सेनापतिपञ्चकवधः
सुन्दरकाण्डः / सेनापतिपञ्चकवधः
Script
Translation
Previous
अमात्यपुत्रवधः
Next
अक्षकुमारवधः
अथ श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे सेनापतिपञ्चकवधः नाम षड्चत्वारिंशः सर्गः ॥५-४६॥
हतान् मन्त्रिसुतान् बुद्ध्वा वानरेण महात्मना ।
रावणः संवृताकारश्चकार मतिमुत्तमाम् ॥५-४६-१॥
स विरूपाक्षयूपाक्षौ दुर्धरं चैव राक्षसम् ।
प्रघसं भासकर्णं च पञ्च सेनाग्रनायकान् ॥५-४६-२॥
संदिदेश दशग्रीवो वीरान् नयविशारदान् ।
हनूमद्ग्रहणेऽव्यग्रान् वायुवेगसमान् युधि ॥५-४६-३॥
यात सेनाग्रगाः सर्वे महाबलपरिग्रहाः ।
सवाजिरथमातङ्गाः स कपिः शास्यतामिति ॥५-४६-४॥
यत्तैश्च खलु भाव्यं स्यात् तमासाद्य वनालयम् ।
कर्म चापि समाधेयं देशकालाविरोधितम् ॥५-४६-५॥
न ह्यहं तं कपिं मन्ये कर्मणा प्रति तर्कयन् ।
सर्वथा तन्महद् भूतं महाबलपरिग्रहम् ॥५-४६-६॥
वानरोऽयमिति ज्ञात्वा नहि शुद्ध्यति मे मनः ।
नैवाहं तं कपिं मन्ये यथेयं प्रस्तुता कथा ॥५-४६-७॥
भवेदिन्द्रेण वा सृष्टमस्मदर्थं तपोबलात् ।
सनागयक्षगन्धर्वदेवासुरमहर्षयः ॥५-४६-८॥
युष्माभिः प्रहितैः सर्वैर्मया सह विनिर्जिताः ।
तैरवश्यं विधातव्यं व्यलीकं किंचिदेव नः ॥५-४६-९॥
तदेव नात्र संदेहः प्रसह्य परिगृह्यताम् ।
यात सेनाग्रगाः सर्वे महाबलपरिग्रहाः ॥५-४६-१०॥
सवाजिरथमातङ्गाः स कपिः शास्यतामिति ।
नावमन्यो भवद्भिश्च कपिर्धीरपराक्रमः ॥५-४६-११॥
दृष्टा हि हरयः पूर्वे मया विपुलविक्रमाः ।
वाली च सह सुग्रीवो जाम्बवांश्च महाबलः ॥५-४६-१२॥
नीलः सेनापतिश्चैव ये चान्ये द्विविदादयः ।
नैव तेषां गतिर्भीमा न तेजो न पराक्रमः ॥५-४६-१३॥
न मतिर्न बलोत्साहो न रूपपरिकल्पनम् ।
महत्सत्त्वमिदं ज्ञेयं कपिरूपं व्यवस्थितम् ॥५-४६-१४॥
प्रयत्नं महदास्थाय क्रियतामस्य निग्रहः ।
कामं लोकास्त्रयः सेन्द्राः ससुरासुरमानवाः ॥५-४६-१५॥
भवतामग्रतः स्थातुं न पर्याप्ता रणाजिरे ।
तथापि तु नयज्ञेन जयमाकाङ्क्षता रणे ॥५-४६-१६॥
आत्मा रक्ष्यः प्रयत्नेन युद्धसिद्धिर्हि चञ्चला ।
ते स्वामिवचनं सर्वे प्रतिगृह्य महौजसः ॥५-४६-१७॥
समुत्पेतुर्महावेगा हुताशसमतेजसः ।
रथैश्च मत्तैर्नागैश्च वाजिभिश्च महाजवैः ॥५-४६-१८॥
शस्त्रैश्च विविधैस्तीक्ष्णैः सर्वैश्चोपहिता बलैः ।
ततस्तु ददृशुर्वीरा दीप्यमानं महाकपिम् ॥५-४६-१९॥
रश्मिमन्तमिवोद्यन्तं स्वतेजोरश्मिमालिनम् ।
तोरणस्थं महावेगं महासत्त्वं महाबलम् ॥५-४६-२०॥
महामतिं महोत्साहं महाकायं महाभुजम् ।
