अक्षकुमारवधः

सुन्दरकाण्डः / अक्षकुमारवधः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे अक्षकुमारवधः नाम सप्तचत्वारिंशः सर्गः ॥५-४७॥
सेनापतीन् पञ्च स तु प्रमापितान् हनूमता सानुचरान् सवाहनान् । निशम्य राजा समरोद्धतोन्मुखं कुमारमक्षं प्रसमैक्षताक्षम् ॥५-४७-१॥
स तस्य दृष्ट्यर्पणसम्प्रचोदितः प्रतापवान् काञ्चनचित्रकार्मुकः । समुत्पपाताथ सदस्युदीरितो द्विजातिमुख्यैर्हविषेव पावकः ॥५-४७-२॥
ततो महान् बालदिवाकरप्रभं प्रतप्तजाम्बूनदजालसंततम् । रथं समास्थाय ययौ स वीर्यवान् महाहरिं तं प्रति नैर्ऋतर्षभः ॥५-४७-३॥
ततस्तपःसंग्रहसंचयार्जितं प्रतप्तजाम्बूनदजालचित्रितम् । पताकिनं रत्नविभूषितध्वजं मनोजवाष्टाश्ववरैः सुयोजितम् ॥५-४७-४॥
सुरासुराधृष्यमसङ्गचारिणं तडित्प्रभं व्योमचरं समाहितम् । सतूणमष्टासिनिबद्धबन्धुरं यथाक्रमावेशितशक्तितोमरम् ॥५-४७-५॥
विराजमानं प्रतिपूर्णवस्तुना सहेमदाम्ना शशिसूर्यवर्चसा । दिवाकराभं रथमास्थितस्ततः स निर्जगामामरतुल्यविक्रमः ॥५-४७-६॥
स पूरयन् खं च महीं च साचलां तुरङ्गमातङ्गमहारथस्वनैः । बलैः समेतैः सहतोरणस्थितं समर्थमासीनमुपागमत् कपिम् ॥५-४७-७॥
स तं समासाद्य हरिं हरीक्षणो युगान्तकालाग्निमिव प्रजाक्षये । अवस्थितं विस्मितजातसम्भ्रमं समैक्षताक्षो बहुमानचक्षुषा ॥५-४७-८॥
स तस्य वेगं च कपेर्महात्मनः पराक्रमं चारिषु रावणात्मजः । विचारयन् स्वं च बलं महाबलो युगक्षये सूर्य इवाभिवर्धत ॥५-४७-९॥
स जातमन्युः प्रसमीक्ष्य विक्रमं स्थितः स्थिरः संयति दुर्निवारणम् । समाहितात्मा हनुमन्तमाहवे प्रचोदयामास शितैः शरैस्त्रिभिः ॥५-४७-१०॥
ततः कपिं तं प्रसमीक्ष्य गर्वितं जितश्रमं शत्रुपराजयोचितम् । अवैक्षताक्षः समुदीर्णमानसं सबाणपाणिः प्रगृहीतकार्मुकः ॥५-४७-११॥
स हेमनिष्काङ्गदचारुकुण्डलः समाससादाशुपराक्रमः कपिम् । तयोर्बभूवाप्रतिमः समागमः सुरासुराणामपि सम्भ्रमप्रदः ॥५-४७-१२॥
ररास भूमिर्न तताप भानुमान् ववौ न वायुः प्रचचाल चाचलः । कपेः कुमारस्य च वीर्यसंयुगं ननाद च द्यौरुदधिश्च चुक्षुभे ॥५-४७-१३॥
स तस्य वीरः सुमुखान् पतत्रिणः सुवर्णपुङ्खान् सविषानिवोरगान् । समाधिसंयोगविमोक्षतत्त्वविच्छरानथ त्रीन् कपिमूर्ध्न्यताडयत् ॥५-४७-१४॥
स तैः शरैर्मूर्ध्नि समं निपातितैः क्षरन्नसृग्दिग्धविवृत्तनेत्रः । नवोदितादित्यनिभः शरांशुमान् व्यराजतादित्य इवांशुमालिकः ॥५-४७-१५॥
ततः प्लवङ्गाधिपमन्त्रिसत्तमः समीक्ष्य तं राजवरात्मजं रणे । उदग्रचित्रायुधचित्रकार्मुकं जहर्ष चापूर्यत चाहवोन्मुखः ॥५-४७-१६॥
स मन्दराग्रस्थ इवांशुमाली विवृद्धकोपो बलवीर्यसंवृतः । कुमारमक्षं सबलं सवाहनं ददाह नेत्राग्निमरीचिभिस्तदा ॥५-४७-१७॥
ततः स बाणासनशक्रकार्मुकः शरप्रवर्षो युधि राक्षसाम्बुदः । शरान् मुमोचाशु हरीश्वराचले बलाहको वृष्टिमिवाचलोत्तमे ॥५-४७-१८॥
कपिस्ततस्तं रणचण्डविक्रमं प्रवृद्धतेजोबलवीर्यसायकम् । कुमारमक्षं प्रसमीक्ष्य संयुगे ननाद हर्षाद् घनतुल्यनिःस्वनः ॥५-४७-१९॥
