हनूमद्विषादः
सुन्दरकाण्डः / हनूमद्विषादः
Script
Translation
Previous
पानभूमिविचयः
Next
हनूमन्निर्वेदः
अथ श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे हनूमद्विषादः नाम द्वादशः सर्गः ॥५-१२॥
स तस्य मध्ये भवनस्य संस्थितो लतागृहांश्चित्रगृहान् निशागृहान् ।
जगाम सीतां प्रतिदर्शनोत्सुको न चैव तां पश्यति चारुदर्शनाम् ॥५-१२-१॥
स चिन्तयामास ततो महाकपिः प्रियामपश्यन् रघुनन्दनस्य ताम् ।
ध्रुवं न सीता ध्रियते यथा न मे विचिन्वतो दर्शनमेति मैथिली ॥५-१२-२॥
सा राक्षसानां प्रवरेण जानकी स्वशीलसंरक्षणतत्परा सती ।
अनेन नूनं प्रति दुष्टकर्मणा हता भवेदार्यपथे परे स्थिता ॥५-१२-३॥
विरूपरूपा विकृता विवर्चसो महानना दीर्घविरूपदर्शनाः ।
समीक्ष्य ता राक्षसराजयोषितो भयाद् विनष्टा जनकेश्वरात्मजा ॥५-१२-४॥
सीतामदृष्ट्वा ह्यनवाप्य पौरुषं विहृत्य कालं सह वानरैश्चिरम् ।
न मेऽस्ति सुग्रीवसमीपगा गतिः सुतीक्ष्णदण्डो बलवांश्च वानरः ॥५-१२-५॥
दृष्टमन्तःपुरं सर्वं दृष्टा रावणयोषितः ।
न सीता दृश्यते साध्वी वृथा जातो मम श्रमः ॥५-१२-६॥
किं नु मां वानराः सर्वे गतं वक्ष्यन्ति संगताः ।
गत्वा तत्र त्वया वीर किं कृतं तद् वदस्व नः ॥५-१२-७॥
अदृष्ट्वा किं प्रवक्ष्यामि तामहं जनकात्मजाम् ।
ध्रुवं प्रायमुपासिष्ये कालस्य व्यतिवर्तने ॥५-१२-८॥
किं वा वक्ष्यति वृद्धश्च जाम्बवानंगदश्च सः ।
गतं पारं समुद्रस्य वानराश्च समागताः ॥५-१२-९॥
अनिर्वेदः श्रियो मूलमनिर्वेदः परं सुखम् ।
भूयस्तत्र विचेष्यामि न यत्र विचयः कृतः ॥५-१२-१०॥
अनिर्वेदो हि सततं सर्वार्थेषु प्रवर्तकः ।
करोति सफलं जन्तोः कर्म यच्च करोति सः ॥५-१२-११॥
तस्मादनिर्वेदकरं यत्नं चेष्टेऽहमुत्तमम् ।
अदृष्टांश्च विचेष्यामि देशान् रावणपालितान् ॥५-१२-१२॥
आपानशाला विचितास्तथा पुष्पगृहाणि च ।
चित्रशालाश्च विचिता भूयः क्रीडागृहाणि च ॥५-१२-१३॥
निष्कुटान्तररथ्याश्च विमानानि च सर्वशः ।
इति संचिन्त्य भूयोऽपि विचेतुमुपचक्रमे ॥५-१२-१४॥
भूमीगृहांश्चैत्यगृहान् गृहातिगृहकानपि ।
उत्पतन् निपतंश्चापि तिष्ठन् गच्छन् पुनः क्वचित् ॥५-१२-१५॥
अपवृण्वंश्च द्वाराणि कपाटान्यवघट्टयन् ।
प्रविशन् निष्पतंश्चापि प्रपतन्नुत्पतन्निव ॥५-१२-१६॥
सर्वमप्यवकाशं स विचचार महाकपिः ।
चतुरंगुलमात्रोऽपि नावकाशः स विद्यते ।
रावणान्तःपुरे तस्मिन् यं कपिर्न जगाम सः ॥५-१२-१७॥
प्राकारान्तरवीथ्यश्च वेदिकाश्चैत्यसंश्रयाः ।
श्वभ्राश्च पुष्करिण्यश्च सर्वं तेनावलोकितम् ॥५-१२-१८॥
राक्षस्यो विविधाकारा विरूपा विकृतास्तथा ।
दृष्टा हनुमता तत्र न तु सा जनकात्मजा ॥५-१२-१९॥
रूपेणाप्रतिमा लोके परा विद्याधरस्त्रियः ।
दृष्टा हनुमता तत्र न तु राघवनन्दिनी ॥५-१२-२०॥
नागकन्या वरारोहाः पूर्णचन्द्रनिभाननाः ।
दृष्टा हनुमता तत्र न तु सा जनकात्मजा ॥५-१२-२१॥
प्रमथ्य राक्षसेन्द्रेण नागकन्या बलाद्धृताः ।
दृष्टा हनुमता तत्र न सा जनकनन्दिनी ॥५-१२-२२॥
सोऽपश्यंस्तां महाबाहुः पश्यंश्चान्या वरस्त्रियः ।
विषसाद महाबाहुर्हनूमान् मारुतात्मजः ॥५-१२-२३॥
उद्योगं वानरेन्द्राणां प्लवनं सागरस्य च ।
व्यर्थं वीक्ष्यानिलसुतश्चिन्तां पुनरुपागतः ॥५-१२-२४॥
अवतीर्य विमानाच्च हनूमान् मारुतात्मजः ।
चिन्तामुपजगामाथ शोकोपहतचेतनः ॥५-१२-२५॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे हनूमद्विषादः नाम द्वादशः सर्गः ॥५-१२॥
Previous
पानभूमिविचयः
Next
हनूमन्निर्वेदः