हनुमत्कृत्याकृत्यविचिन्तनम्
सुन्दरकाण्डः / हनुमत्कृत्याकृत्यविचिन्तनम्
Script
Translation
Previous
शुभनिमित्तानि
Next
रामवृत्तसंश्रवः
अथ श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे हनुमत्कृत्याकृत्यविचिन्तनम् नाम त्रिंशः सर्गः ॥५-३०॥
हनुमानपि विक्रान्तः सर्वं शुश्राव तत्त्वतः ।
सीतायास्त्रिजटायाश्च राक्षसीनां च तर्जितम् ॥५-३०-१॥
अवेक्षमाणस्तां देवीं देवतामिव नन्दने ।
ततो बहुविधां चिन्तां चिन्तयामास वानरः ॥५-३०-२॥
यां कपीनां सहस्राणि सुबहून्ययुतानि च ।
दिक्षु सर्वासु मार्गन्ते सेयमासादिता मया ॥५-३०-३॥
चारेण तु सुयुक्तेन शत्रोः शक्तिमवेक्षता ।
गूढेन चरता तावदवेक्षितमिदं मया ॥५-३०-४॥
राक्षसानां विशेषश्च पुरी चेयं निरीक्षिता ।
राक्षसाधिपतेरस्य प्रभावो रावणस्य च ॥५-३०-५॥
यथा तस्याप्रमेयस्य सर्वसत्त्वदयावतः ।
समाश्वासयितुं भार्यां पतिदर्शनकांक्षिणीम् ॥५-३०-६॥
अहमाश्वासयाम्येनां पूर्णचन्द्रनिभाननाम् ।
अदृष्टदुःखां दुःखस्य न ह्यन्तमधिगच्छतीम् ॥५-३०-७॥
यदि ह्यहं सतीमेनां शोकोपहतचेतनाम् ।
अनाश्वास्य गमिष्यामि दोषवद् गमनं भवेत् ॥५-३०-८॥
गते हि मयि तत्रेयं राजपुत्री यशस्विनी ।
परित्राणमपश्यन्ती जानकी जीवितं त्यजेत् ॥५-३०-९॥
यथा च स महाबाहुः पूर्णचन्द्रनिभाननः ।
समाश्वासयितुं न्याय्यः सीतादर्शनलालसः ॥५-३०-१०॥
निशाचरीणां प्रत्यक्षमक्षमं चाभिभाषितम् ।
कथं नु खलु कर्तव्यमिदं कृच्छ्रगतो ह्यहम् ॥५-३०-११॥
अनेन रात्रिशेषेण यदि नाश्वास्यते मया ।
सर्वथा नास्ति संदेहः परित्यक्ष्यति जीवितम् ॥५-३०-१२॥
रामस्तु यदि पृच्छेन्मां किं मां सीताब्रवीद्वचः ।
किमहं तं प्रतिब्रूयामसम्भाष्य सुमध्यमाम् ॥५-३०-१३॥
सीतासंदेशरहितं मामितस्त्वरया गतम् ।
निर्दहेदपि काकुत्स्थः क्रोधतीव्रेण चक्षुषा ॥५-३०-१४॥
यदि वोद्योजयिष्यामि भर्तारं रामकारणात् ।
व्यर्थमागमनं तस्य ससैन्यस्य भविष्यति ॥५-३०-१५॥
अन्तरं त्वहमासाद्य राक्षसीनामवस्थितः ।
शनैराश्वासयाम्यद्य संतापबहुलामिमाम् ॥५-३०-१६॥
अहं ह्यतितनुश्चैव वानरश्च विशेषतः ।
वाचं चोदाहरिष्यामि मानुषीमिह संस्कृताम् ॥५-३०-१७॥
यदि वाचं प्रदास्यामि द्विजातिरिव संस्कृताम् ।
रावणं मन्यमाना मां सीता भीता भविष्यति ॥५-३०-१८॥
अवश्यमेव वक्तव्यं मानुषं वाक्यमर्थवत् ।
मया सान्त्वयितुं शक्या नान्यथेयमनिन्दिता ॥५-३०-१९॥
सेयमालोक्य मे रूपं जानकी भाषितं तथा ।
रक्षोभिस्त्रासिता पूर्वं भूयस्त्रासमुपैष्यति ॥५-३०-२०॥
ततो जातपरित्रासा शब्दं कुर्यान्मनस्विनी ।
जानाना मां विशालाक्षी रावणं कामरूपिणम् ॥५-३०-२१॥
सीतया च कृते शब्दे सहसा राक्षसीगणः ।
नानाप्रहरणो घोरः समेयादन्तकोपमः ॥५-३०-२२॥
