वायसवृत्तान्तकथनम्
सुन्दरकाण्डः / वायसवृत्तान्तकथनम्
Script
Translation
Previous
सीताप्रत्यानयनानौचित्यम्
Next
हनूमत्सन्देशः
अथ श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे वायसवृत्तान्तकथनम् नाम अष्टात्रिंशः सर्गः ॥५-३८॥
ततः स कपिशार्दूलस्तेन वाक्येन तोषितः ।
सीतामुवाच तच्छ्रुत्वा वाक्यं वाक्यविशारदः ॥५-३८-१॥
युक्तरूपं त्वया देवि भाषितं शुभदर्शने ।
सदृशं स्त्रीस्वभावस्य साध्वीनां विनयस्य च ॥५-३८-२॥
स्त्रीत्वान्न त्वं समर्थासि सागरं व्यतिवर्तितुम् ।
मामधिष्ठाय विस्तीर्णं शतयोजनमायतम् ॥५-३८-३॥
द्वितीयं कारणं यच्च ब्रवीषि विनयान्विते ।
रामादन्यस्य नार्हामि संसर्गमिति जानकि ॥५-३८-४॥
एतत् ते देवि सदृशं पत्न्यास्तस्य महात्मनः ।
का ह्यन्या त्वामृते देवि ब्रूयाद् वचनमीदृशम् ॥५-३८-५॥
श्रोष्यते चैव काकुत्स्थः सर्वं निरवशेषतः ।
चेष्टितं यत् त्वया देवि भाषितं च ममाग्रतः ॥५-३८-६॥
कारणैर्बहुभिर्देवि रामप्रियचिकीर्षया ।
स्नेहप्रस्कन्नमनसा मयैतत् समुदीरितम् ॥५-३८-७॥
लङ्काया दुष्प्रवेशत्वाद् दुस्तरत्वान्महोदधेः ।
सामर्थ्यादात्मनश्चैव मयैतत् समुदीरितम् ॥५-३८-८॥
इच्छामि त्वां समानेतुमद्यैव रघुनन्दिना ।
गुरुस्नेहेन भक्त्या च नान्यथा तदुदाहृतम् ॥५-३८-९॥
यदि नोत्सहसे यातुं मया सार्धमनिन्दिते ।
अभिज्ञानं प्रयच्छ त्वं जानीयाद् राघवो हि यत् ॥५-३८-१०॥
एवमुक्ता हनुमता सीता सुरसुतोपमा ।
उवाच वचनं मन्दं बाष्पप्रग्रथिताक्षरम् ॥५-३८-११॥
इदं श्रेष्ठमभिज्ञानं ब्रूयास्त्वं तु मम प्रियम् ।
शैलस्य चित्रकूटस्य पादे पूर्वोत्तरे पदे ॥५-३८-१२॥
तापसाश्रमवासिन्याः प्राज्यमूलफलोदके ।
तस्मिन् सिद्धाश्रिते देशे मन्दाकिन्यविदूरतः ॥५-३८-१३॥
तस्योपवनखण्डेषु नानापुष्पसुगन्धिषु ।
विहृत्य सलिले क्लिन्नो ममाङ्के समुपाविशः ॥५-३८-१४॥
ततो मांससमायुक्तो वायसः पर्यतुण्डयत् ।
तमहं लोष्टमुद्यम्य वारयामि स्म वायसम् ॥५-३८-१५॥
दारयन् स च मां काकस्तत्रैव परिलीयते ।
न चाप्युपारमन्मांसाद् भक्षार्थी बलिभोजनः ॥५-३८-१६॥
उत्कर्षन्त्यां च रशनां क्रुद्धायां मयि पक्षिणे ।
स्रंसमाने च वसने ततो दृष्टा त्वया ह्यहम् ॥५-३८-१७॥
त्वया विहसिता चाहं क्रुद्धा संलज्जिता तदा ।
भक्ष्यगृद्धेन काकेन दारिता त्वामुपागता ॥५-३८-१८॥
ततः श्रान्ताहमुत्सङ्गमासीनस्य तवाविशम् ।
क्रुध्यन्तीव प्रहृष्टेन त्वयाहं परिसान्त्विता ॥५-३८-१९॥
बाष्पपूर्णमुखी मन्दं चक्षुषी परिमार्जती ।
लक्षिताहं त्वया नाथ वायसेन प्रकोपिता ॥५-३८-२०॥
परिश्रमाच्च सुप्ता हे राघवाङ्केऽस्म्यहं चिरम् ।
पर्यायेण प्रसुप्तश्च ममाङ्के भरताग्रजः ॥५-३८-२१॥
स तत्र पुनरेवाथ वायसः समुपागमत् ।
ततः सुप्तप्रबुद्धां मां राघवाङ्कात् समुत्थिताम् ।
वायसः सहसागम्य विददार स्तनान्तरे ॥५-३८-२२॥
पुनः पुनरथोत्पत्य विददार स मां भृशम् ।
