प्रमदावनभञ्जनम्

सुन्दरकाण्डः / प्रमदावनभञ्जनम्

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे प्रमदावनभञ्जनम् नाम एकचत्वारिंशः सर्गः ॥५-४१॥
स च वाग्भिः प्रशस्ताभिर्गमिष्यन् पूजितस्तया । तस्माद् देशादपाक्रम्य चिन्तयामास वानरः ॥५-४१-१॥
अल्पशेषमिदं कार्यं दृष्टेयमसितेक्षणा । त्रीनुपायानतिक्रम्य चतुर्थ इह दृश्यते ॥५-४१-२॥
न साम रक्षःसु गुणाय कल्पते न दानमर्थोपचितेषु युज्यते । न भेदसाध्या बलदर्पिता जनाः पराक्रमस्त्वेष ममेह रोचते ॥५-४१-३॥
न चास्य कार्यस्य पराक्रमादृते विनिश्चयः कश्चिदिहोपपद्यते । हतप्रवीराश्च रणे तु राक्षसाः कथंचिदीयुर्यदिहाद्य मार्दवम् ॥५-४१-४॥
कार्ये कर्मणि निर्वृत्ते यो बहून्यपि साधयेत् । पूर्वकार्याविरोधेन स कार्यं कर्तुमर्हति ॥५-४१-५॥
न ह्येकः साधको हेतुः स्वल्पस्यापीह कर्मणः । यो ह्यर्थं बहुधा वेद स समर्थोऽर्थसाधने ॥५-४१-६॥
इहैव तावत्कृतनिश्चयो ह्यहं व्रजेयमद्य प्लवगेश्वरालयम् । परात्मसम्मर्दविशेषतत्त्ववित् ततः कृतं स्यान्मम भर्तृशासनम् ॥५-४१-७॥
कथं नु खल्वद्य भवेत् सुखागतं प्रसह्य युद्धं मम राक्षसैः सह । तथैव खल्वात्मबलं च सारवत् समानयेन्मां च रणे दशाननः ॥५-४१-८॥
ततः समासाद्य रणे दशाननं समन्त्रिवर्गं सबलं सयायिनम् । हृदि स्थितं तस्य मतं बलं च सुखेन मत्वाहमितः पुनर्व्रजे ॥५-४१-९॥
इदमस्य नृशंसस्य नन्दनोपममुत्तमम् । वनं नेत्रमनःकान्तं नानाद्रुमलतायुतम् ॥५-४१-१०॥
इदं विध्वंसयिष्यामि शुष्कं वनमिवानलः । अस्मिन् भग्ने ततः कोपं करिष्यति स रावणः ॥५-४१-११॥
ततो महत्साश्वमहारथद्विपं बलं समानेष्यति राक्षसाधिपः । त्रिशूलकालायसपट्टिशायुधं ततो महद्युद्धमिदं भविष्यति ॥५-४१-१२॥
अहं च तैः संयति चण्डविक्रमैः समेत्य रक्षोभिरभङ्गविक्रमः । निहत्य तद् रावणचोदितं बलं सुखं गमिष्यामि हरीश्वरालयम् ॥५-४१-१३॥
ततो मारुतवत् क्रुद्धो मारुतिर्भीमविक्रमः । ऊरुवेगेन महता द्रुमान् क्षेप्तुमथारभत् ॥५-४१-१४॥
ततस्तद्धनुमान् वीरो बभञ्ज प्रमदावनम् । मत्तद्विजसमाघुष्टं नानाद्रुमलतायुतम् ॥५-४१-१५॥
तद्वनं मथितैर्वृक्षैर्भिन्नैश्च सलिलाशयैः । चूर्णितैः पर्वताग्रैश्च बभूवाप्रियदर्शनम् ॥५-४१-१६॥
नानाशकुन्तविरुतैः प्रभिन्नसलिलाशयैः । ताम्रैः किसलयैः क्लान्तैः क्लान्तद्रुमलतायुतैः ॥५-४१-१७॥
न बभौ तद् वनं तत्र दावानलहतं यथा । व्याकुलावरणा रेजुर्विह्वला इव ता लताः ॥५-४१-१८॥
लतागृहैश्चित्रगृहैश्च सादितैर्व्यालैर्मृगैरार्तरवैश्च पक्षिभिः । शिलागृहैरुन्मथितैस्तथा गृहैः प्रणष्टरूपं तदभून्महद् वनम् ॥५-४१-१९॥
सा विह्वलाशोकलताप्रताना वनस्थली शोकलताप्रताना । जाता दशास्यप्रमदावनस्य कपेर्बलाद्धि प्रमदावनस्य ॥५-४१-२०॥
ततः स कृत्वा जगतीपतेर्महान् महद् व्यलीकं मनसो महात्मनः । युयुत्सुरेको बहुभिर्महाबलैः श्रिया ज्वलंस्तोरणमाश्रितः कपिः ॥५-४१-२१॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे प्रमदावनभञ्जनम् नाम एकचत्वारिंशः सर्गः ॥५-४१॥