पानभूमिविचयः
सुन्दरकाण्डः / पानभूमिविचयः
Script
Translation
Previous
मन्दोदरीदर्शनम्
Next
हनूमद्विषादः
अथ श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे पानभूमिविचयः नाम एकादशः सर्गः ॥५-११॥
अवधूय च तां बुद्धिं बभूवावस्थितस्तदा ।
जगाम चापरां चिन्तां सीतां प्रति महाकपिः ॥५-११-१॥
न रामेण वियुक्ता सा स्वप्तुमर्हति भामिनी ।
न भोक्तुं नाप्यलंकर्तुं न पानमुपसेवितुम् ॥५-११-२॥
नान्यं नरमुपस्थातुं सुराणामपि चेश्वरम् ।
न हि रामसमः कश्चिद् विद्यते त्रिदशेष्वपि ॥५-११-३॥
अन्येयमिति निश्चित्य भूयस्तत्र चचार सः ।
पानभूमौ हरिश्रेष्ठः सीतासंदर्शनोत्सुकः ॥५-११-४॥
क्रीडितेनापराः क्लान्ता गीतेन च तथापराः ।
नृत्येन चापराः क्लान्ताः पानविप्रहतास्तथा ॥५-११-५॥
मुरजेषु मृदंगेषु चेलिकासु च संस्थिताः ।
तथाऽऽस्तरणमुख्येषु संविष्टाश्चापराः स्त्रियः ॥५-११-६॥
अंगनानां सहस्रेण भूषितेन विभूषणैः ।
रूपसंलापशीलेन युक्तगीतार्थभाषिणा ॥५-११-७॥
देशकालाभियुक्तेन युक्तवाक्याभिधायिना ।
रताधिकेन संयुक्तां ददर्श हरियूथपः ॥५-११-८॥
अन्यत्रापि वरस्त्रीणां रूपसंलापशायिनाम् ।
सहस्रं युवतीनां तु प्रसुप्तं स ददर्श ह ॥५-११-९॥
देशकालाभियुक्तं तु युक्तवाक्याभिधायि तत् ।
रताविरतसंसुप्तं ददर्श हरियूथपः ॥५-११-१०॥
तासां मध्ये महाबाहुः शुशुभे राक्षसेश्वरः ।
गोष्ठे महति मुख्यानां गवां मध्ये यथा वृषः ॥५-११-११॥
स राक्षसेन्द्रः शुशुभे ताभिः परिवृतः स्वयम् ।
करेणुभिर्यथारण्ये परिकीर्णो महाद्विपः ॥५-११-१२॥
सर्वकामैरुपेतां च पानभूमिं महात्मनः ।
ददर्श कपिशार्दूलस्तस्य रक्षःपतेर्गृहे ॥५-११-१३॥
मृगाणां महिषाणां च वराहाणां च भागशः ।
तत्र न्यस्तानि मांसानि पानभूमौ ददर्श सः ॥५-११-१४॥
रौक्मेषु च विशालेषु भाजनेष्वप्यभक्षितान् ।
ददर्श कपिशार्दूलो मयूरान् कुक्कुटांस्तथा ॥५-११-१५॥
वराहवाध्रीणसकान् दधिसौवर्चलायुतान् ।
शल्यान् मृगमयूरांश्च हनुमानन्ववैक्षत ॥५-११-१६॥
कृकलान् विविधांश्छागान् शशकानर्धभक्षितान् ।
महिषानेकशल्यांश्च मेषांश्च कृतनिष्ठितान् ॥५-११-१७॥
लेह्यानुच्चावचान् पेयान् भोज्यान्युच्चावचानि च ।
तथाम्ललवणोत्तंसैर्विविधै रागखाण्डवैः ॥५-११-१८॥
महानूपुरकेयूरैरपविद्धैर्महाधनैः ।
पानभाजनविक्षिप्तैः फलैश्च विविधैरपि ॥५-११-१९॥
कृतपुष्पोपहारा भूरधिकां पुष्यति श्रियम् ।
तत्र तत्र च विन्यस्तैः सुश्लिष्टशयनासनैः ॥५-११-२०॥
पानभूमिर्विना वह्निं प्रदीप्तेवोपलक्ष्यते ।
बहुप्रकारैर्विविधैर्वरसंस्कारसंस्कृतैः ॥५-११-२१॥
मांसैः कुशलसंयुक्तैः पानभूमिगतैः पृथक् ।
दिव्याः प्रसन्ना विविधाः सुराः कृतसुरा अपि ॥५-११-२२॥
शर्करासवमाध्वीकाः पुष्पासवफलासवाः ।
वासचूर्णैश्च विविधैर्मृष्टास्तैस्तैः पृथक् पृथक् ॥५-११-२३॥
संतता शुशुभे भूमिर्माल्यैश्च बहुसंस्थितैः ।
हिरण्मयैश्च कलशैर्भाजनैः स्फाटिकैरपि ॥५-११-२४॥
जाम्बूनदमयैश्चान्यैः करकैरभिसंवृता ।
