सागरलङ्घनम्
सुन्दरकाण्डः / सागरलङ्घनम्
Script
Translation
Next
निशागमप्रतीक्षा
अथ श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे सागरलङ्घनम् नाम प्रथमः सर्गः ॥५-१॥
ततो रावणनीतायाः सीतायाः शत्रुकर्षणः ।
इयेष पदमन्वेष्टुं चारणाचरिते पथि ॥५-१-१॥
दुष्करं निष्प्रतिद्वन्द्वं चिकीर्षन् कर्म वानरः ।
समुदग्रशिरोग्रीवो गवां पतिरिवाबभौ ॥५-१-२॥
अथ वैदूर्यवर्णेषु शाद्वलेषु महाबलः ।
धीरः सलिलकल्पेषु विचचार यथासुखम् ॥५-१-३॥
द्विजान् वित्रासयन् धीमानुरसा पादपान् हरन् ।
मृगांश्च सुबहून् निघ्नन् प्रवृद्ध इव केसरी ॥५-१-४॥
नीललोहितमाञ्जिष्ठपद्मवर्णैः सितासितैः ।
स्वभावसिद्धैर्विमलैर्धातुभिः समलंकृतम् ॥५-१-५॥
कामरूपिभिराविष्टमभीक्ष्णं सपरिच्छदैः ।
यक्षकिंनरगन्धर्वैर्देवकल्पैः सपन्नगैः ॥५-१-६॥
स तस्य गिरिवर्यस्य तले नागवरायुते ।
तिष्ठन् कपिवरस्तत्र ह्रदे नाग इवाबभौ ॥५-१-७॥
स सूर्याय महेन्द्राय पवनाय स्वयम्भुवे ।
भूतेभ्यश्चाञ्जलिं कृत्वा चकार गमने मतिम् ॥५-१-८॥
अञ्जलिं प्राङ्मुखं कुर्वन् पवनायात्मयोनये ।
ततो हि ववृधे गन्तुं दक्षिणो दक्षिणां दिशम् ॥५-१-९॥
प्लवगप्रवरैर्दृष्टः प्लवने कृतनिश्चयः ।
ववृधे रामवृद्ध्यर्थं समुद्र इव पर्वसु ॥५-१-१०॥
निष्प्रमाणशरीरः सँल्लिलङ्घयिषुरर्णवम् ।
बाहुभ्यां पीडयामास चरणाभ्यां च पर्वतम् ॥५-१-११॥
स चचालाचलश्चाशु मुहूर्तं कपिपीडितः ।
तरूणां पुष्पिताग्राणां सर्वं पुष्पमशातयत् ॥५-१-१२॥
तेन पादपमुक्तेन पुष्पौघेण सुगन्धिना ।
सर्वतः संवृतः शैलो बभौ पुष्पमयो यथा ॥५-१-१३॥
तेन चोत्तमवीर्येण पीड्यमानः स पर्वतः ।
सलिलं सम्प्रसुस्राव मदमत्त इव द्विपः ॥५-१-१४॥
पीड्यमानस्तु बलिना महेन्द्रस्तेन पर्वतः ।
रीतीर्निर्वर्तयामास काञ्चनाञ्जनराजतीः ॥५-१-१५॥
मुमोच च शिलाः शैलो विशालाः समनःशिलाः ।
मध्यमेनार्चिषा जुष्टो धूमराजीरिवानलः ॥५-१-१६॥
हरिणा पीड्यमानेन पीड्यमानानि सर्वतः ।
गुहाविष्टानि सत्त्वानि विनेदुर्विकृतैः स्वरैः ॥५-१-१७॥
स महान् सत्त्वसन्नादः शैलपीडानिमित्तजः ।
पृथिवीं पूरयामास दिशश्चोपवनानि च ॥५-१-१८॥
शिरोभिः पृथुभिर्नागा व्यक्तस्वस्तिकलक्षणैः ।
वमन्तः पावकं घोरं ददंशुर्दशनैः शिलाः ॥५-१-१९॥
तास्तदा सविषैर्दष्टाः कुपितैस्तैर्महाशिलाः ।
जज्वलुः पावकोद्दीप्ता बिभिदुश्च सहस्रधा ॥५-१-२०॥
यानि त्वौषधजालानि तस्मिञ्जातानि पर्वते ।
विषघ्नान्यपि नागानां न शेकुः शमितुं विषम् ॥५-१-२१॥
भिद्यतेऽयं गिरिर्भूतैरिति मत्वा तपस्विनः ।
त्रस्ता विद्याधरास्तस्मादुत्पेतुः स्त्रीगणैः सह ॥५-१-२२॥
पानभूमिगतं हित्वा हैममासवभाजनम् ।
पात्राणि च महार्हाणि करकांश्च हिरण्मयान् ॥५-१-२३॥
लेह्यानुच्चावचान् भक्ष्यान् मांसानि विविधानि च ।
आर्षभाणि च चर्माणि खड्गांश्च कनकत्सरून् ॥५-१-२४॥
कृतकण्ठगुणाः क्षीबा रक्तमाल्यानुलेपनाः ।
रक्ताक्षाः पुष्कराक्षाश्च गगनं प्रतिपेदिरे ॥५-१-२५॥
हारनूपुरकेयूरपारिहार्यधराः स्त्रियः ।
विस्मिताः सस्मितास्तस्थुराकाशे रमणौः सह ॥५-१-२६॥
