किंकरनिषूदनम्
सुन्दरकाण्डः / किंकरनिषूदनम्
Script
Translation
Previous
प्रमदावनभञ्जनम्
Next
चैत्यप्रासाददाहः
अथ श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे किंकरनिषूदनम् नाम द्विचत्वारिंशः सर्गः ॥५-४२॥
ततः पक्षिनिनादेन वृक्षभङ्गस्वनेन च ।
बभूवुस्त्राससम्भ्रान्ताः सर्वे लङ्कानिवासिनः ॥५-४२-१॥
विद्रुताश्च भयत्रस्ता विनेदुर्मृगपक्षिणः ।
रक्षसां च निमित्तानि क्रूराणि प्रतिपेदिरे ॥५-४२-२॥
ततो गतायां निद्रायां राक्षस्यो विकृताननाः ।
तद् वनं ददृशुर्भग्नं तं च वीरं महाकपिम् ॥५-४२-३॥
स ता दृष्ट्वा महाबाहुर्महासत्त्वो महाबलः ।
चकार सुमहद्रूपं राक्षसीनां भयावहम् ॥५-४२-४॥
ततस्तु गिरिसंकाशमतिकायं महाबलम् ।
राक्षस्यो वानरं दृष्ट्वा पप्रच्छुर्जनकात्मजाम् ॥५-४२-५॥
कोऽयं कस्य कुतो वायं किंनिमित्तमिहागतः ।
कथं त्वया सहानेन संवादः कृत इत्युत ॥५-४२-६॥
आचक्ष्व नो विशालाक्षि मा भूत्ते सुभगे भयम् ।
संवादमसितापाङ्गि त्वया किं कृतवानयम् ॥५-४२-७॥
अथाब्रवीत् तदा साध्वी सीता सर्वाङ्गशोभना ।
रक्षसां कामरूपाणां विज्ञाने का गतिर्मम ॥५-४२-८॥
यूयमेवास्य जानीत योऽयं यद् वा करिष्यति ।
अहिरेव ह्यहेः पादान् विजानाति न संशयः ॥५-४२-९॥
अहमप्यतिभीतास्मि नैव जानामि को ह्ययम् ।
वेद्मि राक्षसमेवैनं कामरूपिणमागतम् ॥५-४२-१०॥
वैदेह्या वचनं श्रुत्वा राक्षस्यो विद्रुता द्रुतम् ।
स्थिताः काश्चिद्गताः काश्चिद् रावणाय निवेदितुम् ॥५-४२-११॥
रावणस्य समीपे तु राक्षस्यो विकृताननाः ।
विरूपं वानरं भीमं रावणाय न्यवेदिषुः ॥५-४२-१२॥
अशोकवनिकामध्ये राजन् भीमवपुः कपिः ।
सीतया कृतसंवादस्तिष्ठत्यमितविक्रमः ॥५-४२-१३॥
न च तं जानकी सीता हरिं हरिणलोचना ।
अस्माभिर्बहुधा पृष्टा निवेदयितुमिच्छति ॥५-४२-१४॥
वासवस्य भवेद् दूतो दूतो वैश्रवणस्य वा ।
प्रेषितो वापि रामेण सीतान्वेषणकाङ्क्षया ॥५-४२-१५॥
तेनैवाद्भुतरूपेण यत्तत्तव मनोहरम् ।
नानामृगगणाकीर्णं प्रमृष्टं प्रमदावनम् ॥५-४२-१६॥
न तत्र कश्चिदुद्देशो यस्तेन न विनाशितः ।
यत्र सा जानकी देवी स तेन न विनाशितः ॥५-४२-१७॥
जानकीरक्षणार्थं वा श्रमाद् वा नोपलक्ष्यते ।
अथवा कः श्रमस्तस्य सैव तेनाभिरक्षिता ॥५-४२-१८॥
चारुपल्लवपत्राढ्यं यं सीता स्वयमास्थिता ।
प्रवृद्धः शिंशपावृक्षः स च तेनाभिरक्षितः ॥५-४२-१९॥
तस्योग्ररूपस्योग्रं त्वं दण्डमाज्ञातुमर्हसि ।
सीता सम्भाषिता येन वनं तेन विनाशितम् ॥५-४२-२०॥
मनःपरिगृहीतां तां तव रक्षोगणेश्वर ।
कः सीतामभिभाषेत यो न स्यात् त्यक्तजीवितः ॥५-४२-२१॥
राक्षसीनां वचः श्रुत्वा रावणो राक्षसेश्वरः ।
चिताग्निरिव जज्वाल कोपसंवर्तितेक्षणः ॥५-४२-२२॥
