४९॥
Previous
इन्द्रजिदभियोगः
Next
प्रहस्तप्रश्नः