हनूमत्सन्देशः

सुन्दरकाण्डः / हनूमत्सन्देशः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे हनूमत्सन्देशः नाम एकोनचत्वारिंशः सर्गः ॥५-३९॥
मणिं दत्त्वा ततः सीता हनूमन्तमथाब्रवीत् । अभिज्ञानमभिज्ञातमेतद् रामस्य तत्त्वतः ॥५-३९-१॥
मणिं दृष्ट्वा तु रामो वै त्रयाणां संस्मरिष्यति । वीरो जनन्या मम च राज्ञो दशरथस्य च ॥५-३९-२॥
स भूयस्त्वं समुत्साहचोदितो हरिसत्तम । अस्मिन् कार्यसमुत्साहे प्रचिन्तय यदुत्तरम् ॥५-३९-३॥
त्वमस्मिन् कार्यनिर्योगे प्रमाणं हरिसत्तम । तस्य चिन्तय यो यत्नो दुःखक्षयकरो भवेत् ॥५-३९-४॥
हनूमन् यत्नमास्थाय दुःखक्षयकरो भव । स तथेति प्रतिज्ञाय मारुतिर्भीमविक्रमः ॥५-३९-५॥
शिरसाऽऽवन्द्य वैदेहीं गमनायोपचक्रमे । ज्ञात्वा सम्प्रस्थितं देवी वानरं पवनात्मजम् ॥५-३९-६॥
बाष्पगद्गदया वाचा मैथिली वाक्यमब्रवीत् । हनूमन् कुशलं ब्रूयाः सहितौ रामलक्ष्मणौ ॥५-३९-७॥
सुग्रीवं च सहामात्यं सर्वान् वृद्धांश्च वानरान् । ब्रूयास्त्वं वानरश्रेष्ठ कुशलं धर्मसंहितम् ॥५-३९-८॥
यथा च स महाबाहुर्मां तारयति राघवः । अस्माद् दुःखाम्बुसंरोधात् त्वं समाधातुमर्हसि ॥५-३९-९॥
जीवन्तीं मां यथा रामः सम्भावयति कीर्तिमान् । तत् त्वया हनुमन् वाच्यं वाचा धर्ममवाप्नुहि ॥५-३९-१०॥
नित्यमुत्साहयुक्तस्य वाचः श्रुत्वा मयेरिताः । वर्धिष्यते दाशरथेः पौरुषं मदवाप्तये ॥५-३९-११॥
मत्संदेशयुता वाचस्त्वत्तः श्रुत्वैव राघवः । पराक्रमे मतिं वीरो विधिवत् संविधास्यति ॥५-३९-१२॥
सीतायास्तद् वचः श्रुत्वा हनूमान् मारुतात्मजः । शिरस्यञ्जलिमाधाय वाक्यमुत्तरमब्रवीत् ॥५-३९-१३॥
क्षिप्रमेष्यति काकुत्स्थो हर्यृक्षप्रवरैर्वृतः । यस्ते युधि विजित्यारीन् शोकं व्यपनयिष्यति ॥५-३९-१४॥
नहि पश्यामि मर्त्येषु नासुरेषु सुरेषु वा । यस्तस्य वमतो बाणान् स्थातुमुत्सहतेऽग्रतः ॥५-३९-१५॥
अप्यर्कमपि पर्जन्यमपि वैवस्वतं यमम् । स हि सोढुं रणे शक्तस्तव हेतोर्विशेषतः ॥५-३९-१६॥
स हि सागरपर्यन्तां महीं साधितुमर्हति । त्वन्निमित्तो हि रामस्य जयो जनकनन्दिनि ॥५-३९-१७॥
तस्य तद् वचनं श्रुत्वा सम्यक् सत्यं सुभाषितम् । जानकी बहु मेने तं वचनं चेदमब्रवीत् ॥५-३९-१८॥
ततस्तं प्रस्थितं सीता वीक्षमाणा पुनः पुनः । भर्तृस्नेहान्वितं वाक्यं सौहार्दादनुमानयत् ॥५-३९-१९॥
यदि वा मन्यसे वीर वसैकाहमरिंदम । कस्मिंश्चित् संवृते देशे विश्रान्तः श्वो गमिष्यसि ॥५-३९-२०॥
मम चैवाल्पभाग्यायाः सांनिध्यात् तव वानर । अस्य शोकस्य महतो मुहूर्तं मोक्षणं भवेत् ॥५-३९-२१॥
ततो हि हरिशार्दूल पुनरागमनाय तु । प्राणानामपि संदेहो मम स्यान्नात्र संशयः ॥५-३९-२२॥
तवादर्शनजः शोको भूयो मां परितापयेत् । दुःखादुःखपरामृष्टां दीपयन्निव वानर ॥५-३९-२३॥
अयं च वीर संदेहस्तिष्ठतीव ममाग्रतः । सुमहांस्त्वत्सहायेषु हर्यृक्षेषु हरीश्वर ॥५-३९-२४॥
कथं नु खलु दुष्पारं तरिष्यन्ति महोदधिम् । तानि हर्यृक्षसैन्यानि तौ वा नरवरात्मजौ ॥५-३९-२५॥
त्रयाणामेव भूतानां सागरस्येह लङ्घने । शक्तिः स्याद् वैनतेयस्य तव वा मारुतस्य वा ॥५-३९-२६॥
तदस्मिन् कार्यनिर्योगे वीरैवं दुरतिक्रमे । किं पश्यसे समाधानं त्वं हि कार्यविदां वरः ॥५-३९-२७॥
