सीताप्रत्यानयनानौचित्यम्
सुन्दरकाण्डः / सीताप्रत्यानयनानौचित्यम्
Script
Translation
Previous
अङ्गुलीयकप्रदानम्
Next
वायसवृत्तान्तकथनम्
अथ श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे सीताप्रत्यानयनानौचित्यम् नाम सप्तत्रिंशः सर्गः ॥५-३७॥
सा सीता वचनं श्रुत्वा पूर्णचन्द्रनिभानना ।
हनूमन्तमुवाचेदं धर्मार्थसहितं वचः ॥५-३७-१॥
अमृतं विषसम्पृक्तं त्वया वानर भाषितम् ।
यच्च नान्यमना रामो यच्च शोकपरायणः ॥५-३७-२॥
ऐश्वर्ये वा सुविस्तीर्णे व्यसने वा सुदारुणे ।
रज्ज्वेव पुरुषं बद्ध्वा कृतान्तः परिकर्षति ॥५-३७-३॥
विधिर्नूनमसंहार्यः प्राणिनां प्लवगोत्तम ।
सौमित्रं मां च रामं च व्यसनैः पश्य मोहितान् ॥५-३७-४॥
शोकस्यास्य कथं पारं राघवोऽधिगमिष्यति ।
प्लवमानः परिक्रान्तो हतनौः सागरे यथा ॥५-३७-५॥
राक्षसानां वधं कृत्वा सूदयित्वा च रावणम् ।
लङ्कामुन्मथितां कृत्वा कदा द्रक्ष्यति मां पतिः ॥५-३७-६॥
स वाच्यः संत्वरस्वेति यावदेव न पूर्यते ।
अयं संवत्सरः कालस्तावद्धि मम जीवितम् ॥५-३७-७॥
वर्तते दशमो मासो द्वौ तु शेषौ प्लवङ्गम ।
रावणेन नृशंसेन समयो यः कृतो मम ॥५-३७-८॥
विभीषणेन च भ्रात्रा मम निर्यातनं प्रति ।
अनुनीतः प्रयत्नेन न च तत् कुरुते मतिम् ॥५-३७-९॥
मम प्रतिप्रदानं हि रावणस्य न रोचते ।
रावणं मार्गते संख्ये मृत्युः कालवशंगतम् ॥५-३७-१०॥
ज्येष्ठा कन्या कला नाम विभीषणसुता कपे ।
तया ममैतदाख्यातं मात्रा प्रहितया स्वयम् ॥५-३७-११॥
अविन्ध्यो नाम मेधावी विद्वान् राक्षसपुङ्गवः ।
धृतिमाञ्छीलवान् वृद्धो रावणस्य सुसम्मतः ॥५-३७-१२॥
रामात् क्षयमनुप्राप्तं रक्षसां प्रत्यचोदयत् ।
न च तस्य स दुष्टात्मा शृणोति वचनं हितम् ॥५-३७-१३॥
आशंसेयं हरिश्रेष्ठ क्षिप्रं मां प्राप्स्यते पतिः ।
अन्तरात्मा हि मे शुद्धस्तस्मिंश्च बहवो गुणाः ॥५-३७-१४॥
उत्साहः पौरुषं सत्त्वमानृशंस्यं कृतज्ञता ।
विक्रमश्च प्रभावश्च सन्ति वानर राघवे ॥५-३७-१५॥
चतुर्दश सहस्राणि राक्षसानां जघान यः ।
जनस्थाने विना भ्रात्रा शत्रुः कस्तस्य नोद्विजेत् ॥५-३७-१६॥
न स शक्यस्तुलयितुं व्यसनैः पुरुषर्षभः ।
अहं तस्यानुभावज्ञा शक्रस्येव पुलोमजा ॥५-३७-१७॥
शरजालांशुमान् शूरः कपे रामदिवाकरः ।
शत्रुरक्षोमयं तोयमुपशोषं नयिष्यति ॥५-३७-१८॥
इति संजल्पमानां तां रामार्थे शोककर्शिताम् ।
अश्रुसम्पूर्णवदनामुवाच हनुमान् कपिः ॥५-३७-१९॥
श्रुत्वैव च वचो मह्यं क्षिप्रमेष्यति राघवः ।
चमूं प्रकर्षन् महतीं हर्यृक्षगणसंकुलाम् ॥५-३७-२०॥
अथवा मोचयिष्यामि त्वामद्यैव सराक्षसात् ।
अस्माद् दुःखादुपारोह मम पृष्ठमनिन्दिते ॥५-३७-२१॥
त्वां तु पृष्ठगतां कृत्वा संतरिष्यामि सागरम् ।
