निशागमप्रतीक्षा

सुन्दरकाण्डः / निशागमप्रतीक्षा

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे निशागमप्रतीक्षा नाम द्वितीयः सर्गः ॥५-२॥
स सागरमनाधृष्यमतिक्रम्य महाबलः । त्रिकूटस्य तटे लंकां स्थितः स्वस्थो ददर्श ह ॥५-२-१॥
ततः पादपमुक्तेन पुष्पवर्षेण वीर्यवान् । अभिवृष्टस्ततस्तत्र बभौ पुष्पमयो हरिः ॥५-२-२॥
योजनानां शतं श्रीमांस्तीर्त्वाप्युत्तमविक्रमः । अनिःश्वसन् कपिस्तत्र न ग्लानिमधिगच्छति ॥५-२-३॥
शतान्यहं योजनानां क्रमेयं सुबहून्यपि । किं पुनः सागरस्यान्तं संख्यातं शतयोजनम् ॥५-२-४॥
स तु वीर्यवतां श्रेष्ठः प्लवतामपि चोत्तमः । जगाम वेगवाँल्लंकां लङ्घयित्वा महोदधिम् ॥५-२-५॥
शाद्वलानि च नीलानि गन्धवन्ति वनानि च । मधुमन्ति च मध्येन जगाम नगवन्ति च ॥५-२-६॥
शैलांश्च तरुसंछन्नान् वनराजीश्च पुष्पिताः । अभिचक्राम तेजस्वी हनूमान् प्लवगर्षभः ॥५-२-७॥
स तस्मिन्नचले तिष्ठन् वनान्युपवनानि च । स नगाग्रे स्थितां लंकां ददर्श पवनात्मजः ॥५-२-८॥
सरलान् कर्णिकारांश्च खर्जूरांश्च सुपुष्पितान् । प्रियालान् मुचुलिन्दांश्च कुटजान् केतकानपि ॥५-२-९॥
प्रियङ्गून् गन्धपूर्णांश्च नीपान् सप्तच्छदांस्तथा । असनान् कोविदारांश्च करवीरांश्च पुष्पितान् ॥५-२-१०॥
पुष्पभारनिबद्धांश्च तथा मुकुलितानपि । पादपान् विहगाकीर्णान् पवनाधूतमस्तकान् ॥५-२-११॥
हंसकारण्डवाकीर्णा वापीः पद्मोत्पलावृताः । आक्रीडान् विविधान् रम्यान् विविधांश्च जलाशयान् ॥५-२-१२॥
संततान् विविधैर्वृक्षैः सर्वर्तुफलपुष्पितैः । उद्यानानि च रम्याणि ददर्श कपिकुञ्जरः ॥५-२-१३॥
समासाद्य च लक्ष्मीवाँल्लंकां रावणपालिताम् । परिखाभिः सपद्माभिः सोत्पलाभिरलंकृताम् ॥५-२-१४॥
सीतापहरणात् तेन रावणेन सुरक्षिताम् । समन्ताद् विचरद्भिश्च राक्षसैरुग्रधन्वभिः ॥५-२-१५॥
काञ्चनेनावृतां रम्यां प्राकारेण महापुरीम् । गृहैश्च गिरिसंकाशैः शारदाम्बुदसंनिभैः ॥५-२-१६॥
पाण्डुराभिः प्रतोलीभिरुच्चाभिरभिसंवृताम् । अट्टालकशताकीर्णां पताकाध्वजशोभिताम् ॥५-२-१७॥
तोरणैः काञ्चनैर्दिव्यैर्लतापङ्क्तिविराजितैः । ददर्श हनुमाँल्लंकां देवो देवपुरीमिव ॥५-२-१८॥
गिरिमूर्ध्नि स्थितां लंकां पाण्डुरैर्भवनैः शुभैः । ददर्श स कपिः श्रीमान् पुरीमाकाशगामिव ॥५-२-१९॥
