अमात्यपुत्रवधः
सुन्दरकाण्डः / अमात्यपुत्रवधः
Script
Translation
Previous
जम्बुमालिवधः
Next
सेनापतिपञ्चकवधः
अथ श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे अमात्यपुत्रवधः नाम पञ्चचत्वारिंशः सर्गः ॥५-४५॥
ततस्ते राक्षसेन्द्रेण चोदिता मन्त्रिणः सुताः ।
निर्ययुर्भवनात् तस्मात् सप्त सप्तार्चिवर्चसः ॥५-४५-१॥
महद्बलपरीवारा धनुष्मन्तो महाबलाः ।
कृतास्त्रास्त्रविदां श्रेष्ठाः परस्परजयैषिणः ॥५-४५-२॥
हेमजालपरिक्षिप्तैर्ध्वजवद्भिः पताकिभिः ।
तोयदस्वननिर्घोषैर्वाजियुक्तैर्महारथैः ॥५-४५-३॥
तप्तकाञ्चनचित्राणि चापान्यमितविक्रमाः ।
विस्फारयन्तः संहृष्टास्तडिद्वन्त इवाम्बुदाः ॥५-४५-४॥
जनन्यस्तास्ततस्तेषां विदित्वा किंकरान् हतान् ।
बभूवुः शोकसम्भ्रान्ताः सबान्धवसुहृज्जनाः ॥५-४५-५॥
ते परस्परसंघर्षात् तप्तकाञ्चनभूषणाः ।
अभिपेतुर्हनूमन्तं तोरणस्थमवस्थितम् ॥५-४५-६॥
सृजन्तो बाणवृष्टिं ते रथगर्जितनिःस्वनाः ।
प्रावृट्काल इवाम्भोदा विचेरुर्नैर्ऋताम्बुदाः ॥५-४५-७॥
अवकीर्णस्ततस्ताभिर्हनूमान् शरवृष्टिभिः ।
अभवत् संवृताकारः शैलराडिव वृष्टिभिः ॥५-४५-८॥
स शरान् वञ्चयामास तेषामाशुचरः कपिः ।
रथवेगांश्च वीराणां विचरन् विमलेऽम्बरे ॥५-४५-९॥
स तैः क्रीडन् धनुष्मद्भिर्व्योम्नि वीरः प्रकाशते ।
धनुष्मद्भिर्यथा मेघैर्मारुतः प्रभुरम्बरे ॥५-४५-१०॥
स कृत्वा निनदं घोरं त्रासयंस्तां महाचमूम् ।
चकार हनुमान् वेगं तेषु रक्षःसु वीर्यवान् ॥५-४५-११॥
तलेनाभिहनत् कांश्चित् पादैः कांश्चित् परंतपः ।
मुष्टिभिश्चाहनत् कांश्चिन्नखैः कांश्चिद् व्यदारयत् ॥५-४५-१२॥
प्रममाथोरसा कांश्चिदूरुभ्यामपरानपि ।
केचित् तस्यैव नादेन तत्रैव पतिता भुवि ॥५-४५-१३॥
ततस्तेष्ववसन् नेषु भूमौ निपतितेषु च ।
तत्सैन्यमगमत् सर्वं दिशो दश भयार्दितम् ॥५-४५-१४॥
विनेदुर्विस्वरं नागा निपेतुर्भुवि वाजिनः ।
भग्ननीडध्वजच्छत्रैर्भूश्च कीर्णाभवद् रथैः ॥५-४५-१५॥
स्रवता रुधिरेणाथ स्रवन्त्यो दर्शिताः पथि ।
विविधैश्च स्वनैर्लङ्का ननाद विकृतं तदा ॥५-४५-१६॥
स तान् प्रवृद्धान् विनिहत्य राक्षसान् महाबलश्चण्डपराक्रमः कपिः ।
युयुत्सुरन्यैः पुनरेव राक्षसैस्तदेव वीरोऽभिजगाम तोरणम् ॥५-४५-१७॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे अमात्यपुत्रवधः नाम पञ्चचत्वारिंशः सर्गः ॥५-४५॥
Previous
जम्बुमालिवधः
Next
सेनापतिपञ्चकवधः