दर्शयन्तो महाविद्यां विद्याधरमहर्षयः ।
सहितास्तस्थुराकाशे वीक्षांचक्रुश्च पर्वतम् ॥५-१-२७॥
शुश्रुवुश्च तदा शब्दमृषीणां भावितात्मनाम् ।
चारणानां च सिद्धानां स्थितानां विमलेऽम्बरे ॥५-१-२८॥
एष पर्वतसंकाशो हनुमान् मारुतात्मजः ।
तितीर्षति महावेगः समुद्रं वरुणालयम् ॥५-१-२९॥
रामार्थं वानरार्थं च चिकीर्षन् कर्म दुष्करम् ।
समुद्रस्य परं पारं दुष्प्रापं प्राप्तुमिच्छति ॥५-१-३०॥
इति विद्याधरा वाचः श्रुत्वा तेषां तपस्विनाम् ।
तमप्रमेयं ददृशुः पर्वते वानरर्षभम् ॥५-१-३१॥
दुधुवे च स रोमाणि चकम्पे चानलोपमः ।
ननाद च महानादं सुमहानिव तोयदः ॥५-१-३२॥
आनुपूर्व्या च वृत्तं तल्लाङ्गूलं रोमभिश्चितम् ।
उत्पतिष्यन् विचिक्षेप पक्षिराज इवोरगम् ॥५-१-३३॥
तस्य लाङ्गूलमाविद्धमतिवेगस्य पृष्ठतः ।
ददृशे गरुडेनेव ह्रियमाणो महोरगः ॥५-१-३४॥
बाहू संस्तम्भयामास महापरिघसंनिभौ ।
आससाद कपिः कट्यां चरणौ संचुकोच च ॥५-१-३५॥
संहृत्य च भुजौ श्रीमांस्तथैव च शिरोधराम् ।
तेजः सत्त्वं तथा वीर्यमाविवेश स वीर्यवान् ॥५-१-३६॥
मार्गमालोकयन् दूरादूर्ध्वप्रणिहितेक्षणः ।
रुरोध हृदये प्राणानाकाशमवलोकयन् ॥५-१-३७॥
पद्भ्यां दृढमवस्थानं कृत्वा स कपिकुञ्जरः ।
निकुच्य कर्णौ हनुमानुत्पतिष्यन् महाबलः ॥५-१-३८॥
वानरान् वानरश्रेष्ठ इदं वचनमब्रवीत् ।
यथा राघवनिर्मुक्तः शरः श्वसनविक्रमः ॥५-१-३९॥
गच्छेत् तद्वद् गमिष्यामि लंकां रावणपालिताम् ।
नहि द्रक्ष्यामि यदि तां लंकायां जनकात्मजाम् ॥५-१-४०॥
अनेनैव हि वेगेन गमिष्यामि सुरालयम् ।
यदि वा त्रिदिवे सीतां न द्रक्ष्यामि कृतश्रमः ॥५-१-४१॥
बद्ध्वा राक्षसराजानमानयिष्यामि रावणम् ।
सर्वथा कृतकार्योऽहमेष्यामि सह सीतया ॥५-१-४२॥
आनयिष्यामि वा लंकां समुत्पाट्य सरावणाम् ।
एवमुक्त्वा तु हनुमान् वानरो वानरोत्तमः ॥५-१-४३॥
उत्पपाताथ वेगेन वेगवानविचारयन् ।
सुपर्णमिव चात्मानं मेने स कपिकुञ्जरः ॥५-१-४४॥
समुत्पतति वेगात् तु वेगात् ते नगरोहिणः ।
संहृत्य विटपान् सर्वान् समुत्पेतुः समन्ततः ॥५-१-४५॥
स मत्तकोयष्टिभकान् पादपान् पुष्पशालिनः ।
उद्वहन्नुरुवेगेन जगाम विमलेऽम्बरे ॥५-१-४६॥
ऊरुवेगोत्थिता वृक्षा मुहूर्तं कपिमन्वयुः ।
प्रस्थितं दीर्घमध्वानं स्वबन्धुमिव बान्धवाः ॥५-१-४७॥
तमूरुवेगोन्मथिताः सालाश्चान्ये नगोत्तमाः ।
अनुजग्मुर्हनूमन्तं सैन्या इव महीपतिम् ॥५-१-४८॥
सुपुष्पिताग्रैर्बहुभिः पादपैरन्वितः कपिः ।
हनूमान् पर्वताकारो बभूवाद्भुतदर्शनः ॥५-१-४९॥
सारवन्तोऽथ ये वृक्षा न्यमज्जँल्लवणाम्भसि ।
भयादिव महेन्द्रस्य पर्वता वरुणालये ॥५-१-५०॥
स नानाकुसुमैः कीर्णः कपिः साङ्कुरकोरकैः ।
शुशुभे मेघसंकाशः खद्योतैरिव पर्वतः ॥५-१-५१॥
विमुक्तास्तस्य वेगेन मुक्त्वा पुष्पाणि ते द्रुमाः ।
व्यवशीर्यन्त सलिले निवृत्ताः सुहृदो यथा ॥५-१-५२॥
लघुत्वेनोपपन्नं तद् विचित्रं सागरेऽपतत् ।
द्रुमाणां विविधं पुष्पं कपिवायुसमीरितम् ।
ताराचितमिवाकाशं प्रबभौ स महार्णवः ॥५-१-५३॥
