लङ्काधिदेवताविजयः
सुन्दरकाण्डः / लङ्काधिदेवताविजयः
Script
Translation
Previous
निशागमप्रतीक्षा
Next
लङ्कापुरीप्रवेशः
अथ श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे लङ्काधिदेवताविजयः नाम तृतीयः सर्गः ॥५-३॥
स लम्बशिखरे लम्बे लम्बतोयदसंनिभे ।
सत्त्वमास्थाय मेधावी हनुमान् मारुतात्मजः ॥५-३-१॥
निशि लंकां महासत्त्वो विवेश कपिकुञ्जरः ।
रम्यकाननतोयाढ्यां पुरीं रावणपालिताम् ॥५-३-२॥
शारदाम्बुधरप्रख्यैर्भवनैरुपशोभिताम् ।
सागरोपमनिर्घोषां सागरानिलसेविताम् ॥५-३-३॥
सुपुष्टबलसम्पुष्टां यथैव विटपावतीम् ।
चारुतोरणनिर्यूहां पाण्डुरद्वारतोरणाम् ॥५-३-४॥
भुजगाचरितां गुप्तां शुभां भोगवतीमिव ।
तां सविद्युद्घनाकीर्णां ज्योतिर्गणनिषेविताम् ॥५-३-५॥
चण्डमारुतनिर्ह्रादां यथा चाप्यमरावतीम् ।
शातकुम्भेन महता प्राकारेणाभिसंवृताम् ॥५-३-६॥
किङ्किणीजालघोषाभिः पताकाभिरलंकृताम् ।
आसाद्य सहसा हृष्टः प्राकारमभिपेदिवान् ॥५-३-७॥
विस्मयाविष्टहृदयः पुरीमालोक्य सर्वतः ।
जाम्बूनदमयैर्द्वारैर्वैदूर्यकृतवेदिकैः ॥५-३-८॥
वज्रस्फटिकमुक्ताभिर्मणिकुट्टिमभूषितैः ।
तप्तहाटकनिर्यूहै राजतामलपाण्डुरैः ॥५-३-९॥
वैदूर्यकृतसोपानैः स्फाटिकान्तरपांसुभिः ।
चारुसंजवनोपेतैः खमिवोत्पतितैः शुभैः ॥५-३-१०॥
क्रौञ्चबर्हिणसंघुष्टै राजहंसनिषेवितैः ।
तूर्याभरणनिर्घोषैः सर्वतः परिनादिताम् ॥५-३-११॥
वस्वोकसारप्रतिमां समीक्ष्य नगरीं ततः ।
खमिवोत्पतितां लंकां जहर्ष हनुमान् कपिः ॥५-३-१२॥
तां समीक्ष्य पुरीं लंकां राक्षसाधिपतेः शुभाम् ।
अनुत्तमामृद्धिमतीं चिन्तयामास वीर्यवान् ॥५-३-१३॥
नेयमन्येन नगरी शक्या धर्षयितुं बलात् ।
रक्षिता रावणबलैरुद्यतायुधपाणिभिः ॥५-३-१४॥
कुमुदाङ्गदयोर्वापि सुषेणस्य महाकपेः ।
प्रसिद्धेयं भवेद् भूमिर्मैन्दद्विविदयोरपि ॥५-३-१५॥
विवस्वतस्तनूजस्य हरेश्च कुशपर्वणः ।
ऋक्षस्य कपिमुख्यस्य मम चैव गतिर्भवेत् ॥५-३-१६॥
समीक्ष्य च महाबाहो राघवस्य पराक्रमम् ।
लक्ष्मणस्य च विक्रान्तमभवत् प्रीतिमान् कपिः ॥५-३-१७॥
तां रत्नवसनोपेतां गोष्ठागारावतंसिकाम् ।
यन्त्रागारस्तनीमृद्धां प्रमदामिव भूषिताम् ॥५-३-१८॥
तां नष्टतिमिरां दीपैर्भास्वरैश्च महाग्रहैः ।
नगरीं राक्षसेन्द्रस्य स ददर्श महाकपिः ॥५-३-१९॥
अथ सा हरिशार्दूलं प्रविशन्तं महाकपिम् ।
नगरी स्वेन रूपेण ददर्श पवनात्मजम् ॥५-३-२०॥
सा तं हरिवरं दृष्ट्वा लंका रावणपालिता ।
स्वयमेवोत्थिता तत्र विकृताननदर्शना ॥५-३-२१॥
पुरस्तात् तस्य वीरस्य वायुसूनोरतिष्ठत ।
मुञ्चमाना महानादमब्रवीत् पवनात्मजम् ॥५-३-२२॥
कस्त्वं केन च कार्येण इह प्राप्तो वनालय ।
कथयस्वेह यत् तत्त्वं यावत् प्राणा धरन्ति ते ॥५-३-२३॥
न शक्यं खल्वियं लंका प्रवेष्टुं वानर त्वया ।
रक्षिता रावणबलैरभिगुप्ता समन्ततः ॥५-३-२४॥
अथ तामब्रवीद् वीरो हनुमानग्रतः स्थिताम् ।
कथयिष्यामि तत् तत्त्वं यन्मां त्वं परिपृच्छसे ॥५-३-२५॥
का त्वं विरूपनयना पुरद्वारेऽवतिष्ठसे ।
किमर्थं चापि मां क्रोधान्निर्भर्त्सयसि दारुणे ॥५-३-२६॥
