रामवृत्तसंश्रवः

सुन्दरकाण्डः / रामवृत्तसंश्रवः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे रामवृत्तसंश्रवः नाम एकत्रिंशः सर्गः ॥५-३१॥
एवं बहुविधां चिन्तां चिन्तयित्वा महामतिः । संश्रवे मधुरं वाक्यं वैदेह्या व्याजहार ह ॥५-३१-१॥
राजा दशरथो नाम रथकुञ्जरवाजिमान् । पुण्यशीलो महाकीर्तिरिक्ष्वाकूणां महायशाः ॥५-३१-२॥
राजर्षीणां गुणश्रेष्ठस्तपसा चर्षिभिः समः । चक्रवर्तिकुले जातः पुरंदरसमो बले ॥५-३१-३॥
अहिंसारतिरक्षुद्रो घृणी सत्यपराक्रमः । मुख्यस्येक्ष्वाकुवंशस्य लक्ष्मीवाँल्लक्ष्मिवर्धनः ॥५-३१-४॥
पार्थिवव्यञ्जनैर्युक्तः पृथुश्रीः पार्थिवर्षभः । पृथिव्यां चतुरन्तायां विश्रुतः सुखदः सुखी ॥५-३१-५॥
तस्य पुत्रः प्रियो ज्येष्ठस्ताराधिपनिभाननः । रामो नाम विशेषज्ञः श्रेष्ठः सर्वधनुष्मताम् ॥५-३१-६॥
रक्षिता स्वस्य वृत्तस्य स्वजनस्यापि रक्षिता । रक्षिता जीवलोकस्य धर्मस्य च परंतपः ॥५-३१-७॥
तस्य सत्याभिसंधस्य वृद्धस्य वचनात् पितुः । सभार्यः सह च भ्रात्रा वीरः प्रव्रजितो वनम् ॥५-३१-८॥
तेन तत्र महारण्ये मृगयां परिधावता । राक्षसा निहताः शूरा बहवः कामरूपिणः ॥५-३१-९॥
जनस्थानवधं श्रुत्वा निहतौ खरदूषणौ । ततस्त्वमर्षापहृता जानकी रावणेन तु ॥५-३१-१०॥
वञ्चयित्वा वने रामं मृगरूपेण मायया । स मार्गमाणस्तां देवीं रामः सीतामनिन्दिताम् ॥५-३१-११॥
आससाद वने मित्रं सुग्रीवं नाम वानरम् । ततः स वालिनं हत्वा रामः परपुरंजयः ॥५-३१-१२॥
आयच्छत् कपिराज्यं तु सुग्रीवाय महात्मने । सुग्रीवेणाभिसंदिष्टा हरयः कामरूपिणः ॥५-३१-१३॥
दिक्षु सर्वासु तां देवीं विचिन्वन्तः सहस्रशः । अहं सम्पातिवचनाच्छतयोजनमायतम् ॥५-३१-१४॥
तस्या हेतोर्विशालाक्ष्याः समुद्रं वेगवान् प्लुतः । यथारूपां यथावर्णां यथालक्ष्मवतीं च ताम् ॥५-३१-१५॥
अश्रौषं राघवस्याहं सेयमासादिता मया । विररामैवमुक्त्वा स वाचं वानरपुंगवः ॥५-३१-१६॥
जानकी चापि तच्छ्रुत्वा विस्मयं परमं गता । ततः सा वक्रकेशान्ता सुकेशी केशसंवृतम् । उन्नम्य वदनं भीरुः शिंशपामन्ववैक्षत ॥५-३१-१७॥
निशम्य सीता वचनं कपेश्च दिशश्च सर्वाः प्रदिशश्च वीक्ष्य । स्वयं प्रहर्षं परमं जगाम सर्वात्मना राममनुस्मरन्ती ॥५-३१-१८॥
सा तिर्यगूर्ध्वं च तथा ह्यधस्तान्निरीक्षमाणा तमचिन्त्यबुद्धिम् । ददर्श पिंगाधिपतेरमात्यं वातात्मजं सूर्यमिवोदयस्थम् ॥५-३१-१९॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे रामवृत्तसंश्रवः नाम एकत्रिंशः सर्गः ॥५-३१॥