ततः समुत्थितो रामो मुक्तैः शोणितबिन्दुभिः ॥५-३८-२३॥
स मां दृष्ट्वा महाबाहुर्वितुन्नां स्तनयोस्तदा ।
आशीविष इव क्रुद्धः श्वसन् वाक्यमभाषत ॥५-३८-२४॥
केन ते नागनासोरु विक्षतं वै स्तनान्तरम् ।
कः क्रीडति सरोषेण पञ्चवक्त्रेण भोगिना ॥५-३८-२५॥
वीक्षमाणस्ततस्तं वै वायसं समवैक्षत ।
नखैः सरुधिरैस्तीक्ष्णैर्मामेवाभिमुखं स्थितम् ॥५-३८-२६॥
पुत्रः किल स शक्रस्य वायसः पततां वरः ।
धरान्तरं गतः शीघ्रं पवनस्य गतौ समः ॥५-३८-२७॥
ततस्तस्मिन् महाबाहुः कोपसंवर्तितेक्षणः ।
वायसे कृतवान् क्रूरां मतिं मतिमतां वरः ॥५-३८-२८॥
स दर्भसंस्तराद् गृह्य ब्रह्मणोऽस्त्रेण योजयत् ।
स दीप्त इव कालाग्निर्जज्वालाभिमुखो द्विजम् ॥५-३८-२९॥
स तं प्रदीप्तं चिक्षेप दर्भं तं वायसं प्रति ।
ततस्तु वायसं दर्भः सोऽम्बरेऽनुजगाम ह ॥५-३८-३०॥
अनुसृष्टस्तदा काको जगाम विविधां गतिम् ।
त्राणकाम इमं लोकं सर्वं वै विचचार ह ॥५-३८-३१॥
स पित्रा च परित्यक्तः सर्वैश्च परमर्षिभिः ।
त्रीँल्लोकान् सम्परिक्रम्य तमेव शरणं गतः ॥५-३८-३२॥
स तं निपतितं भूमौ शरण्यः शरणागतम् ।
वधार्हमपि काकुत्स्थः कृपया पर्यपालयत् ॥५-३८-३३॥
परिद्यूनं विवर्णं च पतमानं तमब्रवीत् ।
मोघमस्त्रं न शक्यं तु ब्राह्मं कर्तुं तदुच्यताम् ॥५-३८-३४॥
ततस्तस्याक्षि काकस्य हिनस्ति स्म स दक्षिणम् ।
दत्त्वा तु दक्षिणं नेत्रं प्राणेभ्यः परिरक्षितः ॥५-३८-३५॥
स रामाय नमस्कृत्वा राज्ञे दशरथाय च ।
विसृष्टस्तेन वीरेण प्रतिपेदे स्वमालयम् ॥५-३८-३६॥
मत्कृते काकमात्रेऽपि ब्रह्मास्त्रं समुदीरितम् ।
कस्माद् यो माहरत् त्वत्तः क्षमसे तं महीपते ॥५-३८-३७॥
स कुरुष्व महोत्साहां कृपां मयि नरर्षभ ।
त्वया नाथवती नाथ ह्यनाथा इव दृश्यते ॥५-३८-३८॥
आनृशंस्यं परो धर्मस्त्वत्त एव मया श्रुतम् ।
जानामि त्वां महावीर्यं महोत्साहं महाबलम् ॥५-३८-३९॥
अपारवारमक्षोभ्यं गाम्भीर्यात् सागरोपमम् ।
भर्तारं ससमुद्राया धरण्या वासवोपमम् ॥५-३८-४०॥
एवमस्त्रविदां श्रेष्ठो बलवान् सत्त्ववानपि ।
किमर्थमस्त्रं रक्षःसु न योजयसि राघव ॥५-३८-४१॥
न नागा नापि गन्धर्वा न सुरा न मरुद्गणाः ।
रामस्य समरे वेगं शक्ताः प्रतिसमीहितुम् ॥५-३८-४२॥
तस्य वीर्यवतः कच्चिद् यद्यस्ति मयि सम्भ्रमः ।
किमर्थं न शरैस्तीक्ष्णैः क्षयं नयति राक्षसान् ॥५-३८-४३॥
भ्रातुरादेशमादाय लक्ष्मणो वा परंतपः ।
कस्य हेतोर्न मां वीरः परित्राति महाबलः ॥५-३८-४४॥
यदि तौ पुरुषव्याघ्रौ वाय्विन्द्रसमतेजसौ ।
सुराणामपि दुर्धर्षौ किमर्थं मामुपेक्षतः ॥५-३८-४५॥
ममैव दुष्कृतं किंचिन्महदस्ति न संशयः ।
समर्थावपि तौ यन्मां नावेक्षेते परंतपौ ॥५-३८-४६॥
वैदेह्या वचनं श्रुत्वा करुणं साश्रु भाषितम् ।
अथाब्रवीन्महातेजा हनूमान् हरियूथपः ॥५-३८-४७॥
त्वच्छोकविमुखो रामो देवि सत्येन ते शपे ।