पुष्पौघेण सुगन्धेन नानावर्णेन वानरः ।
बभौ मेघ इवोद्यन् वै विद्युद्गणविभूषितः ॥५-१-५४॥
तस्य वेगसमुद्भूतैः पुष्पैस्तोयमदृश्यत ।
ताराभिरिव रामाभिरुदिताभिरिवाम्बरम् ॥५-१-५५॥
तस्याम्बरगतौ बाहू ददृशाते प्रसारितौ ।
पर्वताग्राद् विनिष्क्रान्तौ पञ्चास्याविव पन्नगौ ॥५-१-५६॥
पिबन्निव बभौ चापि सोर्मिजालं महार्णवम् ।
पिपासुरिव चाकाशं ददृशे स महाकपिः ॥५-१-५७॥
तस्य विद्युत्प्रभाकारे वायुमार्गानुसारिणः ।
नयने विप्रकाशेते पर्वतस्थाविवानलौ ॥५-१-५८॥
पिङ्गे पिङ्गाक्षमुख्यस्य बृहती परिमण्डले ।
चक्षुषी सम्प्रकाशेते चन्द्रसूर्याविव स्थितौ ॥५-१-५९॥
मुखं नासिकया तस्य ताम्रया ताम्रमाबभौ ।
संध्यया समभिस्पृष्टं यथा स्यात् सूर्यमण्डलम् ॥५-१-६०॥
लाङ्गूलं च समाविद्धं प्लवमानस्य शोभते ।
अम्बरे वायुपुत्रस्य शक्रध्वज इवोच्छ्रितम् ॥५-१-६१॥
लाङ्गूलचक्रो हनुमान् शुक्लदंष्ट्रोऽनिलात्मजः ।
व्यरोचत महाप्राज्ञः परिवेषीव भास्करः ॥५-१-६२॥
स्फिग्देशेनातिताम्रेण रराज स महाकपिः ।
महता दारितेनेव गिरिर्गैरिकधातुना ॥५-१-६३॥
तस्य वानरसिंहस्य प्लवमानस्य सागरम् ।
कक्षान्तरगतो वायुर्जीमूत इव गर्जति ॥५-१-६४॥
खे यथा निपतत्युल्का उत्तरान्ताद् विनिःसृता ।
दृश्यते सानुबन्धा च तथा स कपिकुञ्जरः ॥५-१-६५॥
पतत्पतङ्गसंकाशो व्यायतः शुशुभे कपिः ।
प्रवृद्ध इव मातङ्गः कक्ष्यया बध्यमानया ॥५-१-६६॥
उपरिष्टाच्छरीरेण च्छायया चावगाढया ।
सागरे मारुताविष्टा नौरिवासीत् तदा कपिः ॥५-१-६७॥
यं यं देशं समुद्रस्य जगाम स महाकपिः ।
स तु तस्याङ्गवेगेन सोन्माद इव लक्ष्यते ॥५-१-६८॥
सागरस्योर्मिजालानामुरसा शैलवर्ष्मणाम् ।
अभिध्नंस्तु महावेगः पुप्लुवे स महाकपिः ॥५-१-६९॥
कपिवातश्च बलवान् मेघवातश्च निर्गतः ।
सागरं भीमनिर्ह्रादं कम्पयामासतुर्भृशम् ॥५-१-७०॥
विकर्षन्नूर्मिजालानि बृहन्ति लवणाम्भसि ।
पुप्लुवे कपिशार्दूलो विकिरन्निव रोदसी ॥५-१-७१॥
मेरुमन्दरसंकाशानुद्गतान् सुमहार्णवे ।
अत्यक्रामन्महावेगस्तरङ्गान् गणयन्निव ॥५-१-७२॥
तस्य वेगसमुद्घुष्टं जलं सजलदं तदा ।
अम्बरस्थं विबभ्राजे शरदभ्रमिवाततम् ॥५-१-७३॥
तिमिनक्रझषाः कूर्मा दृश्यन्ते विवृतास्तदा ।
वस्त्रापकर्षणेनेव शरीराणि शरीरिणाम् ॥५-१-७४॥
क्रममाणं समीक्ष्याथ भुजगाः सागरंगमाः ।
व्योम्नि तं कपिशार्दूलं सुपर्णमिव मेनिरे ॥५-१-७५॥
दशयोजनविस्तीर्णा त्रिंशद्योजनमायता ।
छाया वानरसिंहस्य जवे चारुतराभवत् ॥५-१-७६॥
श्वेताभ्रघनराजीव वायुपुत्रानुगामिनी ।
तस्य सा शुशुभे छाया पतिता लवणाम्भसि ॥५-१-७७॥
शुशुभे स महातेजा महाकायो महाकपिः ।
वायुमार्गे निरालम्बे पक्षवानिव पर्वतः ॥५-१-७८॥
येनासौ याति बलवान् वेगेन कपिकुञ्जरः ।
तेन मार्गेण सहसा द्रोणीकृत इवार्णवः ॥५-१-७९॥
आपाते पक्षिसङ्घानां पक्षिराज इव व्रजन् ।
हनुमान् मेघजालानि प्रकर्षन् मारुतो यथा ॥५-१-८०॥
पाण्डुरारुणवर्णानि नीलमञ्जिष्ठकानि च ।
कपिनाऽऽकृष्यमाणानि महाभ्राणि चकाशिरे ॥५-१-८१॥
प्रविशन्नभ्रजालानि निष्पतंश्च पुनः पुनः ।