स बालभावाद् युधि वीर्यदर्पितः प्रवृद्धमन्युः क्षतजोपमेक्षणः । समाससादाप्रतिमं रणे कपिं गजो महाकूपमिवावृतं तृणैः ॥५-४७-२०॥
स तेन बाणैः प्रसभं निपातितैश्चकार नादं घननादनिःस्वनः । समुत्सहेनाशु नभः समारुजन् भुजोरुविक्षेपणघोरदर्शनः ॥५-४७-२१॥
तमुत्पतन्तं समभिद्रवद् बली स राक्षसानां प्रवरः प्रतापवान् । रथी रथश्रेष्ठतरः किरन् शरैः पयोधरः शैलमिवाश्मवृष्टिभिः ॥५-४७-२२॥
स ताञ्छरांस्तस्य हरिर्विमोक्षयंश्चचार वीरः पथि वायुसेविते । शरान्तरे मारुतवद् विनिष्पतन् मनोजवः संयति भीमविक्रमः ॥५-४७-२३॥
तमात्तबाणासनमाहवोन्मुखं खमास्तृणन्तं विविधैः शरोत्तमैः । अवैक्षताक्षं बहुमानचक्षुषा जगाम चिन्तां स च मारुतात्मजः ॥५-४७-२४॥
ततः शरैर्भिन्नभुजान्तरः कपिः कुमारवर्येण महात्मना नदन् । महाभुजः कर्मविशेषतत्त्वविद् विचिन्तयामास रणे पराक्रमम् ॥५-४७-२५॥
अबालवद् बालदिवाकरप्रभः करोत्ययं कर्म महन्महाबलः । न चास्य सर्वाहवकर्मशालिनः प्रमापणे मे मतिरत्र जायते ॥५-४७-२६॥
अयं महात्मा च महांश्च वीर्यतः समाहितश्चातिसहश्च संयुगे । असंशयं कर्मगुणोदयादयं सनागयक्षैर्मुनिभिश्च पूजितः ॥५-४७-२७॥
पराक्रमोत्साहविवृद्धमानसःसमीक्षते मां प्रमुखोऽग्रतः स्थितः । पराक्रमो ह्यस्य मनांसि कम्पयेत् सुरासुराणामपि शीघ्रकारिणः ॥५-४७-२८॥
न खल्वयं नाभिभवेदुपेक्षितः पराक्रमो ह्यस्य रणे विवर्धते । प्रमापणं ह्यस्य ममाद्य रोचते न वर्धमानोऽग्निरुपेक्षितुं क्षमः ॥५-४७-२९॥
इति प्रवेगं तु परस्य तर्कयन् स्वकर्मयोगं च विधाय वीर्यवान् । चकार वेगं तु महाबलस्तदा मतिं च चक्रेऽस्य वधे तदानीम् ॥५-४७-३०॥
स तस्य तानष्ट वरान् महाहयान् समाहितान् भारसहान् विवर्तने । जघान वीरः पथि वायुसेविते तलप्रहारैः पवनात्मजः कपिः ॥५-४७-३१॥
ततस्तलेनाभिहतो महारथः स तस्य पिङ्गाधिपमन्त्रिनिर्जितः । स भग्ननीडः परिवृत्तकूबरः पपात भूमौ हतवाजिरम्बरात् ॥५-४७-३२॥
स तं परित्यज्य महारथो रथं सकार्मुकः खड्गधरः खमुत्पतन् । ततोऽभियोगादृषिरुग्रवीर्यवान् विहाय देहं मरुतामिवालयम् ॥५-४७-३३॥
कपिस्ततस्तं विचरन्तमम्बरे पतत्त्रिराजानिलसिद्धसेविते । समेत्य तं मारुतवेगविक्रमः क्रमेण जग्राह च पादयोर्दृढम् ॥५-४७-३४॥
स तं समाविध्य सहस्रशः कपिर्महोरगं गृह्य इवाण्डजेश्वरः । मुमोच वेगात् पितृतुल्यविक्रमो महीतले संयति वानरोत्तमः ॥५-४७-३५॥
स भग्नबाहूरुकटीपयोधरः क्षरन्नसृङ्निर्मथितास्थिलोचनः । सम्भिन्नसंधिः प्रविकीर्णबन्धनो हतः क्षितौ वायुसुतेन राक्षसः ॥५-४७-३६॥
महाकपिर्भूमितले निपीड्य तं चकार रक्षोऽधिपतेर्महद्भयम् । महर्षिभिश्चक्रचरैः समागतैः समेत्य भूतैश्च सयक्षपन्नगैः । सुरैश्च सेन्द्रैर्भृशजातविस्मयैर्हते कुमारे स कपिर्निरीक्षितः ॥५-४७-३७॥
निहत्य तं वज्रिसुतोपमं रणे कुमारमक्षं क्षतजोपमेक्षणम् । तदेव वीरोऽभिजगाम तोरणं कृतक्षणः काल इव प्रजाक्षये ॥५-४७-३८॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे अक्षकुमारवधः नाम सप्तचत्वारिंशः सर्गः ॥५-४७॥