चैत्यप्रासाददाहः

सुन्दरकाण्डः / चैत्यप्रासाददाहः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे चैत्यप्रासाददाहः नाम त्रिचत्वारिशः सर्गः ॥५-४३॥
ततः स किंकरान् हत्वा हनूमान् ध्यानमास्थितः । वनं भग्नं मया चैत्यप्रासादो न विनाशितः ॥५-४३-१॥
तस्मात् प्रासादमद्यैवमिमं विध्वंसयाम्यहम् । इति संचिन्त्य हनुमान् मनसादर्शयन् बलम् ॥५-४३-२॥
चैत्यप्रासादमुत्प्लुत्य मेरुशृङ्गमिवोन्नतम् । आरुरोह हरिश्रेष्ठो हनूमान् मारुतात्मजः ॥५-४३-३॥
आरुह्य गिरिसंकाशं प्रासादं हरियूथपः । बभौ स सुमहातेजाः प्रतिसूर्य इवोदितः ॥५-४३-४॥
सम्प्रधृष्य तु दुर्धर्षश्चैत्यप्रासादमुन्नतम् । हनूमान् प्रज्वलँल्लक्ष्म्या पारियात्रोपमोऽभवत् ॥५-४३-५॥
स भूत्वा सुमहाकायः प्रभावान् मारुतात्मजः । धृष्टमास्फोटयामास लङ्कां शब्देन पूरयन् ॥५-४३-६॥
तस्यास्फोटितशब्देन महता श्रोत्रघातिना । पेतुर्विहंगमास्तत्र चैत्यपालाश्च मोहिताः ॥५-४३-७॥
अस्त्रविज्जयतां रामो लक्ष्मणश्च महाबलः । राजा जयति सुग्रीवो राघवेणाभिपालितः ॥५-४३-८॥
दासोऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः । हनूमान् शत्रुसैन्यानां निहन्ता मारुतात्मजः ॥५-४३-९॥
न रावणसहस्रं मे युद्धे प्रतिबलं भवेत् । शिलाभिश्च प्रहरतः पादपैश्च सहस्रशः ॥५-४३-१०॥
धर्षयित्वा पुरीं लङ्कामभिवाद्य च मैथिलीम् । समृद्धार्थो गमिष्यामि मिषतां सर्वरक्षसाम् ॥५-४३-११॥
एवमुक्त्वा महाकायश्चैत्यस्थो हरियूथपः । ननाद भीमनिर्ह्रादो रक्षसां जनयन् भयम् ॥५-४३-१२॥
तेन नादेन महता चैत्यपालाः शतं ययुः । गृहीत्वा विविधानस्त्रान् प्रासान् खड्गान् परश्वधान् ॥५-४३-१३॥
विसृजन्तो महाकाया मारुतिं पर्यवारयन् । ते गदाभिर्विचित्राभिः परिघैः काञ्चनाङ्गदैः ॥५-४३-१४॥
आजग्मुर्वानरश्रेष्ठं बाणैश्चादित्यसंनिभैः । आवर्त इव गङ्गायास्तोयस्य विपुलो महान् ॥५-४३-१५॥
परिक्षिप्य हरिश्रेष्ठं स बभौ रक्षसां गणः । ततो वातात्मजः क्रुद्धो भीमरूपं समास्थितः ॥५-४३-१६॥
प्रासादस्य महांस्तस्य स्तम्भं हेमपरिष्कृतम् । उत्पाटयित्वा वेगेन हनूमान् मारुतात्मजः ॥५-४३-१७॥
ततस्तं भ्रामयामास शतधारं महाबलः । तत्र चाग्निः समभवत् प्रासादश्चाप्यदह्यत ॥५-४३-१८॥
दह्यमानं ततो दृष्ट्वा प्रासादं हरियूथपः । स राक्षसशतं हत्वा वज्रेणेन्द्र इवासुरान् ॥५-४३-१९॥
अन्तरिक्षस्थितः श्रीमानिदं वचनमब्रवीत् । मादृशानां सहस्राणि विसृष्टानि महात्मनाम् ॥५-४३-२०॥
बलिनां वानरेन्द्राणां सुग्रीववशवर्तिनाम् । अटन्ति वसुधां कृत्स्नां वयमन्ये च वानराः ॥५-४३-२१॥
दशनागबलाः केचित् केचिद् दशगुणोत्तराः । केचिन्नागसहस्रस्य बभूवुस्तुल्यविक्रमाः ॥५-४३-२२॥
सन्ति चौघबलाः केचित् सन्ति वायुबलोपमाः । अप्रमेयबलाः केचित् तत्रासन् हरियूथपाः ॥५-४३-२३॥
ईदृग्विधैस्तु हरिभिर्वृतो दन्तनखायुधैः । शतैः शतसहस्रैश्च कोटिभिश्चायुतैरपि ॥५-४३-२४॥
आगमिष्यति सुग्रीवः सर्वेषां वो निषूदनः । नेयमस्ति पुरी लङ्का न यूयं न च रावणः । यस्य त्विक्ष्वाकुवीरेण बद्धं वैरं महात्मना ॥५-४३-२५॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे चैत्यप्रासाददाहः नाम त्रिचत्वारिशः सर्गः ॥५-४३॥