उद्बन्धनव्यवसायः

सुन्दरकाण्डः / उद्बन्धनव्यवसायः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे उद्बन्धनव्यवसायः नाम अष्टाविंशः सर्गः ॥५-२८॥
सा राक्षसेन्द्रस्य वचो निशम्य तद् रावणस्याप्रियमप्रियार्ता । सीता वितत्रास यथा वनान्ते सिंहाभिपन्ना गजराजकन्या ॥५-२८-१॥
सा राक्षसीमध्यगता च भीरुर्वाग्भिर्भृशं रावणतर्जिता च । कान्तारमध्ये विजने विसृष्टा बालेव कन्या विललाप सीता ॥५-२८-२॥
सत्यं बतेदं प्रवदन्ति लोके नाकालमृत्युर्भवतीति सन्तः । यत्राहमेवं परिभर्त्स्यमाना जीवामि यस्मात् क्षणमप्यपुण्या ॥५-२८-३॥
सुखाद् विहीनं बहुदुःखपूर्णमिदं तु नूनं हृदयं स्थिरं मे । विदीर्यते यन्न सहस्रधाद्य वज्राहतं शृंगमिवाचलस्य ॥५-२८-४॥
नैवास्ति नूनं मम दोषमत्र वध्याहमस्याप्रियदर्शनस्य । भावं न चास्याहमनुप्रदातुमलं द्विजो मन्त्रमिवाद्विजाय ॥५-२८-५॥
तस्मिन्ननागच्छति लोकनाथे गर्भस्थजन्तोरिव शल्यकृन्तः । नूनं ममांगान्यचिरादनार्यः शस्त्रैः शितैश्छेत्स्यति राक्षसेन्द्रः ॥५-२८-६॥
दुःखं बतेदं ननु दुःखिताया मासौ चिरायाभिगमिष्यतो द्वौ । बद्धस्य वध्यस्य यथा निशान्ते राजोपरोधादिव तस्करस्य ॥५-२८-७॥
हा राम हा लक्ष्मण हा सुमित्रे हा राममातः सह मे जनन्यः । एषा विपद्याम्यहमल्पभाग्या महार्णवे नौरिव मूढवाता ॥५-२८-८॥
तरस्विनौ धारयता मृगस्य सत्त्वेन रूपं मनुजेन्द्रपुत्रौ । नूनं विशस्तौ मम कारणात् तौ सिंहर्षभौ द्वाविव वैद्युतेन ॥५-२८-९॥
नूनं स कालो मृगरूपधारी मामल्पभाग्यां लुलुभे तदानीम् । यत्रार्यपुत्रौ विससर्ज मूढा रामानुजं लक्ष्मणपूर्वजं च ॥५-२८-१०॥
हा राम सत्यव्रत दीर्घबाहो हा पूर्णचन्द्रप्रतिमानवक्त्र । हा जीवलोकस्य हितः प्रियश्च वध्यां न मां वेत्सि हि राक्षसानाम् ॥५-२८-११॥
अनन्यदेवत्वमियं क्षमा च भूमौ च शय्या नियमश्च धर्मे । पतिव्रतात्वं विफलं ममेदं कृतं कृतघ्नेष्विव मानुषाणाम् ॥५-२८-१२॥
मोघो हि धर्मश्चरितो ममायं तथैकपत्नीत्वमिदं निरर्थकम् । या त्वां न पश्यामि कृशा विवर्णा हीना त्वया संगमने निराशा ॥५-२८-१३॥
पितुर्निदेशं नियमेन कृत्वा वनान्निवृत्तश्चरितव्रतश्च । स्त्रीभिस्तु मन्ये विपुलेक्षणाभिः संरंस्यसे वीतभयः कृतार्थः ॥५-२८-१४॥
अहं तु राम त्वयि जातकामा चिरं विनाशाय निबद्धभावा । मोघं चरित्वाथ तपो व्रतं च त्यक्ष्यामि धिग्जीवितमल्पभाग्याम् ॥५-२८-१५॥
संजीवितं क्षिप्रमहं त्यजेयं विषेण शस्त्रेण शितेन वापि । विषस्य दाता न तु मेऽस्ति कश्चिच्छस्त्रस्य वा वेश्मनि राक्षसस्य ॥५-२८-१६॥
शोकाभितप्ता बहुधा विचिन्त्य सीताथ वेणीग्रथनं गृहीत्वा । उद्बद्ध्य वेण्युद्ग्रथनेन शीघ्रमहं गमिष्यामि यमस्य मूलम् ॥५-२८-१७॥
उपस्थिता सा मृदुसर्वगात्री शाखां गृहीत्वा च नगस्य तस्य । तस्यास्तु रामं परिचिन्तयन्त्या रामानुजं स्वं च कुलं शुभांग्याः ॥५-२८-१८॥
तस्या विशोकानि तदा बहूनि धैर्यार्जितानि प्रवराणि लोके । प्रादुर्निमित्तानि तदा बभूवुः पुरापि सिद्धान्युपलक्षितानि ॥५-२८-१९॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे उद्बन्धनव्यवसायः नाम अष्टाविंशः सर्गः ॥५-२८॥