पालितां राक्षसेन्द्रेण निर्मितां विश्वकर्मणा । प्लवमानामिवाकाशे ददर्श हनुमान् कपिः ॥५-२-२०॥
वप्रप्राकारजघनां विपुलाम्बुवनाम्बराम् । शतघ्नीशूलकेशान्तामट्टालकावतंसकाम् ॥५-२-२१॥
मनसेव कृतां लंकां निर्मितां विश्वकर्मणा । द्वारमुत्तरमासाद्य चिन्तयामास वानरः ॥५-२-२२॥
कैलासनिलयप्रख्यमालिखन्तमिवाम्बरम् । ध्रियमाणमिवाकाशमुच्छ्रितैर्भवनोत्तमैः ॥५-२-२३॥
सम्पूर्णा राक्षसैर्घोरैर्नागैर्भोगवतीमिव । अचिन्त्यां सुकृतां स्पष्टां कुबेराध्युषितां पुरा ॥५-२-२४॥
दंष्ट्राभिर्बहुभिः शूरैः शूलपट्टिशपाणिभिः । रक्षितां राक्षसैर्घोरैर्गुहामाशीविषैरिव ॥५-२-२५॥
तस्याश्च महतीं गुप्तिं सागरं च निरीक्ष्य सः । रावणं च रिपुं घोरं चिन्तयामास वानरः ॥५-२-२६॥
आगत्यापीह हरयो भविष्यन्ति निरर्थकाः । नहि युद्धेन वै लंका शक्या जेतुं सुरैरपि ॥५-२-२७॥
इमां त्वविषमां लंकां दुर्गां रावणपालिताम् । प्राप्यापि सुमहाबाहुः किं करिष्यति राघवः ॥५-२-२८॥
अवकाशो न साम्नस्तु राक्षसेष्वभिगम्यते । न दानस्य न भेदस्य नैव युद्धस्य दृश्यते ॥५-२-२९॥
चतुर्णामेव हि गतिर्वानराणां तरस्विनाम् । वालिपुत्रस्य नीलस्य मम राज्ञश्च धीमतः ॥५-२-३०॥
यावज्जानामि वैदेहीं यदि जीवति वा न वा । तत्रैव चिन्तयिष्यामि दृष्ट्वा तां जनकात्मजाम् ॥५-२-३१॥
ततः स चिन्तयामास मुहूर्तं कपिकुञ्जरः । गिरेः शृङ्गे स्थितस्तस्मिन् रामस्याभ्युदयं ततः ॥५-२-३२॥
अनेन रूपेण मया न शक्या रक्षसां पुरी । प्रवेष्टुं राक्षसैर्गुप्ता क्रूरैर्बलसमन्वितैः ॥५-२-३३॥
महौजसो महावीर्या बलवन्तश्च राक्षसाः । वञ्चनीया मया सर्वे जानकीं परिमार्गता ॥५-२-३४॥
लक्ष्यालक्ष्येण रूपेण रात्रौ लंकापुरी मया । प्राप्तकालं प्रवेष्टुं मे कृत्यं साधयितुं महत् ॥५-२-३५॥
तां पुरीं तादृशीं दृष्ट्वा दुराधर्षां सुरासुरैः । हनूमांश्चिन्तयामास विनिःश्वस्य मुहुर्मुहुः ॥५-२-३६॥
केनोपायेन पश्येयं मैथिलीं जनकात्मजाम् । अदृष्टो राक्षसेन्द्रेण रावणेन दुरात्मना ॥५-२-३७॥
न विनश्येत् कथं कार्यं रामस्य विदितात्मनः । एकामेकस्तु पश्येयं रहिते जनकात्मजाम् ॥५-२-३८॥
भूताश्चार्था विनश्यन्ति देशकालविरोधिताः । विक्लवं दूतमासाद्य तमः सूर्योदये यथा ॥५-२-३९॥
अर्थानर्थान्तरे बुद्धिर्निश्चितापि न शोभते । घातयन्तीह कार्याणि दूताः पण्डितमानिनः ॥५-२-४०॥
