लङ्कापुरीप्रवेशः

सुन्दरकाण्डः / लङ्कापुरीप्रवेशः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे लङ्कापुरीप्रवेशः नाम चतुर्थः सर्गः ॥५-४॥
स निर्जित्य पुरीं लंकां श्रेष्ठां तां कामरूपिणीम् । विक्रमेण महातेजा हनूमान् कपिसत्तमः ॥५-४-१॥
अद्वारेण महावीर्यः प्राकारमवपुप्लुवे । निशि लंकां महासत्त्वो विवेश कपिकुञ्जरः ॥५-४-२॥
प्रविश्य नगरीं लंकां कपिराजहितंकरः । चक्रेऽथ पादं सव्यं च शत्रूणां स तु मूर्धनि ॥५-४-३॥
प्रविष्टः सत्त्वसम्पन्नो निशायां मारुतात्मजः । स महापथमास्थाय मुक्तपुष्पविराजितम् ॥५-४-४॥
ततस्तु तां पुरीं लंकां रम्यामभिययौ कपिः । हसितोत्कृष्टनिनदैस्तूर्यघोषपुरस्कृतैः ॥५-४-५॥
वज्राङ्कुशनिकाशैश्च वज्रजालविभूषितैः । गृहमेघैः पुरी रम्या बभासे द्यौरिवाम्बुदैः ॥५-४-६॥
प्रजज्वाल तदा लंका रक्षोगणगृहैः शुभैः । सिताभ्रसदृशैश्चित्रैः पद्मस्वस्तिकसंस्थितैः ॥५-४-७॥
वर्धमानगृहैश्चापि सर्वतः सुविभूषितैः । तां चित्रमाल्याभरणां कपिराजहितंकरः ॥५-४-८॥
राघवार्थे चरन् श्रीमान् ददर्श च ननन्द च । भवनाद् भवनं गच्छन् ददर्श कपिकुञ्जरः ॥५-४-९॥
विविधाकृतिरूपाणि भवनानि ततस्ततः । शुश्राव रुचिरं गीतं त्रिस्थानस्वरभूषितम् ॥५-४-१०॥
स्त्रीणां मदनविद्धानां दिवि चाप्सरसामिव । शुश्राव काञ्चीनिनदं नूपुराणां च निःस्वनम् ॥५-४-११॥
सोपाननिनदांश्चापि भवनेषु महात्मनाम् । आस्फोटितनिनादांश्च क्ष्वेडितांश्च ततस्ततः ॥५-४-१२॥
शुश्राव जपतां तत्र मन्त्रान् रक्षोगृहेषु वै । स्वाध्यायनिरतांश्चैव यातुधानान् ददर्श सः ॥५-४-१३॥
रावणस्तवसंयुक्तान् गर्जतो राक्षसानपि । राजमार्गं समावृत्य स्थितं रक्षोगणं महत् ॥५-४-१४॥
ददर्श मध्यमे गुल्मे राक्षसस्य चरान् बहून् । दीक्षिताञ्जटिलान् मुण्डान् गोजिनाम्बरवाससः ॥५-४-१५॥
दर्भमुष्टिप्रहरणानग्निकुण्डायुधांस्तथा । कूटमुद्गरपाणींश्च दण्डायुधधरानपि ॥५-४-१६॥
एकाक्षानेकवर्णांश्च लंबोदरपयोधरान् । करालान् भुग्नवक्त्रांश्च विकटान् वामनांस्तथा ॥५-४-१७॥
धन्विनः खड्गिनश्चैव शतघ्नीमुसलायुधान् । परिघोत्तमहस्तांश्च विचित्रकवचोज्ज्वलान् ॥५-४-१८॥
नातिस्थूलान् नातिकृशान् नातिदीर्घातिह्रस्वकान् । नातिगौरान् नातिकृष्णान्नातिकुब्जान्न वामनान् ॥५-४-१९॥
विरूपान् बहुरूपांश्च सुरूपांश्च सुवर्चसः । ध्वजिनः पताकिनश्चैव ददर्श विविधायुधान् ॥५-४-२०॥
शक्तिवृक्षायुधांश्चैव पट्टिशाशनिधारिणः । क्षेपणीपाशहस्तांश्च ददर्श स महाकपिः ॥५-४-२१॥
स्रग्विणस्त्वनुलिप्तांश्च वराभरणभूषितान् । नानावेषसमायुक्तान् यथास्वैरचरान् बहून् ॥५-४-२२॥
तीक्ष्णशूलधरांश्चैव वज्रिणश्च महाबलान् । शतसाहस्रमव्यग्रमारक्षं मध्यमं कपिः ॥५-४-२३॥
रक्षोऽधिपतिनिर्दिष्टं ददर्शान्तःपुराग्रतः । स तदा तद् गृहं दृष्ट्वा महाहाटकतोरणम् ॥५-४-२४॥
राक्षसेन्द्रस्य विख्यातमद्रिमूर्ध्नि प्रतिष्ठितम् । पुण्डरीकावतंसाभिः परिखाभिः समावृतम् ॥५-४-२५॥
प्राकारावृतमत्यन्तं ददर्श स महाकपिः । त्रिविष्टपनिभं दिव्यं दिव्यनादविनादितम् ॥५-४-२६॥
वाजिह्रेषितसंघुष्टं नादितं भूषणैस्तथा । रथैर्यानैर्विमानैश्च तथा हयगजैः शुभैः ॥५-४-२७॥
वारणैश्च चतुर्दन्तैः श्वेताभ्रनिचयोपमैः । भूषितै रुचिरद्वारं मत्तैश्च मृगपक्षिभिः ॥५-४-२८॥
रक्षितं सुमहावीर्यैर्यातुधानैः सहस्रशः । राक्षसाधिपतेर्गुप्तमाविवेश गृहं कपिः ॥५-४-२९॥
स हेमजाम्बूनदचक्रवालं महार्हमुक्तामणि भूषितान्तम् । परार्घ्यकालागुरुचन्दनार्हं स रावणान्तःपुरमाविवेश ॥५-४-३०॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे लङ्कापुरीप्रवेशः नाम चतुर्थः सर्गः ॥५-४॥