हनुमद्वचनं श्रुत्वा लंका सा कामरूपिणी ।
उवाच वचनं क्रुद्धा परुषं पवनात्मजम् ॥५-३-२७॥
अहं राक्षसराजस्य रावणस्य महात्मनः ।
आज्ञाप्रतीक्षा दुर्धर्षा रक्षामि नगरीमिमाम् ॥५-३-२८॥
न शक्यं मामवज्ञाय प्रवेष्टुं नगरीमिमाम् ।
अद्य प्राणैः परित्यक्तः स्वप्स्यसे निहतो मया ॥५-३-२९॥
अहं हि नगरी लंका स्वयमेव प्लवङ्गम ।
सर्वतः परिरक्षामि अतस्ते कथितं मया ॥५-३-३०॥
लंकाया वचनं श्रुत्वा हनुमान् मारुतात्मजः ।
यत्नवान् स हरिश्रेष्ठः स्थितः शैल इवापरः ॥५-३-३१॥
स तां स्त्रीरूपविकृतां दृष्ट्वा वानरपुङ्गवः ।
आबभाषेऽथ मेधावी सत्त्ववान् प्लवगर्षभः ॥५-३-३२॥
द्रक्ष्यामि नगरीं लंकां साट्टप्राकारतोरणाम् ।
इत्यर्थमिह सम्प्राप्तः परं कौतूहलं हि मे ॥५-३-३३॥
वनान्युपवनानीह लंकायाः काननानि च ।
सर्वतो गृहमुख्यानि द्रष्टुमागमनं हि मे ॥५-३-३४॥
तस्य तद् वचनं श्रुत्वा लंका सा कामरूपिणी ।
भूय एव पुनर्वाक्यं बभाषे परुषाक्षरम् ॥५-३-३५॥
मामनिर्जित्य दुर्बुद्धे राक्षसेश्वरपालिताम् ।
न शक्यं ह्यद्य ते द्रष्टुं पुरीयं वानराधम ॥५-३-३६॥
ततः स हरिशार्दूलस्तामुवाच निशाचरीम् ।
दृष्ट्वा पुरीमिमां भद्रे पुनर्यास्ये यथागतम् ॥५-३-३७॥
ततः कृत्वा महानादं सा वै लंका भयंकरम् ।
तलेन वानरश्रेष्ठं ताडयामास वेगिता ॥५-३-३८॥
ततः स हरिशार्दूलो लंकया ताडितो भृशम् ।
ननाद सुमहानादं वीर्यवान् मारुतात्मजः ॥५-३-३९॥
ततः संवर्तयामास वामहस्तस्य सोऽङ्गुलीः ।
मुष्टिनाभिजघानैनां हनुमान् क्रोधर्मूच्छितः ॥५-३-४०॥
स्त्री चेति मन्यमानेन नातिक्रोधः स्वयं कृतः ।
सा तु तेन प्रहारेण विह्वलाङ्गी निशाचरी ।
पपात सहसा भूमौ विकृताननदर्शना ॥५-३-४१॥
ततस्तु हनुमान् वीरस्तां दृष्ट्वा विनिपातिताम् ।
कृपां चकार तेजस्वी मन्यमानः स्त्रियं च ताम् ॥५-३-४२॥
ततो वै भृशमुद्विग्ना लंका सा गद्गदाक्षरम् ।
उवाचागर्वितं वाक्यं हनुमन्तं प्लवङ्गमम् ॥५-३-४३॥
प्रसीद सुमहाबाहो त्रायस्व हरिसत्तम ।
समये सौम्य तिष्ठन्ति सत्त्ववन्तो महाबलाः ॥५-३-४४॥
अहं तु नगरी लंका स्वयमेव प्लवङ्गम ।
निर्जिताहं त्वया वीर विक्रमेण महाबल ॥५-३-४५॥
इदं च तथ्यं शृणु मे ब्रुवन्त्या वै हरीश्वर ।
स्वयं स्वयम्भुवा दत्तं वरदानं यथा मम ॥५-३-४६॥
यदा त्वां वानरः कश्चिद् विक्रमाद् वशमानयेत् ।
तदा त्वया हि विज्ञेयं रक्षसां भयमागतम् ॥५-३-४७॥
स हि मे समयः सौम्य प्राप्तोऽद्य तव दर्शनात् ।
स्वयम्भूविहितः सत्यो न तस्यास्ति व्यतिक्रमः ॥५-३-४८॥
सीतानिमित्तं राज्ञस्तु रावणस्य दुरात्मनः ।
रक्षसां चैव सर्वेषां विनाशः समुपागतः ॥५-३-४९॥
तत् प्रविश्य हरिश्रेष्ठ पुरीं रावणपालिताम् ।
विधत्स्व सर्वकार्याणि यानि यानीह वाञ्छसि ॥५-३-५०॥
प्रविश्य शापोपहतां हरीश्वर पुरीं शुभां राक्षसमुख्यपालिताम् ।
यदृच्छया त्वं जनकात्मजां सतीं विमार्ग सर्वत्र गतो यथासुखम् ॥५-३-५१॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे लङ्काधिदेवताविजयः नाम तृतीयः सर्गः ॥५-३॥
Previous
निशागमप्रतीक्षा
Next
लङ्कापुरीप्रवेशः