ततो मां सम्परिक्षिप्य सर्वतो विकृताननाः ।
वधे च ग्रहणे चैव कुर्युर्यत्नं महाबलाः ॥५-३०-२३॥
तं मां शाखाः प्रशाखाश्च स्कन्धांश्चोत्तमशाखिनाम् ।
दृष्ट्वा च परिधावन्तं भवेयुः परिशङ्किताः ॥५-३०-२४॥
मम रूपं च सम्प्रेक्ष्य वने विचरतो महत् ।
राक्षस्यो भयवित्रस्ता भवेयुर्विकृतस्वराः ॥५-३०-२५॥
ततः कुर्युः समाह्वानं राक्षस्यो रक्षसामपि ।
राक्षसेन्द्रनियुक्तानां राक्षसेन्द्रनिवेशने ॥५-३०-२६॥
ते शूलशरनिस्त्रिंशविविधायुधपाणयः ।
आपतेयुर्विमर्देऽस्मिन् वेगेनोद्वेगकारणात् ॥५-३०-२७॥
संरुद्धस्तैस्तु परितो विधमे राक्षसं बलम् ।
शक्नुयां न तु सम्प्राप्तुं परं पारं महोदधेः ॥५-३०-२८॥
मां वा गृह्णीयुरावृत्य बहवः शीघ्रकारिणः ।
स्यादियं चागृहीतार्था मम च ग्रहणं भवेत् ॥५-३०-२९॥
हिंसाभिरुचयो हिंस्युरिमां वा जनकात्मजाम् ।
विपन्नं स्यात् ततः कार्यं रामसुग्रीवयोरिदम् ॥५-३०-३०॥
उद्देशे नष्टमार्गेऽस्मिन् राक्षसैः परिवारिते ।
सागरेण परिक्षिप्ते गुप्ते वसति जानकी ॥५-३०-३१॥
विशस्ते वा गृहीते वा रक्षोभिर्मयि संयुगे ।
नान्यं पश्यामि रामस्य सहायं कार्यसाधने ॥५-३०-३२॥
विमृशंश्च न पश्यामि यो हते मयि वानरः ।
शतयोजनविस्तीर्णं लङ्घयेत महोदधिम् ॥५-३०-३३॥
कामं हन्तुं समर्थोऽस्मि सहस्राण्यपि रक्षसाम् ।
न तु शक्ष्याम्यहं प्राप्तुं परं पारं महोदधेः ॥५-३०-३४॥
कामं हन्तुं समर्थोऽस्मि सहस्राण्यपि रक्षसाम् ।
न तु शक्ष्याम्यहं प्राप्तुं परं पारं महोदधेः ॥५-३०-३५॥
एष दोषो महान् हि स्यान्मम सीताभिभाषणे ।
प्राणत्यागश्च वैदेह्या भवेदनभिभाषणे ॥५-३०-३६॥
भूताश्चार्था विरुध्यन्त देशकालविरोधिताः ।
विक्लवं दूतमासाद्य तमः सूर्योदये यथा ॥५-३०-३७॥
अर्थानर्थान्तरे बुद्धिर्निश्चितापि न शोभते ।
घातयन्ति हि कार्याणि दूताः पण्डितमानिनः ॥५-३०-३८॥
न विनश्येत् कथं कार्यं वैक्लव्यं न कथं मम ।
लङ्घनं च समुद्रस्य कथं नु न वृथा भवेत् ॥५-३०-३९॥
कथं नु खलु वाक्यं मे शृणुयान्नोद्विजेत च ।
इति संचिन्त्य हनुमांश्चकार मतिमान् मतिम् ॥५-३०-४०॥
राममक्लिष्टकर्माणं सुबन्धुमनुकीर्तयन् ।
नैनामुद्वेजयिष्यामि तद्बन्धुगतचेतनाम् ॥५-३०-४१॥
इक्ष्वाकूणां वरिष्ठस्य रामस्य विदितात्मनः ।
शुभानि धर्मयुक्तानि वचनानि समर्पयन् ॥५-३०-४२॥
श्रावयिष्यामि सर्वाणि मधुरां प्रब्रुवन् गिरम् ।
श्रद्धास्यति यथा सीता तथा सर्वं समादधे ॥५-३०-४३॥
इति स बहुविधं महाप्रभावो जगतिपतेः प्रमदामवेक्षमाणः ।
मधुरमवितथं जगाद वाक्यं द्रुमविटपान्तरमास्थितो हनूमान् ॥५-३०-४४॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे हनुमत्कृत्याकृत्यविचिन्तनम् नाम त्रिंशः सर्गः ॥५-३०॥
Previous
शुभनिमित्तानि
Next
रामवृत्तसंश्रवः