प्रच्छन्नश्च प्रकाशश्च चन्द्रमा इव दृश्यते ॥५-१-८२॥
प्लवमानं तु तं दृष्ट्वा प्लवगं त्वरितं तदा ।
ववृषुस्तत्र पुष्पाणि देवगन्धर्वचारणाः ॥५-१-८३॥
तताप नहि तं सूर्यः प्लवन्तं वानरेश्वरम् ।
सिषेवे च तदा वायू रामकार्यार्थसिद्धये ॥५-१-८४॥
ऋषयस्तुष्टुवुश्चैनं प्लवमानं विहायसा ।
जगुश्च देवगन्धर्वाः प्रशंसन्तो वनौकसम् ॥५-१-८५॥
नागाश्च तुष्टुवुर्यक्षा रक्षांसि विविधानि च ।
प्रेक्ष्य सर्वे कपिवरं सहसा विगतक्लमम् ॥५-१-८६॥
तस्मिन् प्लवगशार्दूले प्लवमाने हनूमति ।
इक्ष्वाकुकुलमानार्थी चिन्तयामास सागरः ॥५-१-८७॥
साहाय्यं वानरेन्द्रस्य यदि नाहं हनूमतः ।
करिष्यामि भविष्यामि सर्ववाच्यो विवक्षताम् ॥५-१-८८॥
अहमिक्ष्वाकुनाथेन सगरेण विवर्धितः ।
इक्ष्वाकुसचिवश्चायं तन्नार्हत्यवसादितुम् ॥५-१-८९॥
तथा मया विधातव्यं विश्रमेत यथा कपिः ।
शेषं च मयि विश्रान्तः सुखी सोऽतितरिष्यति ॥५-१-९०॥
इति कृत्वा मतिं साध्वीं समुद्रश्छन्नमम्भसि ।
हिरण्यनाभं मैनाकमुवाच गिरिसत्तमम् ॥५-१-९१॥
त्वमिहासुरसङ्घानां देवराज्ञा महात्मना ।
पातालनिलयानां हि परिघः संनिवेशितः ॥५-१-९२॥
त्वमेषां ज्ञातवीर्याणां पुनरेवोत्पतिष्यताम् ।
पातालस्याप्रमेयस्य द्वारमावृत्य तिष्ठसि ॥५-१-९३॥
तिर्यगूर्ध्वमधश्चैव शक्तिस्ते शैल वर्धितुम् ।
तस्मात् संचोदयामि त्वामुत्तिष्ठ गिरिसत्तम ॥५-१-९४॥
स एष कपिशार्दूलस्त्वामुपर्येति वीर्यवान् ।
हनूमान् रामकार्यार्थी भीमकर्मा खमाप्लुतः ॥५-१-९५॥
अस्य साह्यं मया कार्यमिक्ष्वाकुकुलवर्तिनः ।
मम इक्ष्वाकवः पूज्याः परं पूज्यतमास्तव ॥५-१-९६॥
कुरु साचिव्यमस्माकं न नः कार्यमतिक्रमेत् ।
कर्तव्यमकृतं कार्यं सतां मन्युमुदीरयेत् ॥५-१-९७॥
सलिलादूर्ध्वमुत्तिष्ठ तिष्ठत्वेष कपिस्त्वयि ।
अस्माकमतिथिश्चैव पूज्यश्च प्लवतां वरः ॥५-१-९८॥
चामीकरमहानाभ देवगन्धर्वसेवित ।
हनूमाँस्त्वयि विश्रान्तस्ततः शेषं गमिष्यति ॥५-१-९९॥
काकुत्स्थस्यानृशंस्यं च मैथिल्याश्च विवासनम् ।
श्रमं च प्लवगेन्द्रस्य समीक्ष्योत्थातुमर्हसि ॥५-१-१००॥
हिरण्यगर्भो मैनाको निशम्य लवणाम्भसः ।
उत्पपात जलात् तूर्णं महाद्रुमलतावृतः ॥५-१-१०१॥
स सागरजलं भित्त्वा बभूवात्युच्छ्रितस्तदा ।
यथा जलधरं भित्त्वा दीप्तरश्मिर्दिवाकरः ॥५-१-१०२॥
स महात्मा मुहूर्तेन पर्वतः सलिलावृतः ।
दर्शयामास शृङ्गाणि सागरेण नियोजितः ॥५-१-१०३॥
शातकुम्भमयैः शृङ्गैः सकिंनरमहोरगैः ।
आदित्योदयसंकाशैरुल्लिखद्भिरिवाम्बरम् ॥५-१-१०४॥
तस्य जाम्बूनदैः शृङ्गैः पर्वतस्य समुत्थितैः ।
आकाशं शस्त्रसंकाशमभवत् काञ्चनप्रभम् ॥५-१-१०५॥
जातरूपमयैः शृङ्गैर्भ्राजमानैर्महाप्रभैः ।
आदित्यशतसंकाशः सोऽभवद् गिरिसत्तमः ॥५-१-१०६॥
समुत्थितमसङ्गेन हनूमानग्रतः स्थितम् ।
मध्ये लवणतोयस्य विघ्नोऽयमिति निश्चितः ॥५-१-१०७॥
स तमुच्छ्रितमत्यर्थं महावेगो महाकपिः ।
उरसा पातयामास जीमूतमिव मारुतः ॥५-१-१०८॥
स तदासादितस्तेन कपिना पर्वतोत्तमः ।
बुद्ध्वा तस्य हरेर्वेगं जहर्ष च ननाद च ॥५-१-१०९॥