तस्य क्रुद्धस्य नेत्राभ्यां प्रापतन्नश्रुबिन्दवः ।
दीप्ताभ्यामिव दीपाभ्यां सार्चिषः स्नेहबिन्दवः ॥५-४२-२३॥
आत्मनः सदृशान् वीरान् किंकरान्नाम राक्षसान् ।
व्यादिदेश महातेजा निग्रहार्थं हनूमतः ॥५-४२-२४॥
तेषामशीतिसाहस्रं किंकराणां तरस्विनाम् ।
निर्ययुर्भवनात् तस्मात् कूटमुद्गरपाणयः ॥५-४२-२५॥
महोदरा महादंष्ट्रा घोररूपा महाबलाः ।
युद्धाभिमनसः सर्वे हनूमद्ग्रहणोन्मुखाः ॥५-४२-२६॥
ते कपिं तं समासाद्य तोरणस्थमवस्थितम् ।
अभिपेतुर्महावेगाः पतंगा इव पावकम् ॥५-४२-२७॥
ते गदाभिर्विचित्राभिः परिघैः काञ्चनाङ्गदैः ।
आजग्मुर्वानरश्रेष्ठं शरैरादित्यसंनिभैः ॥५-४२-२८॥
मुद्गरैः पट्टिशैः शूलैः प्रासतोमरपाणयः ।
परिवार्य हनूमन्तं सहसा तस्थुरग्रतः ॥५-४२-२९॥
हनूमानपि तेजस्वी श्रीमान् पर्वतसंनिभः ।
क्षितावाविद्ध्य लाङ्गूलं ननाद च महाध्वनिम् ॥५-४२-३०॥
स भूत्वा तु महाकायो हनूमान् मारुतात्मजः ।
पुच्छमास्फोटयामास लङ्कां शब्देन पूरयन् ॥५-४२-३१॥
तस्यास्फोटितशब्देन महता चानुनादिना ।
पेतुर्विहङ्गा गगनादुच्चैश्चेदमघोषयत् ॥५-४२-३२॥
जयत्यतिबलो रामो लक्ष्मणश्च महाबलः ।
राजा जयति सुग्रीवो राघवेणाभिपालितः ॥५-४२-३३॥
दासोऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः ।
हनूमान् शत्रुसैन्यानां निहन्ता मारुतात्मजः ॥५-४२-३४॥
न रावणसहस्रं मे युद्धे प्रतिबलं भवेत् ।
शिलाभिश्च प्रहरतः पादपैश्च सहस्रशः ॥५-४२-३५॥
अर्दयित्वा पुरीं लङ्कामभिवाद्य च मैथिलीम् ।
समृद्धार्थो गमिष्यामि मिषतां सर्वरक्षसाम् ॥५-४२-३६॥
तस्य संनादशब्देन तेऽभवन् भयशङ्किताः ।
ददृशुश्च हनूमन्तं संध्यामेघमिवोन्नतम् ॥५-४२-३७॥
स्वामिसंदेशनिःशङ्कास्ततस्ते राक्षसाः कपिम् ।
चित्रैः प्रहरणैर्भीमैरभिपेतुस्ततस्ततः ॥५-४२-३८॥
स तैः परिवृतः शूरैः सर्वतः स महाबलः ।
आससादायसं भीमं परिघं तोरणाश्रितम् ॥५-४२-३९॥
स तं परिघमादाय जघान रजनीचरान् ।
सपन्नगमिवादाय स्फुरन्तं विनतासुतः ॥५-४२-४०॥
विचचाराम्बरे वीरः परिगृह्य च मारुतिः ।
सूदयामास वज्रेण दैत्यानिव सहस्रदृक् ॥५-४२-४१॥
स हत्वा राक्षसान् वीरः किंकरान् मारुतात्मजः ।
युद्धाकाङ्क्षी महावीरस्तोरणं समवस्थितः ॥५-४२-४२॥
ततस्तस्माद् भयान्मुक्ताः कतिचित्तत्र राक्षसाः ।
निहतान् किंकरान् सर्वान् रावणाय न्यवेदयन् ॥५-४२-४३॥
स राक्षसानां निहतं महाबलं निशम्य राजा परिवृत्तलोचनः ।
समादिदेशाप्रतिमं पराक्रमे प्रहस्तपुत्रं समरे सुदुर्जयम् ॥५-४२-४४॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे किंकरनिषूदनम् नाम द्विचत्वारिंशः सर्गः ॥५-४२॥
Previous
प्रमदावनभञ्जनम्
Next
चैत्यप्रासाददाहः