शक्तिरस्ति हि मे वोढुं लङ्कामपि सरावणाम् ॥५-३७-२२॥
अहं प्रस्रवणस्थाय राघवायाद्य मैथिलि ।
प्रापयिष्यामि शक्राय हव्यं हुतमिवानलः ॥५-३७-२३॥
द्रक्ष्यस्यद्यैव वैदेहि राघवं सहलक्ष्मणम् ।
व्यवसायसमायुक्तं विष्णुं दैत्यवधे यथा ॥५-३७-२४॥
त्वद्दर्शनकृतोत्साहमाश्रमस्थं महाबलम् ।
पुरंदरमिवासीनं नगराजस्य मूर्धनि ॥५-३७-२५॥
पृष्ठमारोह मे देवि मा विकाङ्क्षस्व शोभने ।
योगमन्विच्छ रामेण शशाङ्केनेव रोहिणी ॥५-३७-२६॥
कथयन्तीव शशिना संगमिष्यसि रोहिणी ।
मत्पृष्ठमधिरोह त्वं तराकाशं महार्णवम् ॥५-३७-२७॥
नहि मे सम्प्रयातस्य त्वामितो नयतोऽङ्गने ।
अनुगन्तुं गतिं शक्ताः सर्वे लङ्कानिवासिनः ॥५-३७-२८॥
यथैवाहमिह प्राप्तस्तथैवाहमसंशयम् ।
यास्यामि पश्य वैदेहि त्वामुद्यम्य विहायसम् ॥५-३७-२९॥
मैथिली तु हरिश्रेष्ठाच्छ्रुत्वा वचनमद्भुतम् ।
हर्षविस्मितसर्वाङ्गी हनूमन्तमथाब्रवीत् ॥५-३७-३०॥
हनूमन् दूरमध्वानं कथं मां नेतुमिच्छसि ।
तदेव खलु ते मन्ये कपित्वं हरियूथप ॥५-३७-३१॥
कथं चाल्पशरीरस्त्वं मामितो नेतुमिच्छसि ।
सकाशं मानवेन्द्रस्य भर्तुर्मे प्लवगर्षभ ॥५-३७-३२॥
सीतायास्तु वचः श्रुत्वा हनूमान् मारुतात्मजः ।
चिन्तयामास लक्ष्मीवान् नवं परिभवं कृतम् ॥५-३७-३३॥
न मे जानाति सत्त्वं वा प्रभावं वासितेक्षणा ।
तस्मात् पश्यतु वैदेही यद् रूपं मम कामतः ॥५-३७-३४॥
इति संचिन्त्य हनुमांस्तदा प्लवगसत्तमः ।
दर्शयामास सीतायाः स्वरूपमरिमर्दनः ॥५-३७-३५॥
स तस्मात् पादपाद् धीमानाप्लुत्य प्लवगर्षभः ।
ततो वर्धितुमारेभे सीताप्रत्ययकारणात् ॥५-३७-३६॥
मेरुमन्दरसंकाशो बभौ दीप्तानलप्रभः ।
अग्रतो व्यवतस्थे च सीताया वानरर्षभः ॥५-३७-३७॥
हरिः पर्वतसंकाशस्ताम्रवक्त्रो महाबलः ।
वज्रदंष्ट्रनखो भीमो वैदेहीमिदमब्रवीत् ॥५-३७-३८॥
सपर्वतवनोद्देशां साट्टप्राकारतोरणाम् ।
लङ्कामिमां सनाथां वा नयितुं शक्तिरस्ति मे ॥५-३७-३९॥
तदवस्थाप्यतां बुद्धिरलं देवि विकाङ्क्षया ।
विशोकं कुरु वैदेहि राघवं सहलक्ष्मणम् ॥५-३७-४०॥
तं दृष्ट्वाचलसंकाशमुवाच जनकात्मजा ।
पद्मपत्रविशालाक्षी मारुतस्यौरसं सुतम् ॥५-३७-४१॥
तव सत्त्वं बलं चैव विजानामि महाकपे ।
वायोरिव गतिश्चापि तेजश्चाग्नेरिवाद्भुतम् ॥५-३७-४२॥
प्राकृतोऽन्यः कथं चेमां भूमिमागन्तुमर्हति ।
उदधेरप्रमेयस्य पारं वानरयूथप ॥५-३७-४३॥
जानामि गमने शक्तिं नयने चापि ते मम ।
अवश्यं सम्प्रधार्याशु कार्यसिद्धिरिवात्मनः ॥५-३७-४४॥
अयुक्तं तु कपिश्रेष्ठ मया गन्तुं त्वया सह ।
वायुवेगसवेगस्य वेगो मां मोहयेत् तव ॥५-३७-४५॥
अहमाकाशमासक्ता उपर्युपरि सागरम् ।
प्रपतेयं हि ते पृष्ठाद् भूयो वेगेन गच्छतः ॥५-३७-४६॥
पतिता सागरे चाहं तिमिनक्रझषाकुले ।
भवेयमाशु विवशा यादसामन्नमुत्तमम् ॥५-३७-४७॥