तमाकाशगतं वीरमाकाशे समुपस्थितः ।
प्रीतो हृष्टमना वाक्यमब्रवीत् पर्वतः कपिम् ॥५-१-११०॥
मानुषं धारयन् रूपमात्मनः शिखरे स्थितः ।
दुष्करं कृतवान् कर्म त्वमिदं वानरोत्तम ॥५-१-१११॥
निपत्य मम शृङ्गेषु सुखं विश्रम्य गम्यताम् ।
राघवस्य कुले जातैरुदधिः परिवर्धितः ॥५-१-११२॥
स त्वां रामहिते युक्तं प्रत्यर्चयति सागरः ।
कृते च प्रतिकर्तव्यमेष धर्मः सनातनः ॥५-१-११३॥
सोऽयं तत्प्रतिकारार्थी त्वत्तः सम्मानमर्हति ।
त्वन्निमित्तमनेनाहं बहुमानात् प्रचोदितः ॥५-१-११४॥
योजनानां शतं चापि कपिरेष खमाप्लुतः ।
तव सानुषु विश्रान्तः शेषं प्रक्रमतामिति ॥५-१-११५॥
तिष्ठ त्वं हरिशार्दूल मयि विश्रम्य गम्यताम् ।
तदिदं गन्धवत् स्वादु कन्दमूलफलं बहु ॥५-१-११६॥
तदास्वाद्य हरिश्रेष्ठ विश्रान्तोऽथ गमिष्यसि ।
अस्माकमपि सम्बन्धः कपिमुख्य त्वयास्ति वै ।
प्रख्यातस्त्रिषु लोकेषु महागुणपरिग्रहः ॥५-१-११७॥
वेगवन्तः प्लवन्तो ये प्लवगा मारुतात्मज ।
तेषां मुख्यतमं मन्ये त्वामहं कपिकुञ्जर ॥५-१-११८॥
अतिथिः किल पूजार्हः प्राकृतोऽपि विजानता ।
धर्मं जिज्ञासमानेन किं पुनर्यादृशो भवान् ॥५-१-११९॥
त्वं हि देववरिष्ठस्य मारुतस्य महात्मनः ।
पुत्रस्तस्यैव वेगेन सदृशः कपिकुञ्जर ॥५-१-१२०॥
पूजिते त्वयि धर्मज्ञे पूजां प्राप्नोति मारुतः ।
तस्मात् त्वं पूजनीयो मे शृणु चाप्यत्र कारणम् ॥५-१-१२१॥
पूर्वं कृतयुगे तात पर्वताः पक्षिणोऽभवन् ।
तेऽपि जग्मुर्दिशः सर्वा गरुडा इव वेगिनः ॥५-१-१२२॥
ततस्तेषु प्रयातेषु देवसङ्घाः सहर्षिभिः ।
भूतानि च भयं जग्मुस्तेषां पतनशङ्कया ॥५-१-१२३॥
ततः क्रुद्धः सहस्राक्षः पर्वतानां शतक्रतुः ।
पक्षांश्चिच्छेद वज्रेण ततः शतसहस्रशः ॥५-१-१२४॥
स मामुपगतः क्रुद्धो वज्रमुद्यम्य देवराट् ।
ततोऽहं सहसा क्षिप्तः श्वसनेन महात्मना ॥५-१-१२५॥
अस्मिँल्लवणतोये च प्रक्षिप्तः प्लवगोत्तम ।
गुप्तपक्षः समग्रश्च तव पित्राभिरक्षितः ॥५-१-१२६॥
ततोऽहं मानयामि त्वां मान्योऽसि मम मारुते ।
त्वया ममैष सम्बन्धः कपिमुख्य महागुणः ॥५-१-१२७॥
अस्मिन् नेवंगते कार्ये सागरस्य ममैव च ।
प्रीतिं प्रीतमनाः कर्तुं त्वमर्हसि महामते ॥५-१-१२८॥
श्रमं मोक्षय पूजां च गृहाण हरिसत्तम ।
प्रीतिं च मम मान्यस्य प्रीतोऽस्मि तव दर्शनात् ॥५-१-१२९॥
एवमुक्तः कपिश्रेष्ठस्तं नगोत्तममब्रवीत् ।
प्रीतोऽस्मि कृतमातिथ्यं मन्युरेषोऽपनीयताम् ॥५-१-१३०॥
त्वरते कार्यकालो मे अहश्चाप्यतिवर्तते ।
प्रतिज्ञा च मया दत्ता न स्थातव्यमिहान्तरा ॥५-१-१३१॥
इत्युक्त्वा पाणिना शैलमालभ्य हरिपुङ्गवः ।
जगामाकाशमाविश्य वीर्यवान् प्रहसन्निव ॥५-१-१३२॥
स पर्वतसमुद्राभ्यां बहुमानादवेक्षितः ।
पूजितश्चोपपन्नाभिराशीर्भिरभिनन्दितः ॥५-१-१३३॥
अथोर्ध्वं दूरमागत्य हित्वा शैलमहार्णवौ ।
पितुः पन्थानमासाद्य जगाम विमलेऽम्बरे ॥५-१-१३४॥
भूयश्चोर्ध्वं गतिं प्राप्य गिरिं तमवलोकयन् ।
वायुसूनुर्निरालम्बो जगाम कपिकुञ्जरः ॥५-१-१३५॥
तद् द्वितीयं हनुमतो दृष्ट्वा कर्म सुदुष्करम् ।