रामे दुःखाभिपन्ने तु लक्ष्मणः परितप्यते ॥५-३८-४८॥
कथंचिद् भवती दृष्टा न कालः परिशोचितुम् ।
इमं मुहूर्तं दुःखानामन्तं द्रक्ष्यसि शोभने ॥५-३८-४९॥
तावुभौ पुरुषव्याघ्रौ राजपुत्रौ महाबलौ ।
त्वद्दर्शनकृतोत्साहौ लोकान् भस्मीकरिष्यतः ॥५-३८-५०॥
हत्वा च समरक्रूरं रावणं सहबान्धवम् ।
राघवस्त्वां विशालाक्षि स्वां पुरीं प्रति नेष्यति ॥५-३८-५१॥
ब्रूहि यद् राघवो वाच्यो लक्ष्मणश्च महाबलः ।
सुग्रीवो वापि तेजस्वी हरयो वा समागताः ॥५-३८-५२॥
इत्युक्तवति तस्मिंश्च सीता पुनरथाब्रवीत् ।
कौसल्या लोकभर्तारं सुषुवे यं मनस्विनी ॥५-३८-५३॥
तं ममार्थे सुखं पृच्छ शिरसा चाभिवादय ।
स्रजश्च सर्वरत्नानि प्रियायाश्च वराङ्गनाः ॥५-३८-५४॥
ऐश्वर्यं च विशालायां पृथिव्यामपि दुर्लभम् ।
पितरं मातरं चैव सम्मान्याभिप्रसाद्य च ॥५-३८-५५॥
अनुप्रव्रजितो रामं सुमित्रा येन सुप्रजाः ।
आनुकूल्येन धर्मात्मा त्यक्त्वा सुखमनुत्तमम् ॥५-३८-५६॥
अनुगच्छति काकुत्स्थं भ्रातरं पालयन् वने ।
सिंहस्कन्धो महाबाहुर्मनस्वी प्रियदर्शनः ॥५-३८-५७॥
पितृवद् वर्तते रामे मातृवन्मां समाचरत् ।
ह्रियमाणां तदा वीरो न तु मां वेद लक्ष्मणः ॥५-३८-५८॥
वृद्धोपसेवी लक्ष्मीवान् शक्तो न बहुभाषिता ।
राजपुत्रप्रियश्रेष्ठः सदृशः श्वशुरस्य मे ॥५-३८-५९॥
मत्तः प्रियतरो नित्यं भ्राता रामस्य लक्ष्मणः ।
नियुक्तो धुरि यस्यां तु तामुद्वहति वीर्यवान् ॥५-३८-६०॥
यं दृष्ट्वा राघवो नैव वृत्तमार्यमनुस्मरत् ।
स ममार्थाय कुशलं वक्तव्यो वचनान्मम ॥५-३८-६१॥
मृदुर्नित्यं शुचिर्दक्षः प्रियो रामस्य लक्ष्मणः ।
यथा हि वानरश्रेष्ठ दुःखक्षयकरो भवेत् ॥५-३८-६२॥
त्वमस्मिन् कार्यनिर्वाहे प्रमाणं हरियूथप ।
राघवस्त्वत्समारम्भान्मयि यत्नपरो भवेत् ॥५-३८-६३॥
इदं ब्रूयाश्च मे नाथं शूरं रामं पुनः पुनः ।
जीवितं धारयिष्यामि मासं दशरथात्मज ॥५-३८-६४॥
ऊर्ध्वं मासान्न जीवेयं सत्येनाहं ब्रवीमि ते ।
रावणेनोपरुद्धां मां निकृत्या पापकर्मणा ।
त्रातुमर्हसि वीर त्वं पातालादिव कौशिकीम् ॥५-३८-६५॥
ततो वस्त्रगतं मुक्त्वा दिव्यं चूडामणिं शुभम् ।
प्रदेयो राघवायेति सीता हनुमते ददौ ॥५-३८-६६॥
प्रतिगृह्य ततो वीरो मणिरत्नमनुत्तमम् ।
अङ्गुल्या योजयामास नह्यस्य प्राभवद् भुजः ॥५-३८-६७॥
मणिरत्नं कपिवरः प्रतिगृह्याभिवाद्य च ।
सीतां प्रदक्षिणं कृत्वा प्रणतः पार्श्वतः स्थितः ॥५-३८-६८॥
हर्षेण महता युक्तः सीतादर्शनजेन सः ।
हृदयेन गतो रामं लक्ष्मणं च सलक्षणम् ॥५-३८-६९॥
मणिवरमुपगृह्य तं महार्हं जनकनृपात्मजया धृतं प्रभावात् ।
गिरिवरपवनावधूतमुक्तः सुखितमनाः प्रतिसंक्रमं प्रपेदे ॥५-३८-७०॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे वायसवृत्तान्तकथनम् नाम अष्टात्रिंशः सर्गः ॥५-३८॥
Previous
सीताप्रत्यानयनानौचित्यम्
Next
हनूमत्सन्देशः