भवनविचयः

सुन्दरकाण्डः / भवनविचयः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे भवनविचयः नाम पञ्चमः सर्गः ॥५-५॥
ततः स मध्यंगतमंशुमन्तं ज्योत्स्नावितानं मुहुरुद्वमन्तम् । ददर्श धीमान् भुवि भानुमन्तं गोष्ठे वृषं मत्तमिव भ्रमन्तम् ॥५-५-१॥
लोकस्य पापानि विनाशयन्तं महोदधिं चापि समेधयन्तम् । भूतानि सर्वाणि विराजयन्तं ददर्श शीतांशुमथाभियान्तम् ॥५-५-२॥
या भाति लक्ष्मीर्भुवि मन्दरस्था यथा प्रदोषेषु च सागरस्था । तथैव तोयेषु च पुष्करस्था रराज सा चारुनिशाकरस्था ॥५-५-३॥
हंसो यथा राजतपञ्जरस्थः सिंहो यथा मन्दरकन्दरस्थः । वीरो यथा गर्वितकुञ्जरस्थश्चन्द्रोऽपि बभ्राज तथाम्बरस्थः ॥५-५-४॥
स्थितः ककुद्मानिव तीक्ष्णशृङ्गो महाचलः श्वेत इवोर्ध्वशृङ्गः । हस्तीव जाम्बूनदबद्धशृङ्गो विभाति चन्द्रः परिपूर्णशृङ्गः ॥५-५-५॥
विनष्टशीताम्बुतुषारपङ्को महाग्रहग्राहविनष्टपङ्कः । प्रकाशलक्ष्म्याश्रयनिर्मलाङ्को रराज चन्द्रो भगवान् शशाङ्कः ॥५-५-६॥
शिलातलं प्राप्य यथा मृगेन्द्रो महारणं प्राप्य यथा गजेन्द्रः । राज्यं समासाद्य यथा नरेन्द्रस्तथा प्रकाशो विरराज चन्द्रः ॥५-५-७॥
प्रकाशचन्द्रोदयनष्टदोषः प्रवृद्धरक्षःपिशिताशदोषः । रामाभिरामेरितचित्तदोषः स्वर्गप्रकाशो भगवान् प्रदोषः ॥५-५-८॥
तन्त्रीस्वराः कर्णसुखाः प्रवृत्ताः स्वपन्ति नार्यः पतिभिः सुवृत्ताः । नक्तंचराश्चापि तथा प्रवृत्ता विहर्तुमत्यद्भुतरौद्रवृत्ताः ॥५-५-९॥
मत्तप्रमत्तानि समाकुलानि रथाश्वभद्रासनसंकुलानि । वीरश्रिया चापि समाकुलानि ददर्श धीमान् स कपिः कुलानि ॥५-५-१०॥
परस्परं चाधिकमाक्षिपन्ति भुजांश्च पीनानधिविक्षिपन्ति । मत्तप्रलापानधिविक्षिपन्ति मत्तानि चान्योन्यमधिक्षिपन्ति ॥५-५-११॥
रक्षांसि वक्षांसि च विक्षिपन्ति गात्राणि कान्तासु च विक्षिपन्ति । रूपाणि चित्राणि च विक्षिपन्ति दृढानि चापानि च विक्षिपन्ति ॥५-५-१२॥
ददर्श कान्ताश्च समालभन्त्यस्तथापरास्तत्र पुनः स्वपन्त्यः । सुरूपवक्त्राश्च तथा हसन्त्यः क्रुद्धाः पराश्चापि विनिःश्वसन्त्यः ॥५-५-१३॥
महागजैश्चापि तथा नदद्भिः सुपूजितैश्चापि तथा सुसद्भिः । रराज वीरैश्च विनिःश्वसद्भिर्ह्रदा भुजंगैरिव निःश्वसद्भिः ॥५-५-१४॥
बुद्धिप्रधानान् रुचिराभिधानान् संश्रद्दधानाञ्जगतः प्रधानान् । नानाविधानान् रुचिराभिधानान् ददर्श तस्यां पुरि यातुधानान् ॥५-५-१५॥
ननन्द दृष्ट्वा स च तान् सुरूपान् नानागुणानात्मगुणानुरूपान् । विद्योतमानान् स च तान् सुरूपान् ददर्श कांश्चिच्च पुनर्विरूपान् ॥५-५-१६॥
ततो वरार्हाः सुविशुद्धभावास्तेषां स्त्रियस्तत्र महानुभावाः । प्रियेषु पानेषु च सक्तभावा ददर्श तारा इव सुस्वभावाः ॥५-५-१७॥
स्त्रियो ज्वलन्तीस्त्रपयोपगूढा निशीथकाले रमणोपगूढाः । ददर्श काश्चित् प्रमदोपगूढा यथा विहंगा विहगोपगूढाः ॥५-५-१८॥
अन्याः पुनर्हर्म्यतलोपविष्टास्तत्र प्रियाङ्केषु सुखोपविष्टाः । भर्तुः परा धर्मपरा निविष्टा ददर्श धीमान् मदनोपविष्टाः ॥५-५-१९॥
अप्रावृताः काञ्चनराजिवर्णाः काश्चित्परार्घ्यास्तपनीयवर्णाः । पुनश्च काश्चिच्छशलक्ष्मवर्णाः कान्तप्रहीणा रुचिराङ्गवर्णाः ॥५-५-२०॥
ततः प्रियान् प्राप्य मनोऽभिरामान् सुप्रीतियुक्ताः सुमनोऽभिरामाः । गृहेषु हृष्टाः परमाभिरामा हरिप्रवीरः स ददर्श रामाः ॥५-५-२१॥
चन्द्रप्रकाशाश्च हि वक्त्रमाला वक्राः सुपक्ष्माश्च सुनेत्रमालाः । विभूषणानां च ददर्श मालाः शतह्रदानामिव चारुमालाः ॥५-५-२२॥
न त्वेव सीतां परमाभिजातां पथि स्थिते राजकुले प्रजाताम् । लतां प्रफुल्लामिव साधुजातां ददर्श तन्वीं मनसाभिजाताम् ॥५-५-२३॥
सनातने वर्त्मनि संनिविष्टां रामेक्षणीं तां मदनाभिविष्टाम् । भर्तुर्मनः श्रीमदनुप्रविष्टां स्त्रीभ्यः पराभ्यश्च सदा विशिष्टाम् ॥५-५-२४॥
उष्णार्दितां सानुसृतास्रकण्ठीं पुरा वरार्होत्तमनिष्ककण्ठीम् । सुजातपक्ष्मामभिरक्तकण्ठीं वने प्रनृत्तामिव नीलकण्ठीम् ॥५-५-२५॥
अव्यक्तरेखामिव चन्द्रलेखां पांसुप्रदिग्धामिव हेमरेखाम् । क्षतप्ररूढामिव वर्णरेखां वायुप्रभुग्नामिव मेघरेखाम् ॥५-५-२६॥
सीतामपश्यन्मनुजेश्वरस्य रामस्य पत्नीं वदतां वरस्य । बभूव दुःखोपहतश्चिरस्य प्लवंगमो मन्द इवाचिरस्य ॥५-५-२७॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे भवनविचयः नाम पञ्चमः सर्गः ॥५-५॥