रावणगृहावेक्षणम्

सुन्दरकाण्डः / रावणगृहावेक्षणम्

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे रावणगृहावेक्षणम् नाम षष्ठः सर्गः ॥५-६॥
स निकामं विमानेषु विचरन् कामरूपधृक् । विचचार कपिर्लङ्कां लाघवेन समन्वितः ॥५-६-१॥
आससाद च लक्ष्मीवान् राक्षसेन्द्रनिवेशनम् । प्राकारेणार्कवर्णेन भास्वरेणाभिसंवृतम् ॥५-६-२॥
रक्षितं राक्षसैर्भीमैः सिंहैरिव महद् वनम् । समीक्षमाणो भवनं चकाशे कपिकुञ्जरः ॥५-६-३॥
रूप्यकोपहितैश्चित्रैस्तोरणैर्हेमभूषणैः । विचित्राभिश्च कक्ष्याभिर्द्वारैश्च रुचिरैर्वृतम् ॥५-६-४॥
गजास्थितैर्महामात्रैः शूरैश्च विगतश्रमैः । उपस्थितमसंहार्यैर्हयैः स्यन्दनयायिभिः ॥५-६-५॥
सिंहव्याघ्रतनुत्राणैर्दान्तकाञ्चनराजतीः । घोषवद्भिर्विचित्रैश्च सदा विचरितं रथैः ॥५-६-६॥
बहुरत्नसमाकीर्णं परार्घ्यासनभूषितम् । महारथसमावापं महारथमहासनम् ॥५-६-७॥
दृश्यैश्च परमोदारैस्तैस्तैश्च मृगपक्षिभिः । विविधैर्बहुसाहस्रैः परिपूर्णं समन्ततः ॥५-६-८॥
विनीतैरन्तपालैश्च रक्षोभिश्च सुरक्षितम् । मुख्याभिश्च वरस्त्रीभिः परिपूर्णं समन्ततः ॥५-६-९॥
मुदितप्रमदारत्नं राक्षसेन्द्रनिवेशनम् । वराभरणसंह्रादैः समुद्रस्वननिःस्वनम् ॥५-६-१०॥
तद् राजगुणसम्पन्नं मुख्यैश्च वरचन्दनैः । महाजनसमाकीर्णं सिंहैरिव महद् वनम् ॥५-६-११॥
भेरीमृदङ्गाभिरुतं शङ्खघोषविनादितम् । नित्यार्चितं पर्वसुतं पूजितं राक्षसैः सदा ॥५-६-१२॥
समुद्रमिव गम्भीरं समुद्रसमनिःस्वनम् । महात्मनो महद् वेश्म महारत्नपरिच्छदम् ॥५-६-१३॥
महारत्नसमाकीर्णं ददर्श स महाकपिः । विराजमानं वपुषा गजाश्वरथसंकुलम् ॥५-६-१४॥
लंकाभरणमित्येव सोऽमन्यत महाकपिः । चचार हनुमांस्तत्र रावणस्य समीपतः ॥५-६-१५॥
गृहाद् गृहं राक्षसानामुद्यानानि च सर्वशः । वीक्षमाणोऽप्यसंत्रस्तः प्रासादांश्च चचार सः ॥५-६-१६॥
अवप्लुत्य महावेगः प्रहस्तस्य निवेशनम् । ततोऽन्यत् पुप्लुवे वेश्म महापार्श्वस्य वीर्यवान् ॥५-६-१७॥
अथ मेघप्रतीकाशं कुम्भकर्णनिवेशनम् । विभीषणस्य च तथा पुप्लुवे स महाकपिः ॥५-६-१८॥
महोदरस्य च तथा विरूपाक्षस्य चैव हि । विद्युज्जिह्वस्य भवनं विद्युन्मालेस्तथैव च ॥५-६-१९॥
वज्रदंष्ट्रस्य च तथा पुप्लुवे स महाकपिः । शुकस्य च महावेगः सारणस्य च धीमतः ॥५-६-२०॥
तथा चेन्द्रजितो वेश्म जगाम हरियूथपः । जम्बुमालेः सुमालेश्च जगाम हरिसत्तमः ॥५-६-२१॥
रश्मिकेतोश्च भवनं सूर्यशत्रोस्तथैव च । वज्रकायस्य च तथा पुप्लुवे स महाकपिः ॥५-६-२२॥