प्रशशंसुः सुराः सर्वे सिद्धाश्च परमर्षयः ॥५-१-१३६॥
देवताश्चाभवन् हृष्टास्तत्रस्थास्तस्य कर्मणा ।
काञ्चनस्य सुनाभस्य सहस्राक्षश्च वासवः ॥५-१-१३७॥
उवाच वचनं धीमान् परितोषात् सगद्गदम् ।
सुनाभं पर्वतश्रेष्ठं स्वयमेव शचीपतिः ॥५-१-१३८॥
हिरण्यनाभ शैलेन्द्र परितुष्टोऽस्मि ते भृशम् ।
अभयं ते प्रयच्छामि गच्छ सौम्य यथासुखम् ॥५-१-१३९॥
साह्यं कृतं ते सुमहद् विश्रान्तस्य हनूमतः ।
क्रमतो योजनशतं निर्भयस्य भये सति ॥५-१-१४०॥
रामस्यैष हितायैव याति दाशरथेः कपिः ।
सत्क्रियां कुर्वता शक्त्या तोषितोऽस्मि दृढं त्वया ॥५-१-१४१॥
स तत् प्रहर्षमलभद् विपुलं पर्वतोत्तमः ।
देवतानां पतिं दृष्ट्वा परितुष्टं शतक्रतुम् ॥५-१-१४२॥
स वै दत्तवरः शैलो बभूवावस्थितस्तदा ।
हनूमांश्च मुहूर्तेन व्यतिचक्राम सागरम् ॥५-१-१४३॥
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।
अब्रुवन् सूर्यसंकाशां सुरसां नागमातरम् ॥५-१-१४४॥
अयं वातात्मजः श्रीमान् प्लवते सागरोपरि ।
हनूमान् नाम तस्य त्वं मुहूर्तं विघ्नमाचर ॥५-१-१४५॥
राक्षसं रूपमास्थाय सुघोरं पर्वतोपमम् ।
दंष्ट्राकरालं पिङ्गाक्षं वक्त्रं कृत्वा नभःस्पृशम् ॥५-१-१४६॥
बलमिच्छामहे ज्ञातुं भूयश्चास्य पराक्रमम् ।
त्वां विजेष्यत्युपायेन विषादं वा गमिष्यति ॥५-१-१४७॥
एवमुक्ता तु सा देवी दैवतैरभिसत्कृता ।
समुद्रमध्ये सुरसा बिभ्रती राक्षसं वपुः ॥५-१-१४८॥
विकृतं च विरूपं च सर्वस्य च भयावहम् ।
प्लवमानं हनूमन्तमावृत्येदमुवाच ह ॥५-१-१४९॥
मम भक्ष्यः प्रदिष्टस्त्वमीश्वरैर्वानरर्षभ ।
अहं त्वां भक्षयिष्यामि प्रविशेदं ममाननम् ॥५-१-१५०॥
वर एष पुरा दत्तो मम धात्रेति सत्वरा ।
व्यादाय वक्त्रं विपुलं स्थिता सा मारुतेः पुरः ॥५-१-१५१॥
एवमुक्तः सुरसया प्रहृष्टवदनोऽब्रवीत् ।
रामो दाशरथिर्नाम प्रविष्टो दण्डकावनम् ।
लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया ॥५-१-१५२॥
अन्यकार्यविषक्तस्य बद्धवैरस्य राक्षसैः ।
तस्य सीता हृता भार्या रावणेन यशस्विनी ॥५-१-१५३॥
तस्याः सकाशं दूतोऽहं गमिष्ये रामशासनात् ।
कर्तुमर्हसि रामस्य साह्यं विषयवासिनि ॥५-१-१५४॥
अथवा मैथिलीं दृष्ट्वा रामं चाक्लिष्टकारिणम् ।
आगमिष्यामि ते वक्त्रं सत्यं प्रतिशृणोमि ते ॥५-१-१५५॥
एवमुक्ता हनुमता सुरसा कामरूपिणी ।
अब्रवीन्नातिवर्तेन्मां कश्चिदेष वरो मम ॥५-१-१५६॥
तं प्रयान्तं समुद्वीक्ष्य सुरसा वाक्यमब्रवीत् ।
बलं जिज्ञासमाना सा नागमाता हनूमतः ॥५-१-१५७॥
निविश्य वदनं मेऽद्य गन्तव्यं वानरोत्तम ।
वर एष पुरा दत्तो मम धात्रेति सत्वरा ॥५-१-१५८॥
व्यादाय विपुलं वक्त्रं स्थिता सा मारुतेःपुरः ।
एवमुक्तः सुरसया क्रुद्धो वानरपुंगवः ॥५-१-१५९॥
अब्रवीत् कुरु वै वक्त्रं येन मां विषहिष्यसि ।
इत्युक्त्वा सुरसां क्रुद्धो दशयोजनमायताम् ॥५-१-१६०॥
दशयोजनविस्तारो हनूमानभवत् तदा ।
तं दृष्ट्वा मेघसंकाशं दशयोजनमायतम् ।
चकार सुरसाप्यास्यं विंशद् योजनमायतम् ॥५-१-१६१॥
