सीतवितर्कः
सुन्दरकाण्डः / सीतवितर्कः
Script
Translation
Previous
रामवृत्तसंश्रवः
Next
हनूमञ्जानकीसंवादोपक्रमः
अथ श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे सीतवितर्कः नाम द्वात्रिंशः सर्गः ॥५-३२॥
ततः शाखान्तरे लीनं दृष्ट्वा चलितमानसा ।
वेष्टितार्जुनवस्त्रं तं विद्युत्संघातपिंगलम् ॥५-३२-१॥
सा ददर्श कपिं तत्र प्रश्रितं प्रियवादिनम् ।
फुल्लाशोकोत्कराभासं तप्तचामीकरेक्षणम् ॥५-३२-२॥
साथ दृष्ट्वा हरिश्रेष्ठं विनीतवदवस्थितम् ।
मैथिली चिन्तयामास विस्मयं परमं गता ॥५-३२-३॥
अहो भीममिदं सत्त्वं वानरस्य दुरासदम् ।
दुर्निरीक्ष्यमिदं मत्वा पुनरेव मुमोह सा ॥५-३२-४॥
विललाप भृशं सीता करुणं भयमोहिता ।
राम रामेति दुःखार्ता लक्ष्मणेति च भामिनी ॥५-३२-५॥
रुरोद सहसा सीता मन्दमन्दस्वरा सती ।
साथ दृष्ट्वा हरिवरं विनीतवदुपागतम् ।
मैथिली चिन्तयामास स्वप्नोऽयमिति भामिनी ॥५-३२-६॥
सा वीक्षमाणा पृथुभुग्नवक्त्रं शाखामृगेन्द्रस्य यथोक्तकारम् ।
ददर्श पिंगप्रवरं महार्हं वातात्मजं बुद्धिमतां वरिष्ठम् ॥५-३२-७॥
सा तं समीक्ष्यैव भृशं विपन्ना गतासुकल्पेव बभूव सीता ।
चिरेण संज्ञां प्रतिलभ्य चैवं विचिन्तयामास विशालनेत्रा ॥५-३२-८॥
स्वप्नो मयायं विकृतोऽद्य दृष्टः शाखामृगः शास्त्रगणैर्निषिद्धः ।
स्वस्त्यस्तु रामाय सलक्ष्मणाय तथा पितुर्मे जनकस्य राज्ञः ॥५-३२-९॥
स्वप्नो हि नायं नहि मेऽस्ति निद्रा शोकेन दुःखेन च पीडितायाः ।
सुखं हि मे नास्ति यतो विहीना तेनेन्दुपूर्णप्रतिमाननेन ॥५-३२-१०॥
रामेति रामेति सदैव बुद्ध्या विचिन्त्य वाचा ब्रुवती तमेव ।
तस्यानुरूपं च कथां तदर्थामेवं प्रपश्यामि तथा शृणोमि ॥५-३२-११॥
अहं हि तस्याद्य मनोभवेन सम्पीडिता तद्गतसर्वभावा ।
विचिन्तयन्ती सततं तमेव तथैव पश्यामि तथा शृणोमि ॥५-३२-१२॥
मनोरथः स्यादिति चिन्तयामि तथापि बुद्ध्यापि वितर्कयामि ।
किं कारणं तस्य हि नास्ति रूपं सुव्यक्तरूपश्च वदत्ययं माम् ॥५-३२-१३॥
नमोऽस्तु वाचस्पतये सवज्रिणे स्वयम्भुवे चैव हुताशनाय ।
अनेन चोक्तं यदिदं ममाग्रतो वनौकसा तच्च तथास्तु नान्यथा ॥५-३२-१४॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे सीतवितर्कः नाम द्वात्रिंशः सर्गः ॥५-३२॥
Previous
रामवृत्तसंश्रवः
Next
हनूमञ्जानकीसंवादोपक्रमः