धूम्राक्षस्याथ सम्पातेर्भवनं मारुतात्मजः । विद्युद्रूपस्य भीमस्य घनस्य विघनस्य च ॥५-६-२३॥
शुकनाभस्य चक्रस्य शठस्य कपटस्य च । ह्रस्वकर्णस्य दंष्ट्रस्य लोमशस्य च रक्षसः ॥५-६-२४॥
युद्धोन्मत्तस्य मत्तस्य ध्वजग्रीवस्य सादिनः । विद्युज्जिह्वद्विजिह्वानां तथा हस्तिमुखस्य च ॥५-६-२५॥
करालस्य पिशाचस्य शोणिताक्षस्य चैव हि । प्लवमानः क्रमेणैव हनुमान् मारुतात्मजः ॥५-६-२६॥
तेषु तेषु महार्हेषु भवनेषु महायशाः । तेषामृद्धिमतामृद्धिं ददर्श स महाकपिः ॥५-६-२७॥
सर्वेषां समतिक्रम्य भवनानि समन्ततः । आससादाथ लक्ष्मीवान् राक्षसेन्द्रनिवेशनम् ॥५-६-२८॥
रावणस्योपशायिन्यो ददर्श हरिसत्तमः । विचरन् हरिशार्दूलो राक्षसीर्विकृतेक्षणाः ॥५-६-२९॥
शूलमुद्गरहस्तांश्च शक्तितोमरधारिणः । ददर्श विविधान्गुल्मांस्तस्य रक्षःपतेर्गृहे ॥५-६-३०॥
राक्षसांश्च महाकायान् नानाप्रहरणोद्यतान् । रक्तान् श्वेतान् सितांश्चापि हरींश्चापि महाजवान् ॥५-६-३१॥
कुलीनान् रूपसम्पन्नान् गजान् परगजारुजान् । शिक्षितान् गजशिक्षायामैरावतसमान् युधि ॥५-६-३२॥
निहन्तॄन् परसैन्यानां गृहे तस्मिन् ददर्श सः । क्षरतश्च यथा मेघान् स्रवतश्च यथा गिरीन् ॥५-६-३३॥
मेघस्तनितनिर्घोषान् दुर्धर्षान् समरे परैः । सहस्रं वाहिनीस्तत्र जाम्बूनदपरिष्कृताः ॥५-६-३४॥
हेमजालैरविच्छिन्नास्तरुणादित्यसंनिभाः । ददर्श राक्षसेन्द्रस्य रावणस्य निवेशने ॥५-६-३५॥
शिबिका विविधाकाराः स कपिर्मारुतात्मजः । लतागृहाणि चित्राणि चित्रशालागृहाणि च ॥५-६-३६॥
क्रीडागृहाणि चान्यानि दारुपर्वतकानि च । कामस्य गृहकं रम्यं दिवागृहकमेव च ॥५-६-३७॥
ददर्श राक्षसेन्द्रस्य रावणस्य निवेशने । स मन्दरसमप्रख्यं मयूरस्थानसंकुलम् ॥५-६-३८॥
ध्वजयष्टिभिराकीर्णं ददर्श भवनोत्तमम् । अनन्तरत्ननिचयं निधिजालं समन्ततः । धीरनिष्ठितकर्माङ्गं गृहं भूतपतेरिव ॥५-६-३९॥
अर्चिर्भिश्चापि रत्नानां तेजसा रावणस्य च । विरराज च तद् वेश्म रश्मिवानिव रश्मिभिः ॥५-६-४०॥
जाम्बूनदमयान्येव शयनान्यासनानि च । भाजनानि च शुभ्राणि ददर्श हरियूथपः ॥५-६-४१॥
मध्वासवकृतक्लेदं मणिभाजनसंकुलम् । मनोरममसम्बाधं कुबेरभवनं यथा ॥५-६-४२॥
नूपुराणां च घोषेण काञ्चीनां निःस्वनेन च । मृदङ्गतलनिर्घोषैर्घोषवद्भिर्विनादितम् ॥५-६-४३॥
प्रासादसंघातयुतं स्त्रीरत्नशतसंकुलम् । सुव्यूढकक्ष्यं हनुमान् प्रविवेश महागृहम् ॥५-६-४४॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे रावणगृहावेक्षणम् नाम षष्ठः सर्गः ॥५-६॥