काममस्य त्वमेवैकः कार्यस्य परिसाधने । पर्याप्तः परवीरघ्न यशस्यस्ते फलोदयः ॥५-३९-२८॥
बलैः समग्रैर्युधि मां रावणं जित्य संयुगे । विजयी स्वपुरं यायात् तत्तस्य सदृशं भवेत् ॥५-३९-२९॥
बलैस्तु संकुलां कृत्वा लङ्कां परबलार्दनः । मां नयेद् यदि काकुत्स्थस्तत् तस्य सदृशं भवेत् ॥५-३९-३०॥
तद्यथा तस्य विक्रान्तमनुरूपं महात्मनः । भवेदाहवशूरस्य तथा त्वमुपपादय ॥५-३९-३१॥
तदर्थोपहितं वाक्यं प्रश्रितं हेतुसंहितम् । निशम्य हनुमान् शेषं वाक्यमुत्तरमब्रवीत् ॥५-३९-३२॥
देवि हर्यृक्षसैन्यानामीश्वरः प्लवतां वरः । सुग्रीवः सत्यसम्पन्नस्तवार्थे कृतनिश्चयः ॥५-३९-३३॥
स वानरसहस्राणां कोटीभिरभिसंवृतः । क्षिप्रमेष्यति वैदेहि राक्षसानां निबर्हणः ॥५-३९-३४॥
तस्य विक्रमसम्पन्नाः सत्त्ववन्तो महाबलाः । मनःसंकल्पसम्पाता निदेशे हरयः स्थिताः ॥५-३९-३५॥
येषां नोपरि नाधस्तान्न तिर्यक् सज्जते गतिः । न च कर्मसु सीदन्ति महत्स्वमिततेजसः ॥५-३९-३६॥
असकृत् तैर्महोत्साहैः ससागरधराधरा । प्रदक्षिणीकृता भूमिर्वायुमार्गानुसारिभिः ॥५-३९-३७॥
मद्विशिष्टाश्च तुल्याश्च सन्ति तत्र वनौकसः । मत्तः प्रत्यवरः कश्चिन्नास्ति सुग्रीवसंनिधौ ॥५-३९-३८॥
अहं तावदिह प्राप्तः किं पुनस्ते महाबलाः । नहि प्रकृष्टाः प्रेष्यन्ते प्रेष्यन्ते हीतरे जनाः ॥५-३९-३९॥
तदलं परितापेन देवि शोको व्यपैतु ते । एकोत्पातेन ते लङ्कामेष्यन्ति हरियूथपाः ॥५-३९-४०॥
मम पृष्ठगतौ तौ च चन्द्रसूर्याविवोदितौ । त्वत्सकाशं महासङ्घौ नृसिंहावागमिष्यतः ॥५-३९-४१॥
तौ हि वीरौ नरवरौ सहितौ रामलक्ष्मणौ । आगम्य नगरीं लङ्कां सायकैर्विधमिष्यतः ॥५-३९-४२॥
सगणं रावणं हत्वा राघवो रघुनन्दनः । त्वामादाय वरारोहे स्वपुरीं प्रति यास्यति ॥५-३९-४३॥
तदाश्वसिहि भद्रं ते भव त्वं कालकाङ्क्षिणी । नचिराद् द्रक्ष्यसे रामं प्रज्वलन्तमिवानलम् ॥५-३९-४४॥
निहते राक्षसेन्द्रे च सपुत्रामात्यबान्धवे । त्वं समेष्यसि रामेण शशाङ्केनेव रोहिणी ॥५-३९-४५॥
क्षिप्रं त्वं देवि शोकस्य पारं द्रक्ष्यसि मैथिलि । रावणं चैव रामेण द्रक्ष्यसे निहतं बलात् ॥५-३९-४६॥
एवमाश्वास्य वैदेहीं हनूमान् मारुतात्मजः । गमनाय मतिं कृत्वा वैदेहीं पुनरब्रवीत् ॥५-३९-४७॥
तमरिघ्नं कृतात्मानं क्षिप्रं द्रक्ष्यसि राघवम् । लक्ष्मणं च धनुष्पाणिं लङ्काद्वारमुपागतम् ॥५-३९-४८॥
नखदंष्ट्रायुधान् वीरान् सिंहशार्दूलविक्रमान् । वानरान् वारणेन्द्राभान् क्षिप्रं द्रक्ष्यसि संगतान् ॥५-३९-४९॥
शैलाम्बुदनिकाशानां लङ्कामलयसानुषु । नर्दतां कपिमुख्यानामार्ये यूथान्यनेकशः ॥५-३९-५०॥
स तु मर्मणि घोरेण ताडितो मन्मथेषुणा । न शर्म लभते रामः सिंहार्दित इव द्विपः ॥५-३९-५१॥
रुद मा देवि शोकेन मा भूत् ते मनसो भयम् । शचीव भर्त्रा शक्रेण सङ्गमेष्यसि शोभने ॥५-३९-५२॥
रामाद् विशिष्टः कोऽन्योऽस्ति कश्चित् सौमित्रिणा समः । अग्निमारुतकल्पौ तौ भ्रातरौ तव संश्रयौ ॥५-३९-५३॥
नास्मिंश्चिरं वत्स्यसि देवि देशे रक्षोगणैरध्युषितेऽतिरौद्रे । न ते चिरादागमनं प्रियस्य क्षमस्व मत्संगमकालमात्रम् ॥५-३९-५४॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे हनूमत्सन्देशः नाम एकोनचत्वारिंशः सर्गः ॥५-३९॥