शुभनिमित्तानि
सुन्दरकाण्डः / शुभनिमित्तानि
Script
Translation
Previous
उद्बन्धनव्यवसायः
Next
हनुमत्कृत्याकृत्यविचिन्तनम्
अथ श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे शुभनिमित्तानि नाम एकोनत्रिंशः सर्गः ॥५-२९॥
तथागतां तां व्यथितामनिन्दितां व्यतीतहर्षां परिदीनमानसाम् ।
शुभां निमित्तानि शुभानि भेजिरे नरं श्रिया जुष्टमिवोपसेविनः ॥५-२९-१॥
तस्याः शुभं वाममरालपक्ष्मराज्यावृतं कृष्णविशालशुक्लम् ।
प्रास्पन्दतैकं नयनं सुकेश्या मीनाहतं पद्ममिवाभिताम्रम् ॥५-२९-२॥
भुजश्च चार्वञ्चितवृत्तपीनः परार्घ्यकालागुरुचन्दनार्हः ।
अनुत्तमेनाघ्युषितः प्रियेण चिरेण वामः समवेपताशु ॥५-२९-३॥
गजेन्द्रहस्तप्रतिमश्च पीनस्तयोर्द्वयोः संहतयोस्तु जातः ।
प्रस्पन्दमानः पुनरूरुरस्या रामं पुरस्तात् स्थितमाचचक्षे ॥५-२९-४॥
शुभं पुनर्हेमसमानवर्णमीषद्रजोध्वस्तमिवातुलाक्ष्याः ।
वासः स्थितायाः शिखराग्रदन्त्याः किंचित् परिस्रंसत चारुगात्र्याः ॥५-२९-५॥
एतैर्निमित्तैरपरैश्च सुभ्रूः संचोदिता प्रागपि साधुसिद्धैः ।
वातातपक्लान्तमिव प्रणष्टं वर्षेण बीजं प्रतिसंजहर्ष ॥५-२९-६॥
तस्याः पुनर्बिम्बफलोपमोष्ठं स्वक्षिभ्रुकेशान्तमरालपक्ष्म ।
वक्त्रं बभासे सितशुक्लदंष्ट्रं राहोर्मुखाच्चन्द्र इव प्रमुक्तः ॥५-२९-७॥
सा वीतशोका व्यपनीततन्द्रा शान्तज्वरा हर्षविबुद्धसत्त्वा ।
अशोभतार्या वदनेन शुक्ले शीतांशुना रात्रिरिवोदितेन ॥५-२९-८॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे शुभनिमित्तानि नाम एकोनत्रिंशः सर्गः ॥५-२९॥
Previous
उद्बन्धनव्यवसायः
Next
हनुमत्कृत्याकृत्यविचिन्तनम्