हनूमांस्तु ततः क्रुद्धस्त्रिंशद् योजनमायतः ।
चकार सुरसा वक्त्रं चत्वारिंशत् तथोच्छ्रितम् ॥५-१-१६२॥
बभूव हनुमान् वीरः पञ्चाशद् योजनोच्छ्रितः ।
चकार सुरसा वक्त्रं षष्टिं योजनमुच्छ्रितम् ॥५-१-१६३॥
तदैव हनुमान् वीरः सप्ततिं योजनोच्छ्रितः ।
चकार सुरसा वक्त्रमशीतिं योजनोच्छ्रितम् ॥५-१-१६४॥
हनूमाननलप्रख्यो नवतिं योजनोच्छ्रितः ।
चकार सुरसा वक्त्रं शतयोजनमायतम् ॥५-१-१६५॥
तद् दृष्ट्वा व्यादितं त्वास्यं वायुपुत्रः स बुद्धिमान् ।
दीर्घजिह्वं सुरसया सुभीमं नरकोपमम् ॥५-१-१६६॥
स संक्षिप्यात्मनः कायं जीमूत इव मारुतिः ।
तस्मिन् मुहूर्ते हनुमान् बभूवाङ्गुष्ठमात्रकः ॥५-१-१६७॥
सोऽभिपद्याथ तद्वक्त्रं निष्पत्य च महाबलः ।
अन्तरिक्षे स्थितः श्रीमानिदं वचनमब्रवीत् ॥५-१-१६८॥
प्रविष्टोऽस्मि हि ते वक्त्रं दाक्षायणि नमोऽस्तुते ।
गमिष्ये यत्र वैदेही सत्यश्चासीद् वरस्तव ॥५-१-१६९॥
तं दृष्ट्वा वदनान्मुक्तं चन्द्रं राहुमुखादिव ।
अब्रवीत् सुरसा देवी स्वेन रूपेण वानरम् ॥५-१-१७०॥
अर्थसिद्ध्यै हरिश्रेष्ठ गच्छ सौम्य यथासुखम् ।
समानय च वैदेहीं राघवेण महात्मना ॥५-१-१७१॥
तत् तृतीयं हनुमतो दृष्ट्वा कर्म सुदुष्करम् ।
साधुसाध्विति भूतानि प्रशशंसुस्तदा हरिम् ॥५-१-१७२॥
स सागरमनाधृष्यमभ्येत्य वरुणालयम् ।
जगामाकाशमाविश्य वेगेन गरुडोपमः ॥५-१-१७३॥
सेविते वारिधाराभिः पतगैश्च निषेविते ।
चरिते कैशिकाचार्यैरैरावतनिषेविते ॥५-१-१७४॥
सिंहकुञ्जरशार्दूलपतगोरगवाहनैः ।
विमानैः सम्पतद्भिश्च विमलैः समलंकृते ॥५-१-१७५॥
वज्राशनिसमस्पर्शैः पावकैरिव शोभिते ।
कृतपुण्यैर्महाभागैः स्वर्गजिद्भिरधिष्ठिते ॥५-१-१७६॥
वहता हव्यमत्यन्तं सेविते चित्रभानुना ।
ग्रहनक्षत्रचन्द्रार्कतारागणविभूषिते ॥५-१-१७७॥
महर्षिगणगन्धर्वनागयक्षसमाकुले ।
विविक्ते विमले विश्वे विश्वावसुनिषेविते ॥५-१-१७८॥
देवराजगजाक्रान्ते चन्द्रसूर्यपथे शिवे ।
विताने जीवलोकस्य वितते ब्रह्मनिर्मिते ॥५-१-१७९॥
बहुशः सेविते वीरैर्विद्याधरगणैर्वृते ।
जगाम वायुमार्गे च गरुत्मानिव मारुतिः ॥५-१-१८०॥
हनुमान् मेघजालानि प्राकर्षन् मारुतो यथा ।
कालागुरुसवर्णानि रक्तपीतसितानि च ॥५-१-१८१॥
कपिना कृष्यमाणानि महाभ्राणि चकाशिरे ।
प्रविशन्नभ्रजालानि निष्पतंश्च पुनः पुनः ॥५-१-१८२॥
प्रावृषीन्दुरिवाभाति निष्पतन् प्रविशंस्तदा ।
प्रदृश्यमानः सर्वत्र हनूमान् मारुतात्मजः ॥५-१-१८३॥
भेजेऽम्बरं निरालम्बं पक्षयुक्त इवाद्रिराट् ।
प्लवमानं तु तं दृष्ट्वा सिंहिका नाम राक्षसी ॥५-१-१८४॥
मनसा चिन्तयामास प्रवृद्धा कामरूपिणी ।
अद्य दीर्घस्य कालस्य भविष्याम्यहमाशिता ॥५-१-१८५॥
इदं मम महासत्त्वं चिरस्य वशमागतम् ।
इति संचिन्त्य मनसा च्छायामस्य समाक्षिपत् ॥५-१-१८६॥
छायायां गृह्यमाणायां चिन्तयामास वानरः ।
समाक्षिप्तोऽस्मि सहसा पङ्गूकृतपराक्रमः ॥५-१-१८७॥
प्रतिलोमेन वातेन महानौरिव सागरे ।
तिर्यगूर्ध्वमधश्चैव वीक्षमाणस्तदा कपिः ॥५-१-१८८॥
ददर्श स महासत्त्वमुत्थितं लवणाम्भसि ।