राजतेषु च कुम्भेषु जाम्बूनदमयेषु च ॥५-११-२५॥
पानश्रेष्ठां तथा भूमिं कपिस्तत्र ददर्श सः ।
सोऽपश्यच्छातकुम्भानि सीधोर्मणिमयानि च ॥५-११-२६॥
तानि तानि च पूर्णानि भाजनानि महाकपिः ।
क्वचिदर्धावशेषाणि क्वचित् पीतान्यशेषतः ॥५-११-२७॥
क्वचिन्नैव प्रपीतानि पानानि स ददर्श ह ।
क्वचिद् भक्ष्यांश्च विविधान् क्वचित् पानानि भागशः ॥५-११-२८॥
क्वचिदर्धावशेषाणि पश्यन् वै विचचार ह ।
शयनान्यत्र नारीणां शून्यानि बहुधा पुनः ।
परस्परं समाश्लिष्य काश्चित् सुप्ता वरांगनाः ॥५-११-२९॥
काचिच्च वस्त्रमन्यस्या अपहृत्योपगुह्य च ।
उपगम्याबला सुप्ता निद्राबलपराजिता ॥५-११-३०॥
तासामुच्छ्वासवातेन वस्त्रं माल्यं च गात्रजम् ।
नात्यर्थं स्पन्दते चित्रं प्राप्य मन्दमिवानिलम् ॥५-११-३१॥
चन्दनस्य च शीतस्य सीधोर्मधुरसस्य च ।
विविधस्य च माल्यस्य पुष्पस्य विविधस्य च ॥५-११-३२॥
बहुधा मारुतस्तस्य गन्धं विविधमुद्वहन् ।
स्नानानां चन्दनानां च धूपानां चैव मूर्च्छितः ॥५-११-३३॥
प्रववौ सुरभिर्गन्धो विमाने पुष्पके तदा ।
श्यामावदातास्तत्रान्याः काश्चित् कृष्णा वरांगनाः ॥५-११-३४॥
काश्चित् काञ्चनवर्णांग््यः प्रमदा राक्षसालये ।
तासां निद्रावशत्वाच्च मदनेन विमूर्च्छितम् ॥५-११-३५॥
पद्मिनीनां प्रसुप्तानां रूपमासीद् यथैव हि ।
एवं सर्वमशेषेण रावणान्तःपुरं कपिः ।
ददर्श स महातेजा न ददर्श च जानकीम् ॥५-११-३६॥
निरीक्षमाणश्च ततस्ताः स्त्रियः स महाकपिः ।
जगाम महतीं शंकां धर्मसाध्वसशंकितः ॥५-११-३७॥
परदारावरोधस्य प्रसुप्तस्य निरीक्षणम् ।
इदं खलु ममात्यर्थं धर्मलोपं करिष्यति ॥५-११-३८॥
न हि मे परदाराणां दृष्टिर्विषयवर्तिनी ।
अयं चात्र मया दृष्टः परदारपरिग्रहः ॥५-११-३९॥
तस्य प्रादुरभूच्चिन्ता पुनरन्या मनस्विनः ।
निश्चितैकान्तचित्तस्य कार्यनिश्चयदर्शिनी ॥५-११-४०॥
कामं दृष्टा मया सर्वा विश्वस्ता रावणस्त्रियः ।
न तु मे मनसा किंचिद् वैकृत्यमुपपद्यते ॥५-११-४१॥
मनो हि हेतुः सर्वेषामिन्द्रियाणां प्रवर्तने ।
शुभाशुभास्ववस्थासु तच्च मे सुव्यवस्थितम् ॥५-११-४२॥
नान्यत्र हि मया शक्या वैदेही परिमार्गितुम् ।
स्त्रियो हि स्त्रीषु दृश्यन्ते सदा सम्परिमार्गणे ॥५-११-४३॥
यस्य सत्त्वस्य या योनिस्तस्यां तत् परिमार्गते ।
न शक्यं प्रमदा नष्टा मृगीषु परिमार्गितुम् ॥५-११-४४॥
तदिदं मार्गितं तावच्छुद्धेन मनसा मया ।
रावणान्तःपुरं सर्वं दृश्यते न च जानकी ॥५-११-४५॥
देवगन्धर्वकन्याश्च नागकन्याश्च वीर्यवान् ।
अवेक्षमाणो हनुमान् नैवापश्यत जानकीम् ॥५-११-४६॥
तामपश्यन् कपिस्तत्र पश्यंश्चान्या वरस्त्रियः ।
अपक्रम्य तदा वीरः प्रस्थातुमुपचक्रमे ॥५-११-४७॥
स भूयः सर्वतः श्रीमान् मारुतिर्यत्नमाश्रितः ।
आपानभूमिमुत्सृज्य तां विचेतुं प्रचक्रमे ॥५-११-४८॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे पानभूमिविचयः नाम एकादशः सर्गः ॥५-११॥
Previous
मन्दोदरीदर्शनम्
Next
हनूमद्विषादः