न च शक्ष्ये त्वया सार्धं गन्तुं शत्रुविनाशन ।
कलत्रवति संदेहस्त्वयि स्यादप्यसंशयम् ॥५-३७-४८॥
ह्रियमाणां तु मां दृष्ट्वा राक्षसा भीमविक्रमाः ।
अनुगच्छेयुरादिष्टा रावणेन दुरात्मना ॥५-३७-४९॥
तैस्त्वं परिवृतः शूरैः शूलमुद्गरपाणिभिः ।
भवेस्त्वं संशयं प्राप्तो मया वीर कलत्रवान् ॥५-३७-५०॥
सायुधा बहवो व्योम्नि राक्षसास्त्वं निरायुधः ।
कथं शक्ष्यसि संयातुं मां चैव परिरक्षितुम् ॥५-३७-५१॥
युध्यमानस्य रक्षोभिस्ततस्तैः क्रूरकर्मभिः ।
प्रपतेयं हि ते पृष्ठाद् भयार्ता कपिसत्तम ॥५-३७-५२॥
अथ रक्षांसि भीमानि महान्ति बलवन्ति च ।
कथंचित् साम्पराये त्वां जयेयुः कपिसत्तम ॥५-३७-५३॥
अथवा युध्यमानस्य पतेयं विमुखस्य ते ।
पतितां च गृहीत्वा मां नयेयुः पापराक्षसाः ॥५-३७-५४॥
मां वा हरेयुस्त्वद्धस्ताद् विशसेयुरथापि वा ।
अनवस्थौ हि दृश्येते युद्धे जयपराजयौ ॥५-३७-५५॥
अहं वापि विपद्येयं रक्षोभिरभितर्जिता ।
त्वत्प्रयत्नो हरिश्रेष्ठ भवेन्निष्फल एव तु ॥५-३७-५६॥
कामं त्वमपि पर्याप्तो निहन्तुं सर्वराक्षसान् ।
राघवस्य यशो हीयेत् त्वया शस्तैस्तु राक्षसैः ॥५-३७-५७॥
अथवाऽऽदाय रक्षांसि न्यसेयुः संवृते हि माम् ।
यत्र ते नाभिजानीयुर्हरयो नापि राघवः ॥५-३७-५८॥
आरम्भस्तु मदर्थोऽयं ततस्तव निरर्थकः ।
त्वया हि सह रामस्य महानागमने गुणः ॥५-३७-५९॥
मयि जीवितमायत्तं राघवस्यामितौजसः ।
भ्रातॄणां च महाबाहो तव राजकुलस्य च ॥५-३७-६०॥
तौ निराशौ मदर्थं च शोकसंतापकर्शितौ ।
सह सर्वर्क्षहरिभिस्त्यक्ष्यतः प्राणसंग्रहम् ॥५-३७-६१॥
भर्तुर्भक्तिं पुरस्कृत्य रामादन्यस्य वानर ।
नाहं स्प्रष्टुं स्वतो गात्रमिच्छेयं वानरोत्तम ॥५-३७-६२॥
यदहं गात्रसंस्पर्शं रावणस्य गता बलात् ।
अनीशा किं करिष्यामि विनाथा विवशा सती ॥५-३७-६३॥
यदि रामो दशग्रीवमिह हत्वा सराक्षसम् ।
मामितो गृह्य गच्छेत तत् तस्य सदृशं भवेत् ॥५-३७-६४॥
श्रुताश्च दृष्टा हि मया पराक्रमा महात्मनस्तस्य रणावमर्दिनः ।
न देवगन्धर्वभुजङ्गराक्षसा भवन्ति रामेण समा हि संयुगे ॥५-३७-६५॥
समीक्ष्य तं संयति चित्रकार्मुकं महाबलं वासवतुल्यविक्रमम् ।
सलक्ष्मणं को विषहेत राघवं हुताशनं दीप्तमिवानिलेरितम् ॥५-३७-६६॥
सलक्ष्मणं राघवमाजिमर्दनं दिशागजं मत्तमिव व्यवस्थितम् ।
सहेत को वानरमुख्य संयुगे युगान्तसूर्यप्रतिमं शरार्चिषम् ॥५-३७-६७॥
स मे कपिश्रेष्ठ सलक्ष्मणं प्रियं सयूथपं क्षिप्रमिहोपपादय ।
चिराय रामं प्रति शोककर्शितां कुरुष्व मां वानरवीर हर्षिताम् ॥५-३७-६८॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे सीताप्रत्यानयनानौचित्यम् नाम सप्तत्रिंशः सर्गः ॥५-३७॥
Previous
अङ्गुलीयकप्रदानम्
Next
वायसवृत्तान्तकथनम्