तद् दृष्ट्वा चिन्तयामास मारुतिर्विकृताननाम् ॥५-१-१८९॥
कपिराज्ञा यथाख्यातं सत्त्वमद्भुतदर्शनम् ।
छायाग्राहि महावीर्यं तदिदं नात्र संशयः ॥५-१-१९०॥
स तां बुद्ध्वार्थतत्त्वेन सिंहिकां मतिमान् कपिः ।
व्यवर्धत महाकायः प्रावृषीव बलाहकः ॥५-१-१९१॥
तस्य सा कायमुद्वीक्ष्य वर्धमानं महाकपेः ।
वक्त्रं प्रसारयामास पातालाम्बरसंनिभम् ॥५-१-१९२॥
घनराजीव गर्जन्ती वानरं समभिद्रवत् ।
स ददर्श ततस्तस्या विकृतं सुमहन्मुखम् ॥५-१-१९३॥
कायमात्रं च मेधावी मर्माणि च महाकपिः ।
स तस्या विकृते वक्त्रे वज्रसंहननः कपिः ॥५-१-१९४॥
संक्षिप्य मुहुरात्मानं निपपात महाकपिः ।
आस्ये तस्या निमज्जन्तं ददृशुः सिद्धचारणाः ॥५-१-१९५॥
ग्रस्यमानं यथा चन्द्रं पूर्णं पर्वणि राहुणा ।
ततस्तस्या नखैस्तीक्ष्णैर्मर्माण्युत्कृत्य वानरः ॥५-१-१९६॥
उत्पपाताथ वेगेन मनःसम्पातविक्रमः ।
तां तु दिष्ट्या च धृत्या च दाक्षिण्येन निपात्य सः ॥५-१-१९७॥
कपिप्रवीरो वेगेन ववृधे पुनरात्मवान् ।
हृतहृत्सा हनुमता पपात विधुराम्भसि ।
स्वयंभुवैव हनुमान् सृष्टस्तस्या निपातने ॥५-१-१९८॥
तां हतां वानरेणाशु पतितां वीक्ष्य सिंहिकाम् ।
भूतान्याकाशचारीणि तमूचुः प्लवगोत्तमम् ॥५-१-१९९॥
भीममद्य कृतं कर्म महत्सत्त्वं त्वया हतम् ।
साधयार्थमभिप्रेतमरिष्टं प्लवतां वर ॥५-१-२००॥
यस्य त्वेतानि चत्वारि वानरेन्द्र यथा तव ।
धृतिर्दृष्टिर्मतिर्दाक्ष्यं स कर्मसु न सीदति ॥५-१-२०१॥
स तैः सम्पूजितः पूज्यः प्रतिपन्नप्रयोजनैः ।
जगामाकाशमाविश्य पन्नगाशनवत् कपिः ॥५-१-२०२॥
प्राप्तभूयिष्ठपारस्तु सर्वतः परिलोकयन् ।
योजनानां शतस्यान्ते वनराजीं ददर्श सः ॥५-१-२०३॥
ददर्श च पतन्नेव विविधद्रुमभूषितम् ।
द्वीपं शाखामृगश्रेष्ठो मलयोपवनानि च ॥५-१-२०४॥
सागरं सागरानूपान् सागरानूपजान् द्रुमान् ।
सागरस्य च पत्नीनां मुखान्यपि विलोकयत् ॥५-१-२०५॥
स महामेघसंकाशं समीक्ष्यात्मानमात्मवान् ।
निरुन्धन्तमिवाकाशं चकार मतिमान् मतिम् ॥५-१-२०६॥
कायवृद्धिं प्रवेगं च मम दृष्ट्वैव राक्षसाः ।
मयि कौतूहलं कुर्युरिति मेने महामतिः ॥५-१-२०७॥
ततः शरीरं संक्षिप्य तन्महीधरसंनिभम् ।
पुनः प्रकृतिमापेदे वीतमोह इवात्मवान् ॥५-१-२०८॥
तद्रूपमतिसंक्षिप्य हनूमान् प्रकृतौ स्थितः ।
त्रीन् क्रमानिव विक्रम्य बलिवीर्यहरो हरिः ॥५-१-२०९॥
स चारुनानाविधरूपधारी परं समासाद्य समुद्रतीरम् ।
परैरशक्यं प्रतिपन्नरूपः समीक्षितात्मा समवेक्षितार्थः ॥५-१-२१०॥
ततः स लम्बस्य गिरेः समृद्धे विचित्रकूटे निपपात कूटे ।
सकेतकोद्दालकनारिकेले महाभ्रकूटप्रतिमो महात्मा ॥५-१-२११॥
ततस्तु सम्प्राप्य समुद्रतीरं समीक्ष्य लंकां गिरिवर्यमूर्ध्नि ।
कपिस्तु तस्मिन् निपपात पर्वते विधूय रूपं व्यथयन्मृगद्विजान् ॥५-१-२१२॥
स सागरं दानवपन्नगायुतं बलेन विक्रम्य महोर्मिमालिनम् ।
निपत्य तीरे च महोदधेस्तदा ददर्श लंकाममरावतीमिव ॥५-१-२१३॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे सागरलङ्घनम् नाम प्रथमः सर्गः ॥५-१॥
Next
निशागमप्रतीक्षा