तं समीक्ष्यैव ते सर्वे दिक्षु सर्वास्ववस्थिताः ॥५-४६-२१॥
तैस्तैः प्रहरणैर्भीमैरभिपेतुस्ततस्ततः ।
तस्य पञ्चायसास्तीक्ष्णाः सिताः पीतमुखाः शराः ।
शिरस्युत्पलपत्राभा दुर्धरेण निपातिताः ॥५-४६-२२॥
स तैः पञ्चभिराविद्धः शरैः शिरसि वानरः ।
उत्पपात नदन् व्योम्नि दिशो दश विनादयन् ॥५-४६-२३॥
ततस्तु दुर्धरो वीरः सरथः सज्जकार्मुकः ।
किरन् शरशतैर्नैकैरभिपेदे महाबलः ॥५-४६-२४॥
स कपिर्वारयामास तं व्योम्नि शरवर्षिणम् ।
वृष्टिमन्तं पयोदान्ते पयोदमिव मारुतः ॥५-४६-२५॥
अर्द्यमानस्ततस्तेन दुर्धरेणानिलात्मजः ।
चकार निनदं भूयो व्यवर्धत च वीर्यवान् ॥५-४६-२६॥
स दूरं सहसोत्पत्य दुर्धरस्य रथे हरिः ।
निपपात महावेगो विद्युद्राशिर्गिराविव ॥५-४६-२७॥
ततः स मथिताष्टाश्वं रथं भग्नाक्षकूबरम् ।
विहाय न्यपतद् भूमौ दुर्धरस्त्यक्तजीवितः ॥५-४६-२८॥
तं विरूपाक्षयूपाक्षौ दृष्ट्वा निपतितं भुवि ।
तौ जातरोषौ दुर्धर्षावुत्पेततुररिंदमौ ॥५-४६-२९॥
स ताभ्यां सहसोत्प्लुत्य विष्ठितो विमलेऽम्बरे ।
मुद्गराभ्यां महाबाहुर्वक्षस्यभिहतः कपिः ॥५-४६-३०॥
तयोर्वेगवतोर्वेगं निहत्य स महाबलः ।
निपपात पुनर्भूमौ सुपर्ण इव वेगितः ॥५-४६-३१॥
स सालवृक्षमासाद्य समुत्पाट्य च वानरः ।
तावुभौ राक्षसौ वीरौ जघान पवनात्मजः ॥५-४६-३२॥
ततस्तांस्त्रीन् हतान् ज्ञात्वा वानरेण तरस्विना ।
अभिपेदे महावेगः प्रहस्य प्रघसो बली ॥५-४६-३३॥
भासकर्णश्च संक्रुद्धः शूलमादाय वीर्यवान् ।
एकतः कपिशार्दूलं यशस्विनमवस्थितौ ॥५-४६-३४॥
पट्टिशेन शिताग्रेण प्रघसः प्रत्यपोथयत् ।
भासकर्णश्च शूलेन राक्षसः कपिकुञ्जरम् ॥५-४६-३५॥
स ताभ्यां विक्षतैर्गात्रैरसृग्दिग्धतनूरुहः ।
अभवद् वानरः क्रुद्धो बालसूर्यसमप्रभः ॥५-४६-३६॥
समुत्पाट्य गिरेः शृङ्गं समृगव्यालपादपम् ।
जघान हनुमान् वीरो राक्षसौ कपिकुञ्जरः ।
गिरिशृङ्गसुनिष्पिष्टौ तिलशस्तौ बभूवतुः ॥५-४६-३७॥
ततस्तेष्ववसन्नेषु सेनापतिषु पञ्चसु ।
बलं तदवशेषं तु नाशयामास वानरः ॥५-४६-३८॥
अश्वैरश्वान् गजैर्नागान् योधैर्योधान् रथै रथान् ।
स कपिर्नाशयामास सहस्राक्ष इवासुरान् ॥५-४६-३९॥
हयैर्नागैस्तुरंगैश्च भग्नाक्षैश्च महारथैः ।
हतैश्च राक्षसैर्भूमी रुद्धमार्गा समन्ततः ॥५-४६-४०॥
ततः कपिस्तान् ध्वजिनीपतीन् रणे निहत्य वीरान् सबलान् सवाहनान् ।
तथैव वीरः परिगृह्य तोरणं कृतक्षणः काल इव प्रजाक्षये ॥५-४६-४१॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे सेनापतिपञ्चकवधः नाम षड्चत्वारिंशः सर्गः ॥५-४६॥
Previous
अमात्यपुत्रवधः
Next
अक्षकुमारवधः