न विनश्येत् कथं कार्यं वैक्लव्यं न कथं भवेत् । लङ्घनं च समुद्रस्य कथं नु न भवेद् वृथा ॥५-२-४१॥
मयि दृष्टे तु रक्षोभी रामस्य विदितात्मनः । भवेद् व्यर्थमिदं कार्यं रावणानर्थमिच्छतः ॥५-२-४२॥
नहि शक्यं क्वचित् स्थातुमविज्ञातेन राक्षसैः । अपि राक्षसरूपेण किमुतान्येन केनचित् ॥५-२-४३॥
वायुरप्यत्र नाज्ञातश्चरेदिति मतिर्मम । नह्यत्राविदितं किंचिद् रक्षसां भीमकर्मणाम् ॥५-२-४४॥
इहाहं यदि तिष्ठामि स्वेन रूपेण संवृतः । विनाशमुपयास्यामि भर्तुरर्थश्च हास्यति ॥५-२-४५॥
तदहं स्वेन रूपेण रजन्यां ह्रस्वतां गतः । लंकामभिपतिष्यामि राघवस्यार्थसिद्धये ॥५-२-४६॥
रावणस्य पुरीं रात्रौ प्रविश्य सुदुरासदाम् । प्रविश्य भवनं सर्वं द्रक्ष्यामि जनकात्मजाम् ॥५-२-४७॥
इति निश्चित्य हनुमान् सूर्यस्यास्तमयं कपिः । आचकाङ्क्षे तदा वीरो वैदेह्या दर्शनोत्सुकः ॥५-२-४८॥
सूर्ये चास्तं गते रात्रौ देहं संक्षिप्य मारुतिः । वृषदंशकमात्रोऽथ बभूवाद्भुतदर्शनः ॥५-२-४९॥
प्रदोषकाले हनुमांस्तूर्णमुत्पत्य वीर्यवान् । प्रविवेश पुरीं रम्यां प्रविभक्तमहापथाम् ॥५-२-५०॥
प्रासादमालाविततां स्तम्भैः काञ्चनसंनिभैः । शातकुम्भनिभैर्जालैर्गन्धर्वनगरोपमाम् ॥५-२-५१॥
सप्तभौमाष्टभौमैश्च स ददर्श महापुरीम् । तलैः स्फटिकसंकीर्णैः कार्तस्वरविभूषितैः ॥५-२-५२॥
वैदूर्यमणिचित्रैश्च मुक्ताजालविभूषितैः । तैस्तैः शुशुभिरे तानि भवनान्यत्र रक्षसाम् ॥५-२-५३॥
काञ्चनानि विचित्राणि तोरणानि च रक्षसाम् । लंकामुद्योतयामासुः सर्वतः समलंकृताम् ॥५-२-५४॥
अचिन्त्यामद्भुताकारां दृष्ट्वा लंकां महाकपिः । आसीद् विषण्णो हृष्टश्च वैदेह्या दर्शनोत्सुकः ॥५-२-५५॥
स पाण्डुराविद्धविमानमालिनीं महार्हजाम्बूनदजालतोरणाम् । यशस्विनीं रावणबाहुपालितां क्षपाचरैर्भीमबलैः सुपालिताम् ॥५-२-५६॥
चन्द्रोऽपि साचिव्यमिवास्य कुर्वंस्तारागणैर्मध्यगतो विराजन् । ज्योत्स्नावितानेन वितत्य लोकानुत्तिष्ठतेऽनेकसहस्ररश्मिः ॥५-२-५७॥
शङ्खप्रभं क्षीरमृणालवर्णमुद्गच्छमानं व्यवभासमानम् । ददर्श चन्द्रं स कपिप्रवीरः पोप्लूयमानं सरसीव हंसम् ॥५-२-५८॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे निशागमप्रतीक्षा नाम द्वितीयः सर्गः ॥५-२॥